श्रीमल्लिकार्जुनमङ्गलाशासनम्
उमाकान्ताय कान्ताय कामितार्थप्रदायिने ।
श्रीगिरीशाय देवाय मल्लिनाथाय मङ्गलम् ॥ १॥
सर्वमङ्गलरूपाय श्रीनगेन्द्रनिवासिने ।
गङ्गाधराय नाथाय श्रीगिरीशाय मङ्गलम् ॥ २॥
सत्यानन्दस्वरूपाय नित्यानन्दविधायने ।
स्तुत्यायश्रुतिगम्याय श्रीगिरीशाय मङ्गलम् ॥ ३॥
मुक्तिप्रदाय मुख्याय भक्तानुग्रहकारिणे ।
सुन्दरेशाय सौम्याय श्रीगिरीशाय मङ्गलम् ॥ ४॥
श्रीशैले शिखरेश्वरङ्गणपतिं श्रीहाटकेशं पुन-
स्सारङ्गेश्वरबिन्दुतीर्थममलङ्घण्टार्कसिद्धेश्वरम् ।
गङ्गां श्रीभ्रमराम्बिकाङ्गिरिसुतामारामवीरेश्वरं
शङ्खञ्चक्रवराहतीर्थमनिशं श्रीशैलनाथं भजे ॥ ५॥
हस्तेकुरङ्गङ्गिरिमध्यरङ्गं
शृङ्गारिताङ्गङ्गिरिजानुषङ्गम् ।
मूर्देन्दुगङ्गम्मदनाङ्गभङ्गं
श्रीशैललिङ्गं शिरसा नमामि ॥ ६॥
इति श्रीमल्लिकार्जुनमङ्गलाशासनं सम्पूर्णम् ।