परशुरामकृता महेश्वरस्तुतिः
परशुराम उवाच ।
नमो देवदेवेश ! गौरीश ! शम्भो !
नमो विश्वकर्त्रे नमो विश्वभर्त्रे ।
नमो विश्वहर्त्रे नमो विश्वमूर्ते !
नमो विश्वधाम्ने नमःश्चन्द्रधाम्ने ॥ ९॥
नमो निर्गुणायामलज्ञानहेतो ! निराकार ! साकार ! नित्याय तेऽस्तु ।
नमो देववेदान्तशास्त्रातिगाय नमोऽव्यक्तव्यक्तात्मने सत्स्वरूप ॥ १०॥
गुणत्रयप्रबोधाय गुणातीताय ते नमः ।
नमः प्रपञ्चविदुषे प्रपञ्चरहिताय ते ॥ ११॥
क उवाच ।
इति स्तोत्रं समाकर्ण्य परितुष्टो महेश्वरः ।
उवाच राममामन्त्र्य तृप्तो वाक्यामृतेन ते ॥ १२॥
वरं वृणीष्व मत्तस्त्वं यं यं कामयसे हृदि ।
जानामि जामदग्न्यं त्वां रेणुकातनयं द्विज ॥ १३॥
परशुराम उवाच ।
कार्तवीर्येण दुष्टेन कामधेनुमपेक्षता ।
जमदग्निर्हतो रोषादपराधं विना प्रभो ॥ १४॥
रेणुका ताडिता बाणैः समन्ताज्जननी मम ।
एकविंशतिसङ्ख्याकैर्भुक्त्वाऽपि सेनया सह ॥ १५॥
जहि तं दुष्टनृपतिमिति मात्रा नियोजितः ।
त्वामहं शरणं यात उपायं वद तद्वधे ॥ १६॥
त्रिसप्तवारं तेनैव कुर्यां निःक्षत्रियां महीम् ।
क उवाच ।
एवं विदिततत्वार्थो महादेवो जगाद तम् ॥ १७॥
आलोक्य प्रणिधानेन जयोपायं सुखावहम् ।
षडक्षरं महामन्त्रं द्विरदाननतोषकम् ॥ १८॥
कथयामास रामाय जपं कुरु प्रयत्नतः ।
लक्षमात्रं चहोमं चदशांशेन समाचार ॥ १९॥
तर्पणं तद् दशांशेन तद् दशांशेन भोजनम् ।
ब्राह्मणानां महाभक्त्या प्रसन्नो भविता भुवि ॥ २०॥
गजाननो देवदेवः सर्वकार्यं करिष्यति ।
इति तद्वचनं श्रुत्वा प्रणम्य भवमादरात् ॥ २१॥
इति परशुरामकृता महेश्वरस्तुतिः सम्पूर्णा ।
- ॥ श्रीगणेशपुराणं उपासना (पूर्व)खण्ड । अध्याय ८२ । १.८२ ९-१३॥
- .. shrIgaNeshapurANaM upAsanA (pUrva)khaNDa . adhyAya 82 . 1.82 9-13..
Proofread by Preeti Bhandare