मन्त्रराजस्तवः
(धौम्येनोपदिष्टः पुरूरवसे ।)
अस्य श्री मन्त्रराजस्तवस्य ब्रह्मा ऋषिः । अनुष्टुप् छन्दः । श्री
आत्मनायको देवता । ॐ बीजं, ह्रीं शक्तिः, क्लीं कीलकं, श्री
आत्मनाथप्रसादार्थे जपे विनियोगः । ह्रां अङ्गुष्ठाभ्यां नमः । ह्रीं तर्जनीभ्यां
स्वाहा । ह्रूं मध्यमाभ्यां वषट् । ह्रैं अनामिकाभ्यां हुम् । ह्रौं कनिष्ठिकाभ्यां
वौषट् । ह्रः करतलकरपृष्ठाभ्यां फट् । एवं हृदयादि न्यासः ।
भूर्भुवस्सुवरोमिति दिग्बन्धः ॥
ध्यानम्-
तुर्यातीतपदोर्ध्वगं गुणपरं सत्तामयं सर्वगं
सम्वेद्यं श्रुतिशीर्षकैरनुपमं सर्वाधिकं शाश्वतम् ।
ओङ्कारान्तरबिन्दुमध्यसदनं ह्रीङ्कारलभ्यं नुमो
व्योमाकारशिखाविभाविमुनिसन्दृश्यं चिदात्मेश्वरम् ॥
लं इत्यादि पञ्चपूजा ।
ओङ्कारगम्य ओङ्कारवाच्य ओङ्कारविग्रहः ।
ओङ्कारशुक्तिकामुक्तामणिरोङ्कारवल्लभः ॥ १॥
ओङ्कारबिलपञ्चास्य ओङ्कारसुषिरोरगः ।
ओङ्कारपञ्जरशुक ओङ्कारान्तरवासकः ॥ २॥
ओङ्कारनलिनीहंस ओङ्कारावालकन्दरः ।
ओङ्कारसुमसौरभ्य ओङ्कारशमिहव्यवाट् ॥ ३॥
ओङ्कारगोक्षीरसर्पिरोङ्काराम्बरभास्करः ।
ओङ्कारदीपसुज्योतिरोङ्कारद्विजराट्सुधा ॥ ४॥
ओङ्कारवेदोपनिषदोङ्कारफलसद्रसः ।
ओङ्कारनवमाणिक्यसौधसन्निष्ठभूपतिः ॥ ५॥
नगेन्द्रतनयानाथो नानारूपसमन्वितः ।
नवनीलघनश्यामकन्धरो नागकुण्डलः ॥ ६॥
नमज्जनामरतरुर्नटनोत्सुकमानसः ।
नागभुग्वाहजनको नक्षत्रेशशिखामणिः ॥ ७॥
नवकर्पूरगौराङ्गो नलिनेक्षणसायकः ।
नादबिन्दुकलातीतो नागचर्मोत्तरीयकः ॥ ८॥
नागास्यजनको नम्यो नन्दिकेशसमर्चितः ।
नारायणार्चितो नानानिगमोदितमूर्तिमान् ॥ ९॥
नारसिंहमहादर्पकदलीवनकुञ्जरः ।
नवन्नवनमल्लोकसङ्घकारुण्यवार्षिकः ॥ १०॥
नमद्ब्रह्मादिकोटीरनवरत्नोज्ज्वलाङ्घ्रिकः ।
मायातीतो महामायी मनोवाचामगोचरः ॥ ११॥
मञ्जुलाङ्गो महायोगी महामेरुशरासनः ।
मन्मथध्वंसको मौनी मधुधारातिभाषकः ॥ १२॥
महीरथो महादेवो महोक्षवरवाहनः ।
माधुर्यजाह्नवीवीचीसम्प्लावितजटातटः ॥ १३॥
मनोरथफलातीतवरप्रदपदाम्बुजः ।
महाप्रलयसञ्चारी महाकालो महानटः ॥ १४॥
मधुरापुरमध्यस्थविमानान्तरवासकः ।
मार्ताण्डकोटिसदृशो मायापुरनिवासकः ॥ १५॥
शिवाकृतिः शिवाकारः शिवानन्दवपुर्धरः ।
शिवाप्रियः शिवाज्ञेयः शिवयोगवनेश्वरः ॥ १६॥
शिवाधारः शिवमयः शिवासक्तहृदम्बुजः।
शिवाङ्गीकृतवामाङ्गः शिवलोकेश्वरः शिवः ॥ १७॥
शिवासहायः शिखिदृक्छिखण्डी शिवलोकदः ।
शिवक्षेत्रविलासी च शिखरीन्द्रनिकेतनः ॥ १८॥
शिवभक्तहृदम्भोजनिवासी शिवपूःपतिः ।
वाग्मी वरिष्ठो वरदो वाताशविलसत्करः ॥ १९॥
वसुप्रदो वासुदेववर्यचक्रायुधप्रदः ।
वरकुन्दद्रुमावासी वटमूलतटाश्रयः ॥ २०॥
वसुन्धरामराकारो वन्द्यो वात्सल्यवारिधिः ।
वामदेवो वर्यवर्यो वराभयकराम्बुजः ॥ २१॥
वसुरेता वरेण्यश्च वासवाद्यमरार्चितः ।
वशीकृताखिलाण्डश्च वाक्प्रदो वरदेशिकः ॥ २२॥
यज्ञकृद्यज्ञहृद्यज्ञध्वंसी यज्ञेश्वरो यमी ।
यमाद्यष्टाङ्गसन्दृश्यो यन्ता यज्ञविदुत्तमः ॥ २३॥
यथेच्छासृष्टभुवनो यथार्थजनवत्सलः ।
यताश्रितजनक्लेशो यज्ञसन्दृश्यविग्रहः ॥ २४॥
यमप्रहर्ता यक्षेशसखा यातुगुणान्तकः ।
यज्ञमृग्यो यज्ञसाध्यो यज्ञविश्रान्तिभूरुहः ॥ २५॥
यतीशो यतिचित्तारविन्दनृत्तविधायकः ॥ २६॥
आत्माऽन्तरात्मा परात्माऽऽदिकैलासनायकः ।
आत्मनाथस्तीर्थनाथः शब्दनाथः सदाशिवः ॥ २७॥
अष्टविंशोत्तरशतैरेतैर्नामभिरुज्ज्वलम् ।
अखण्डं मन्त्रराजाख्यस्तवमब्जभवोदितम् ॥ २८॥
सकृत् पठित्वा मनुजः श्रुत्वा वा सर्वभोगभुक् ।
सर्वाघौघविनिर्मुक्तः स जीवेच्छरदः शतम् ॥ २९॥
इति धौम्येनोपदिष्टः पुरूरवसे कृतः श्रीमन्त्रराजस्तवः ।
Proofread by Aruna Narayanan