श्रीमेधादक्षिणामूर्तिमानसपूजास्तोत्रम्
मुद्राक्षमालामृतपात्रविद्या-व्याघ्राजिनार्धेन्दुफणीन्द्रयुक्तम् ।
ध्यायामि योगीन्द्र हृत्पद्मभृङ्गं देवं सुमेधाप्रददक्षिणास्यम् ॥ १॥
सुवर्णरत्नामल-वज्रनीलमाणिक्यमुक्तामणियुक्तपीठे ।
आवाहये देशिकचूडमाद्यं विज्ञानमुद्राञ्चितपाणिपद्मम् ॥ २॥
श्रीजाह्नवीनिर्मलतोयमीश पाद्यार्घ्यदानाय समर्पयिष्ये ।
देवेश तेनाचमनं कुरुष्व श्री दक्षिणामूर्ति गुरुस्वरूप ॥ ३॥
स्नानं कुरुष्वामलगाङ्गतोये सुवासितेस्मिन् शिव दक्षिणास्य ।
सुवर्णतन्तूद्भववस्त्रयुग्मं यज्ञोपवीतं परिधत्स्व देव ॥ ४॥
कस्तूरिकाचन्दनकुङ्कुमादिविमिश्रगन्धं परिकल्पयामि ।
मन्दारपङ्केरुहकुन्दजाजी-सुगन्ध पुष्पाणि गृहाण देव ॥ ५॥
दशाङ्गधूपं परिकल्पयामि वर्तित्रयेणान्वितमाज्ययुक्तम् ।
ते दर्शयामीश सुवर्णदीपं श्रीदक्षिणामूर्तिगुरो प्रसीद ॥ ६॥
शाल्योदनं निर्मलशूपशाक-भक्ष्याज्ययुक्तं च दधिप्रसिक्तम् ।
कपित्थसद्राक्ष फलानिचैव सापोशनं भक्षय दक्षिणास्य ॥ ७॥
नीराजनं निर्मलपात्रसंस्थं कर्पूरसन्दीपितमच्छरूपम् ।
करोमि गौरीश तवोपरीदं व्योमाकृते शङ्कर दक्षिणास्य ॥ ८॥
पुष्पाञ्जलिं पादतले विकीर्णां छत्रादिराजोपचारान् गृहाण ।
ममापराधान् सकलान् क्षमस्व दयानिधे मौनगुरो प्रसीद ॥ ९॥
नमोनमः पापविनाशनाय नमोनमः कञ्जभवार्चिताय ।
नमोनमः कृष्णहृदिस्थिताय श्रीदक्षिणामूर्तिमहेश्वराय ॥ १०॥
इति श्रीमेधादक्षिणामूर्तिमानसपूजास्तोत्रं सम्पूर्णम् ।
Proofread by Narendran Madathil