श्रीमेधादक्षिणामूर्तिमन्त्रवर्णपदस्तुतिः

श्रीमेधादक्षिणामूर्तिमन्त्रवर्णपदस्तुतिः

ॐ नमो भगवते दक्षिणामूर्तये मह्यं मेधां प्रज्ञां प्रयच्छ स्वाहा । ओमित्येकाक्षरं ब्रह्म व्याहरन्ति त्रयश्शिखाः । तस्मै तारात्मने मेधादक्षिणामूर्तये नमः ॥ १॥ नत्वायं मुनयस्सर्वे परं यान्ति दुरासदम् । नकाररूपिणे मेधादक्षिणामूर्तये नमः ॥ २॥ मोहजालविनिर्मुक्तो ब्रह्मविद् याति यत्पदम् । मोकाररूपिणे मेधादक्षिणामूर्तये नमः ॥ ३॥ भवमाश्रित्य यं विद्वान् भवे नह्यभवत् पुनः । भकाररूपिणे मेधादक्षिणामूर्तये नमः ॥ ४॥ गगनाकारवद्भान्तमनुभात्यखिलं जगत् । गकाररूपिणे मेधादक्षिणामूर्तये नमः ॥ ५॥ वटमूलनिवासो यो गुरूणां गुरुरव्ययः । वकाररूपिणे मेधादक्षिणामूर्तये नमः ॥ ६॥ तेजोभिर्यस्य सूर्योऽसौ कालकॢप्तिकरो भवेत् । तेकाररूपिणे मेधादक्षिणामूर्तये नमः ॥ ७॥ दक्षत्रिपुर कामारिः यः कालविषभञ्जकः । दकाररूपिणे मेधादक्षिणामूर्तये नमः ॥ ८॥ क्षिप्रं भवति वाक्सिद्धिः यन्नामस्मरणान्नृणाम् । क्षिकाररूपिणे मेधादक्षिणामूर्तये नमः ॥ ९॥ णाकारवाच्यो वस्सुप्तं सन्दीपयति मे मनः । णाकाररूपिणे मेधादक्षिणामूर्तये नमः ॥ १०॥ मूर्तयोह्यष्टधा यस्य जगज्जन्मादिकारणम् । मूकाररूपिणे मेधादक्षिणामूर्तये नमः ॥ ११॥ तत्त्वमसीतिवाक्येन गुरूणा यत्प्रबोधितः । तकाररूपिणे मेधादक्षिणामूर्तये नमः ॥ १२॥ येयं विदित्वा ब्रह्माद्या ऋषयो यान्ति निर्वृतिम् । येकाररूपिणे मेधादक्षिणामूर्तये नमः ॥ १३॥ महामौनी करे मालां मुद्रां संविन्मयीं दधन् । मकाररूपिणे मेधादक्षिणामूर्तये नमः ॥ १४॥ ह्यम्बिकामुखपद्मार्को हेयोपादेयवर्जितः । ह्यकाररूपिणे मेधादक्षिणामूर्तये नमः ॥ १५॥ मेधाप्रदानदक्षाय मेरुकोदण्डपाणये । मेकाररूपिणे मेधादक्षिणामूर्तये नमः ॥ १६॥ धामत्रयात्मनेत्राढ्य धूर्जटे धवल प्रभ । धाकाररूपिणे मेधादक्षिणामूर्तये नमः ॥ १७॥ प्रकृतेर्यत्परं ध्यात्वा तादात्म्यं याति वै मुनिः । प्रकाररूपिणे मेधादक्षिणामूर्तये नमः ॥ १८॥ ज्ञानिनोयमुपास्यन्ति तत्त्वातीतं चिदात्मकम् । ज्ञाकाररूपिणे मेधादक्षिणामूर्तये नमः ॥ १९॥ प्रज्ञा सञ्जायते यस्य ध्याननामार्चनादिभिः । प्रकाररूपिणे मेधादक्षिणामूर्तये नमः ॥ २०॥ यस्य स्मरणमात्रेण नरोमुच्येत बन्धनात् । यकाररूपिणे मेधादक्षिणामूर्तये नमः ॥ २१॥ छन्ना यस्या छविर्मेघे सूर्यवन्मायया विभोः । छकाररूपिणे मेधादक्षिणामूर्तये नमः ॥ २२॥ स्वान्तेविदां जडानां यो दूरे तिष्ठति चिन्मयः । स्वाकाररूपिणे मेधादक्षिणामूर्तये नमः ॥ २३॥ हार्दाकाशविलासाय हाटकाभशरीरिणे । हाकाररूपिणे मेधादक्षिणामूर्तये नमः ॥ २४॥ इति श्रीमेधादक्षिणामूर्तिमन्त्रवर्णपदस्तुतिः सम्पूर्णा । Proofread by Narendran Madathil
% Text title            : Shri Medhadakshinamurti Mantravarnapada Stuti
% File name             : medhAdakShiNAmUrtimantravarNapadastutiH.itx
% itxtitle              : medhAdakShiNAmUrtimantravarNapadastutiH
% engtitle              : medhAdakShiNAmUrtimantravarNapadastutiH
% Category              : shiva, mantra, stuti
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Narendran Madathil
% Indexextra            : (Scan)
% Latest update         : July 20, 2026
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org