मुनिभिः कृतं शिवस्तोत्रम्
मुनय ऊचुः ।
दृष्ट्वा समागतं देवं देव्या सह कपर्दिनम् ।
प्रणेमुः शिरसा भूमौ तोषयामासुरीश्वरम् ॥ १॥
वैदिकैर्विविधैर्मन्त्रैः सूक्तैर्माहेश्वरैः शुभैः ।
अथर्वशिरसा चान्ये रुद्राद्यैरर्च्चयन्भवम् ॥ २॥
नमो देवादिदेवाय महादेवाय ते नमः ।
त्र्यम्बकाय नमस्तुभ्यं त्रिशूलवरधारिणे ॥ ३॥
नमो दिग्वाससे तुभ्यं विकृताय पिनाकिने ।
सर्वप्रणतदेवाय स्वयमप्रणतात्मने ॥ ४॥
अन्तकान्तकृते तुभ्यं सर्वसंहरणाय च ।
नमोऽस्तु नृत्यशीलाय नमो भैरवरूपिणे ॥ ५॥
नरनारीशरीराय योगिनां गुरवे नमः ।
नमो दान्ताय शान्ताय तापसाय हराय च ॥ ६॥
विभीषणाय रुद्राय नमस्ते कृत्तिवाससे ।
नमस्ते लेलिहानाय शितिकण्ठाय ते नमः ॥ ७॥
अघोरघोररूपाय वामदेवाय वै नमः ।
नमः कनकमालाय देव्याः प्रियकराय च ॥ ८॥
गङ्गासलिलधाराय शम्भवे परमेष्ठिने ।
नमो योगाधिपतये ब्रह्माधिपतये नमः ॥ ९॥
प्राणाय च नमस्तुभ्यं नमो भस्माङ्गधारिणे ।
नमस्ते हव्यवाहाय दंष्ट्रिणे हव्यरेतसे ॥ १०॥
ब्रह्मणश्च शिरोहर्त्रे नमस्ते कालरूपिणे ।
आगतिं ते न जनीमो गतिं नैव च नैव च ॥ ११॥
विश्वेश्वर महादेव योऽसि सोऽसि नमोऽस्तु ते ।
नमः प्रमथनाथाय दात्रे च शुभसम्पदाम् ॥ १२॥
कपालपाणये तुभ्यं नमो मीढुष्टमाय ते ।
नमः कनकलिङ्गाय वारिलिङ्गाय ते नमः ॥ १३॥
नमो वह्न्यर्कलिङ्गाय ज्ञानलिङ्गाय ते नमः ।
नमो भुजङ्गहाराय कर्णिकारप्रियाय च ।
किरीटिने कुण्डलिने कालकालाय ते नमः ॥ १४॥
वामदेव महेशान देवदेव त्रिलोचन ।
क्षम्यतां यत्कृतं मोहात् त्वमेव शरणं हि नः ॥ १५॥
चरितानि विचित्राणि गुह्यानि गहनानि च ।
ब्रह्मादीनां च सर्वेषां दुर्विज्ञेयोऽसि शङ्कर ॥ १६॥
अज्ञानाद्यदि वा ज्ञानाद्यत्किञ्चित्कुरुते नरः ।
तत्सर्वं भगवानेव कुरुते योगमायया ॥ १७॥
एवं स्तुत्वा महादेवं प्रहृष्टेनान्तरात्मना ।
ऊचुः प्रणम्य गिरिशं पश्यामस्त्वां यथा पुरा ॥ १८॥
इति कूर्मपुराणे उत्तरभागे एकोनचत्वारिंशाध्यायान्तगतं
मुनिभिः कृतं शिवस्तोत्रं समाप्तम् ।
कूर्मपुराणे उत्तरभागे ३९/१९-३५
Proofread by PSA Easwaran