नागनाथमहिमवर्णनम्
ईश्वरः -
आवण्ढ(वट्ट्)कं महापुण्यं क्षेत्रमस्त्येकमम्बिके ।
नागनाथाह्वयं लिङ्गं ममास्ति भुवनेश्वरि ॥ १॥
तत्रत्यसिकताः सर्वा लिङ्गरूपाश्च केवलम् ।
तत्र सन्ति महाशैवा नागनाथार्चने रताः ॥ २॥
भस्मरुद्राक्षसम्पन्नाः शिवध्यानपरायणाः ।
रुद्रावर्तनशीलाश्च रुद्रलिङ्गैकपूजकाः ॥ ३॥
मन्नामनिरता नित्यमन्यनामपराङ्मुखाः ।
मल्लिङ्गालोचनेनैव तेषां प्रीतिरहर्निशम् ॥ ४॥
कामुकः कामिनीं दृष्ट्वा यथा प्रीतो भवेच्छिवे ।
मम लिङ्गं तथा शैवा बिल्वसम्पूजितं मुदा ॥ ५॥
नागनाथं स्तुवन्त्येव वीक्षन्ति प्रणमन्ति च ।
वसन्ति तत्र मुनयो विनयोज्ज्वलविग्रहाः ॥ ६॥
नागनाथं महादेवं पूजयन्ति गणेश्वरः ।
नागकुण्डमिति ख्यातं पातालविवरं महत् ॥ ७॥
तन्मार्गेण समागत्य शेषोऽनन्तफणामुखः ।
स्वमौलिरत्नजालैर्मां पूजयत्येव शङ्करि ॥ ८॥
सहस्रवदनेनापि रुद्रसूक्तैर्महेश्वरम् ।
मां स्तौति भक्त्या नियतं स मे गणवरोत्तमः ॥ ९॥
तस्मिन्प्रीतिर्ममात्यन्तं कुमारे गणपे यथा ।
त्वयि सर्वामरेशानि तथा शैवोऽयमम्बिके ॥ १०॥
शैव शरीरं देवेशि मदालयमनुत्तमम् ।
तस्यैव हृदयाम्भोजगर्भागारे मनोरमे ॥ ११॥
नीवारशूकसदृशलिङ्गाकारोऽस्मि शङ्करि ।
तद्देहं येन सम्पूज्य स्थितं सोऽपि मदर्चकः ॥ १२॥
शैवसम्पूजनादेव मम प्रीतिर्महेश्वरि ।
स्वतन्त्रस्य महेशस्य सर्वम्भाग्ययुतस्य मे ॥ १३॥
किं नाम क्रियते देवि पूजया वा सुमैः शिवे ।
लोकसंरक्षणार्थाय लिङ्गे गृह्णामि पूजनम् ॥ १४॥
भक्तैर्मम कृता पूजा तुष्ट्यै भवति शोभने ।
सूक्ष्मं मदीयं लिङ्गं तत्पश्यन्ति शिवयोगिनः ॥ १५॥
लिङ्गमेतन्महादेवि ज्ञानहीनो न पश्यति ।
नत्वा तं वेदवाक्यैश्च जायते मत्कृपाबलात् ॥ १६॥
कथमन्येऽपि पश्यन्ति नानाकामैकगामिनः ।
सखण्डान्यन्यलिङ्गानि चाखण्डं व्यापकं मम ॥ १७॥
कस्यचिद्भूरिभाग्येन सभाग्यस्यैव शङ्करि ।
निर्भाग्यानां महादेवि तज्ज्ञानं नैव जायते ॥ १८॥
मत्कृपामात्रमेकं हि शैवगात्रं गिरीन्द्रजे ।
शैवः शिवैकशरणः शिवलिङ्गार्चनप्रियः ॥ १९॥
शिवक्षेत्ररतो नित्यं श्रीरुद्रजपतत्परः ।
भस्मरुद्राक्षसम्पन्नः षडक्षरजपादरः ॥ २०॥
शैवसम्पूजको नित्यं शिवनैवेद्यभोजनः ।
मन्नामपरमो नित्यं त्यक्त्वाऽन्यसुरकीर्तनम् ॥ २१॥
शिव शम्भो महादेव प्रसीदेति वदन्मुदा ।
आपादमस्तकं भस्म समुद्धूल्य यथाविधि ॥ २२॥
रुद्रावर्तनशीलो यः स मे भक्तः सदाम्बिके ।
