मुनिभिः कृतः शिवपञ्चाक्षरार्थस्तवः

मुनिभिः कृतः शिवपञ्चाक्षरार्थस्तवः

(शिवरहस्यान्तर्गते ईश्वराख्ये) - शिवगौरीसंवादे - मुनय ऊचुः । ओमित्येकाक्षरोऽसिप्रकृतिविरहितः ओमितीदं च सर्वम् । त्वत्तो भिन्नं न चैतत् शिव तव महिमां वक्ति वेदः सदैव ॥ ४०॥ ईशानस्त्वं सर्वविद्याधिनाथः उद्गीथस्त्वं सर्व भूतेश्वरश्च । तथैव त्वं मातृमेयादिहीनः शब्दादीनां मूलमीशस्त्वमेव ॥ ४१॥ ॥ नमः शिवाय ॥ नमस्ते रुद्र त्वं श्रुतिगतनमोऽन्तैकवचसां भवानन्तो नाथो नतिकरणनानाविधतनुः । न हि त्वत्तो भिन्नं जगदपि च नानैव हि मृषा नमः शेषोष्णीषिन् न हि शिव विवादः श्रुतिबलात् ॥ ४२॥ महानात्मा मायाविरहिशरीरो मनुगतो महेशो मन्त्रार्थस्त्वमसि मनुदाता मनसिगः । मनस्वी मध्यस्थो मरणजननाद्यन्तरहितः मधुर्मन्ता माता भवसि हर मन्वर्चितपदः ॥ ४३॥ शिवः शिष्ठो निष्ठो भवसि शिपिविष्टः शिवतरः शिनीवाल्यः खल्यः शशिधरशिखासूक्तमहिमा । शिखीनेत्रो यन्त्रो भवसि शितिकम्ठस्त्वमसि दृक् शतावर्तो हर्ता त्वमसि भवहर्तासि जगताम् ॥ ४४॥ वाहीकृतोक्ष भगवन् हर वामदेव वाताशनादिपरिभूषितदिव्यकाय । वास्तव्य वास्तुप महेश्वर वामनेत्रा - क्लृप्तार्धकाय भगवन् अव वारणारे ॥ ४५॥ यतो जातं विश्वं यमयति तथान्ते च यदृते न हि स्वस्थं यस्मान्न भवति तथानन्यगतिकम् । यमात्मानं सर्वे न हि खलु विजानन्ति तमसः परं पारं यत्तत् भवसि यततामेव नियतम् ॥ ४६॥ ईश्वरः उवाच । पञ्चाक्षरार्थस्तवमेतदेवं पठन्त एवाध्यवसन्ति मां शिवे । त एव धन्या जगतीतलेऽस्मिन् तेषां हि मुक्तिः करगा भवेत ॥ ४७॥ वेदक्षीरमहार्णवोद्यतमहारुद्रोर्मिनामावली- मध्यभ्राजितदिव्यहृद्यतम सत्पञ्चाक्षरीविद्यया । राजत्येव सुधाकरांशुचयवद्विप्रोनरो वा सुरो घोरोवाप्यसुरोऽथवा गिरिसुते मुक्तो भवेत्पातकैः ॥ ४८॥ ॥ इति शिवरहस्यान्तर्गते मुनिभिः कृतः शिवपञ्चाक्षरार्थस्तवः सम्पूर्णः ॥ - ॥ श्रीशिवरहस्यम् । ईश्वराख्यः दशमांशः । अध्यायः ३७ शिवगौरीसंवादे पञ्चाक्षरमहिमा । ४०-४८॥ - .. shrIshivarahasyam . IshvarAkhyaH dashamAMshaH . adhyAyaH 37 shivagaurIsaMvAde pa~nchAkSharamahimA . 40-48.. Notes: Muni-s मुनयः eulogise Śiva शिव with a composition in which five verses (numbered 42 to 46) begin with one akśara अक्षर sequentially from the ŚivaPañcākṣara Mantra शिव पञ्चाक्षर मन्त्र i.e. Namaḥ Śivāya नमः शिवाय that resides in the middle of the Rudrormināmāvalī रुद्रोर्मिनामावली that is in the midst of the Ocean of Milk of the Veda-s (VedakṣīraMahārṇava वेदक्षीरमहार्णव). Proofread by Ruma Dewan
% Text title            : Munibhih Kritam Shivapanchaksharartha Stava
% File name             : munibhiHkRRitaMshivapanchAkSharArthastavaH.itx
% itxtitle              : shivapanchAkSharArthastavaH (munibhiH kRitaH shivarahasyAntargataH)
% engtitle              : munibhiH kRitaM shivapanchAkSharArthastavaH
% Category              : shiva, stava, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | IshvarAkhyaH dashamAMshaH | adhyAyaH 37 | 40-48||
% Indexextra            : (Scan)
% Latest update         : September 8, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org