श्रीमल्लिकार्जुन प्रपत्तिः
जय जय जय शम्भो ! जम्भभित्पूर्वदेव
प्रणतपदसरोजद्वन्द्व ! निर्द्वन्द्व ! बन्धो !
जय जय जय जन्मस्थेमसंहारकार !
प्रणयसगुणमूर्ते ! पालयास्मान् प्रपन्नान् ॥ १॥
वधूमुखं वल्गदपाङ्गरेखमखण्डितानन्दकरप्रसादम् ।
विलोकयन् विस्फुरदात्मभावस्स मे गतिश्श्रीगिरिसार्वभौमः ॥ २॥
कुरङ्गपाणिः करुणावलोकः सुरोत्तमश्चन्द्रकलावतंसः ।
वधूसहायस्सकलेष्टदाता भवत्यसौ श्रीगिरिभाग्यराशिः ॥ ३॥
सन्ध्यारम्भविजृम्भितं श्रुतिशिरस्थ्सानान्तराधिष्ठितं
सप्रेमभ्रमराभिराममसकृत्सद्वासनाशोभितम् ।
भोगीन्द्राभरणं समस्तसुमनःपूज्यं गुणाविष्कृतं
सेवे श्रीगिरिमल्लिकार्जुनमहालिङ्गं शिवालिङ्गितम् ॥ ४॥
या मूलं सचराचरस्य जगतः पुंसः पुराणी सखी
व्यक्तात्मा परिपालनाय जगतामाप्तावतारस्थितिः ।
दुष्टध्वंस-सदिष्टदानविधये नानासनाध्यासिनी
श्रीशैलाग्रनिवासिनी भवतु मे श्रेयस्करी भ्रामरी ॥ ५॥
यत्तेजः परमाणुरेतदखिलं नानास्फुरन्नामभिः
भूतं भावि भवच्चराचरजगद्धत्ते बहिश्चान्तरे ।
सा साक्षात् भ्रमराम्बिका शिवसखी श्रीशैलवासोत्सुका
दिश्यादाश्रितलोककल्पलतिका श्रेयांसि भूयांसि नः ॥ ६॥
शरणं तरुणेन्दुशेखरश्शरणं मे गिरिराजकन्यका ।
शरणं पुनरेव तावुभौ शरणं नान्यदुपैमि दैवतम् ॥ ७॥
इति श्रीमल्लिकार्जुन प्रपत्तिः समाप्ता ।