वेदवेदान्तवाक्यैश्च बोधज्ञानपरः सदा ॥ २३॥
तस्यैव जायते ज्ञानं नान्यथा कर्मकोटिभिः ।
असत्यमिति तत्सर्वं त्रैगुण्यं परमेश्वरि ॥ २४॥
आविद्यकानि शास्त्राणि मिथ्याज्ञानप्रदानि हि ।
मच्छास्त्रं सत्यमेवेदं ब्रह्मैवेदमिति श्रुतिः ॥ २५॥
आत्मैवेदमिदं दृश्यं तस्मिन् जगदिदं मृषा ।
जगत्प्ररोचनाशास्त्रं सत्यत्वे कल्पयिष्यते ॥ २६॥
मूढानां स्वर्गनरकपुण्यपापादिवासनाः ।
त्रैगुण्यविषयो वेदः स्वाधिकारानुरूपतः ॥ २७॥
पुण्यपापफलं भोक्तुं व्यावहारिककल्पनैः ।
सर्वं तरति वै शोकं शैवो मत्पादसंश्रयः ॥ २८॥
अत्रेतिहासं वक्ष्यामि नागनाथस्य वैभवम् ।
मम लिङ्गात्मनो देवि शृणु श्रवणभूषणम् ॥ २९॥
स चक्षुःश्रवसां राजा शेषोऽशेषगुणैर्युतः ।
ब्रह्मणा समनुज्ञातो भूमिसन्धारणाय वै ॥ ३०॥
दृष्ट्वा सपर्वतवनां साब्धिद्वीपोरुपत्तनाम् ।
विषादमगमत् तीव्रं शेषो मां शरणं गतः ॥ ३१॥
आवट्टकमिदं क्षेत्रं प्राप्य कुण्डं तथाऽकरोत् ।
नागकुण्डमिति ख्यातं तत्तीरे तपसि स्थितः ॥ ३२॥
स्वपुच्छवेष्टनैर्भूमिमधिष्ठायोच्छ्रयन् फणाः ।
मां विलोक्य महादेवि भस्मरुद्राक्षभूषणः ॥ ३३॥
रुद्रमावर्तयन्तस्थौ शरदां शतमुत्तमम् ।
लिङ्गं सुचक्षुषां पश्यन्चक्षुषां संश्रवन्कथाः ॥ ३४॥
शेषः पवनभुङ्नित्यं तपसाऽशोषयत् तनुम् ।
ग्रीष्मे कुसरितं भानुश्चण्डभानुकरैर्यथा ॥ ३५॥
ब्रह्माद्या देवताः सर्वा द्रष्टुं तं तपसि स्थितम् ।
समागतास्तदा देवि तान् सर्वान् कुण्डलीश्वरः ॥ ३६॥
अगणय्य तदा तस्थौ मां ध्यायन् लिङ्गरूपिणम् ।
तस्य तद्दार्ढ्यमाज्ञाय ह्यददं दर्शनं शिवे ॥ ३७॥
दृष्ट्वा मां स्वफणाभिश्च ननाम शिरसा शिवम् ।
सहस्रवदनेनापि नाम्नां साहस्रतः शिवे ॥ ३८॥
अपूजयद्बिल्वपत्रैः तुष्टाव जगदीश्वरम् ॥ ३९॥
॥ इति शिवरहस्यान्तर्गते शिवगौरीसंवादे नागनाथमहिमवर्णनं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । भर्गाख्यः पञ्चमांशः । अध्यायः १७। १-३९॥
- .. shrIshivarahasyam . bhargAkhyaH panchamAMshaH . adhyAyaH 17. 1-39..
Notes:
Shiva describes to Gauri, the glory and merits of worshipping Him as Naganatha नागनाथ (that is mentioned as a Jyotirlinga ज्योतिर्लिङ्ग that is) located near Nagakunda in Avandha (Avatta) Shiva Kshetra.
The shloka numbers are maintained per the source text.
Proofread by Ruma Dewan, Rajani Arjun Shankar