मुनयः कृता शिववन्दना
शिव श्रीमहादेव गौरीपते मां त्वदीयं नयापारसंसारपारम् ।
भवन्तं विना कोऽपि नास्त्येव लोके न माता पिता वा न दाता महेश ॥ ४२॥
अघोरा हि संसारवृत्तिस्त्वपारा हराचारहीनस्य हारानुकारः ।
कदाप्यस्य नेत्येव संसारपारं नयाशु प्रपश्येश पश्य प्रपश्य ॥ ४३॥
कदा वा मुदा वा महादेव देवेत्युपालम्भनेनाषि कालो विनेयः ।
स्वकालोऽपि नेयः स कालोऽयमासीत् इति श्रीमहाकालकालानुवेलम् ॥ ४४॥
अयं पुण्यकालो महाकालकालः स्मृतो येन कालस्वभावोऽयमासीत् ।
अयं शोभनस्यापि कालो यतोऽभूत् महेशस्मृतिर्मुक्तिदानप्रवीणा ॥ ४५॥
स संसारमोहप्रवाहोऽपि नष्टः क्षणार्धादिहार्धेन्दुमौले कृपालो ।
अलं बाललीलाभिरित्येव कुर्मः शिवाराधनं बालबिल्वीदलाद्यैः ॥ ४६॥
संसारचण्डकरधीरकरप्रचारैः तप्तं शरीरमिदमेतदतः परं मे ।
गौरीमनोहरतरुप्रवरोपकण्ठच्छायामुपेत्य निवसामि खलु प्रकामम् ॥ ४७॥
दुर्वृत्तवृत्तशमनोपशमाय शर्वं शश्वत् समीहितसमर्पणकारणेषु ।
लिङ्गेषु फुल्लकमलैः कमलैश्च बिल्वैर्रभ्यर्चयामि सितभूतिविभूषिताङ्गः ॥ ४८॥
नातः परं कृत्यमुमा सहायपादारविन्दभजनादपि किं वदान्यत् ।
कृत्यं विशिष्य सकलेप्सितदानदक्षदाक्षायणीरमणमक्षरमाश्रयामः ॥ ४९॥
गौरीमनोरमण ते चरणारविन्दमस्माकमस्तु शरणं तरुणेन्दुमौले ।
नक्षत्रमण्डल निभामलगण्डमाला लीलाविलोकनविलोचनभाललोल ॥ ५०॥
॥ इति शिवरहस्यान्तर्गते मुनयः कृता शिववन्दना सम्पूर्णा ॥
- ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । उत्तरार्धम् । अध्यायः २४। ४२-५० ॥
- .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . uttarArdham . adhyAyaH 24. 42-50 ..
Proofread by Ruma Dewan