श्रीमल्लारिमाहात्म्यम्
ध्यानम् -
हेमाम्भोजप्रवालप्रतिमनिजरुचिं चारुखट्वाङ्गपद्मौ
चक्रं शक्तिं सपाशं सृणिमतिरुचिरामक्षमालां कपालम् ।
हस्ताम्भोजैर्दधानं त्रिनयनविलसद्वेदवक्त्राभिरामं
मार्ताण्डं वल्लभार्धं मणिमयमुकुटं हारदीप्तं भजामः ॥
मकुटमणिमयूखप्रोज्झिताशेषरत्नं
विमलशशिकलाङ्कं सुन्दरेन्दीवराक्षम् ।
अनुकृतशशितेजः कुण्डलं चारुहासं
प्रकटदशनशोभानिर्जितानेकहीरम् ॥ १॥
अभिनवमणिमुक्ताहारचाम्पेयमाला
विविधकुसुमगुच्छैः शोभिवक्षःस्थलाढ्यम् ।
सफणपवनभुग्दोर्दण्डभूषाभिरामं
करडमरुनिनादैः पूरितव्योमगर्भम् ॥ २॥
त्रिभुवनजगदीशं पीतकौशेयवासं
दनुजदहनदक्षं प्रस्फुरत्खड्गहस्तम् ।
भुजगफणसुगुप्तैर्भूषणैर्न्यस्तभूषं
प्रणतसुरकिरीटव्याप्तपादारविन्दम् ॥ ३॥
सितहयवरपत्रं हारसम्भूषिताङ्गं
परिवृतमतिघोरैः सप्तभिः सारमेयैः ।
कनकगिरिसमाभं नैशचूर्णाभिरामं
सकलनिगमगुह्यं नौमि मल्लारिदेवम् ॥ ४॥
इति श्रीमल्लारिमाहात्म्यं सम्पूर्णम् ।