नारदाय सनत्कुमारप्रोक्तं माहेश्वरस्तोत्रम्
सनत्कुमार उवाच ।
शृणु नारद वक्ष्यामि दिव्यं माहेश्वरं स्तवम् ॥ २१७॥
यस्य पाठेन पूजायां सिद्ध्यन्ति मनवोऽखिलाः ॥ २१८॥
धराम्ब्वग्निमरुव्द्योममखेशेन्द्वर्कमूर्तये ।
सर्वभूतान्तरस्थाय शङ्कराय नमो नमः ॥ २१९॥
श्रुत्यन्तकृतवासाय श्रुतये श्रुतिजन्मने ।
अतीन्द्रियाय महसे शाश्वताय नमो नमः ॥ २२०॥
स्थूलसूक्ष्मविभागाभ्यामनिर्देश्याय शम्भवे ।
भवाय भवसम्भूतदुःखहन्त्रे नमो नमः ॥ २२१॥
तर्कमार्गातिदूराय तपसां फलदायिने ।
चतुर्वर्गवदान्याय सर्वज्ञाय नमो नमः ॥ २२२॥
आदिमध्यान्तशून्याय निरस्ताशेषभीतये ।
योगिध्येयाय महते निर्गुणाय नमो नमः ॥ २२३॥
विश्वात्मने विविक्ताय विलसच्चन्द्रमौलये ।
कन्दर्पदर्पनाशाय कालहन्त्रे नमो नमः ॥ २२४॥
विषाशनाय विहरद्वृषस्कन्धमुपेयुषे ।
सरिद्दामसमाबद्धकपर्दाय नमो नमः ॥ २२५॥
शुद्धाय शुद्धभावाय शुद्धानामन्तरात्मने ।
पुरान्तकाय पूर्णाय पुण्यनाम्ने नमो नमः ॥ २२६॥
भक्ताय निजभक्तानां भुक्तिमुक्तिप्रदायिने ।
विवाससे निवासाय विश्वेषां पतये नमः ॥ २२७॥
त्रिमूर्तिमूलभूताय त्रिनेत्राय त्रिशूलिने ।
त्रिधाम्ने धामरूपाय जन्मदाय नमो नमः ॥ २२८॥
देवासुरशिरोरत्नकिरीटारुणिताङ्घ्रये ।
कान्ताय निजकान्तायै दत्तार्द्धाय नमो नमः ॥ २२९॥
एतत्स्तोत्रं महेशस्य प्रोक्तं सर्वाघनाशनम् ।
शिवसान्निध्यदं विप्र सर्पतन्त्रप्रकाशकम् ॥ २३०॥
एतत्ते सुमहत्तन्त्रे सर्वदेवप्रकाशकम् ।
लोकाभिलाषसम्पूर्तिक्रियासाधनसङ्गतम् ॥ २३१॥
इति नारदपुराणे पूर्वभागे एकोनाशीतितमाध्यायान्तर्गतं
नारदाय सनत्कुमारप्रोक्तं माहेश्वरस्तोत्रं समाप्तम् ।
बृहन्नारदीयपुराण । पूर्वभाग । अध्याय ९१/२१९-२३०॥
bRRihannAradIyapurANa . pUrvabhAga . adhyAya 91/219-230..
Proofread by PSA Easwaran