मुनयः कृता शिवस्तुतिः
महादेव देवादिदेवादिदेव प्रसीद प्रसीद प्रसीद प्रसीद ।
प्रसीद प्रसीद प्रसीद प्रसीद प्रसीद प्रभो चन्द्रमौले प्रसीद ॥ ८३॥
अनाथैकनाथस्त्वमेको महेश स्मरारे पुरस्तादधस्ताच्च पश्चात् ।
त्वमेवासि पार्श्वेऽपि पश्य प्रसीद स्मरन्तं भवन्तं कृतान्तान्तकं त्वाम् ॥ ८४॥
भवन्तं विनान्यं न जाने न जाने मतिस्त्वं गतिस्त्वं पतिस्त्वं महेश ।
पितापि त्वमेवेन्दुमौलेकमीडे भवन्तं विना कोऽपि नेड्योऽपि लोके ॥ ८५॥
मदङ्गं च तुङ्गेन लिङ्गेन सङ्गं भवन्तं परं प्राप्तुमेवेति मन्ये ।
इदं बिल्वपत्रावृतं लिङ्गमीश समस्तार्थदानोद्यतं सर्वदापि ॥ ८६॥
प्रपश्यामि तुङ्गानि लिङ्गान्यभङ्गान्यपाराणि तद्दर्शनेनैव मुक्तिः ।
भवित्री ममेशान नूनं न याचे न याचे न चान्यत्र वाञ्छा कुतः स्यात् ॥ ८७॥
न चेन्द्रादिलोकेषु वाञ्छा महेश स्मरारे भवत्पादपद्मे शपामि ।
निधिं प्राप्य को वा मुहुः काचखण्डं स्वतुण्डेन गृह्णाति चण्डालवृत्तिः ॥ ८८॥
दृढा भक्तिरीशानपादारविन्दे ममास्त्वस्तु नित्यं ममास्त्वस्तु सा मे ।
समर्था हि धर्मार्थकामप्रदाने तथा मोक्षदाने समर्था महेश ॥ ८९॥
॥ इति शिवरहस्यान्तर्गते मुनयः कृता शिवस्तुतिः सम्पूर्णा सम्पूर्णा ॥
- ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । उत्तरार्धम् । अध्यायः २४। ८३-८९ ॥
- .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . uttarArdham . adhyAyaH 24. 83-89 ..
Proofread by Ruma Dewan