सदाशिवप्रोक्तं नार्मदलिङ्ग अथवा बाणलिङ्ग महिमवर्णनम्
देवी -
त्रिलोकीतिलक स्वामिन्तिलकस्वामिसुप्रिय ।
ओङ्कारकुण्डलिङ्गानां बाणलिङ्गत्वता कथम् ॥ १॥
वक्तुमर्हसि देवेश लोकानां हितकाम्यया ।
तदा देव्या वचः श्रुत्वा सन्तुष्टः प्राह शङ्करः ॥ २॥
सूतः -
उत्फुल्लनीलोत्पलनीलसुन्दरीमुमां तदालिङ्गय मुदा सदाशिवः ।
बभाण बाणोत्तमसत्कथां द्विजाः सर्वार्थदात्रीं सकलाघहन्त्रीम् ॥ ३॥
सदाशिवः -
श्रृणु देवि महाभागे कथामेतां मनोरमाम् ।
गङ्गाया नर्मदायाश्च विवादः सुमहानभूत् ॥ ४॥
तत्सर्वं विस्तरेणैव त्वयि सर्वं प्रकीर्तितम् ।
अविमुक्ते वसामीति नित्यं सान्निध्यदे मया ॥ ५॥
गङायै च वरो दत्तो नर्मदायै महेश्वरि ।
सिकता याः शिलाः सर्वाः तानि लिङ्गानि निम्नगे ॥ ६॥
त्वदन्तर्गतमेवाद्य कुण्डमोङ्कारसञ्ज्ञितम् ।
गङ्गायां विश्वनाथाख्यलिङ्गाकृतिरहं स्थितः ॥ ७॥
त्वत्तीरे नर्मदे लिङ्गमोङ्कारं परमेश्वरम् ।
तल्लिङ्गरूपः सततं निवसामि तटे तव ॥ ८॥
द्रष्टृणां सर्वपापानि नाशयामि न संशयः ।
अमरैः पूजितं यस्मादमरेश्वरमुच्यते ॥ ९॥
त्वं लिङ्गमण्डलाक्रान्ता भविष्यसि सरिद्वरे ।
ओङ्कारे च भृगुक्षेत्रे नर्मदावरसङ्गमे ॥ १०॥
सर्वत्र सुलभा रेवा त्रिषु स्थानेषु दुर्लभा ।
त्वल्लिङ्गं सर्वभावेन पूजितं सर्वकामदम् ॥ ११॥
इति तस्यै वरो दत्तो नर्मदायै मनोरमे ।
तानि लिङ्गानि सर्वाणि बाणसम्पूजितानि हि ॥ १२॥
दर्शनात्स्पर्शनाद्गौरि पुण्यदानि न संशयः ।
नार्मदे ये महालिङ्गे नीरं वा पत्रमेककम् ॥ १३॥
दद्यात् स मुक्तो भवति त्रिनेत्रप्रियकृत्तमः ।
न सम्प्रोक्षणसंस्कारो न प्रतिष्ठा हि पार्वति ॥ १४॥
नावाहनं न पूजादिविधिः स्यात्तत्र शङ्करि ।
सपीठं मुक्तपीठं वा नर्मदालिङ्गमर्चयेत् ॥ १५॥
स्पृष्टास्पृष्टं न तस्यास्ति नित्यं सान्निध्यदं मम ।
तल्लिङ्गे मम भक्तैश्च यद्दत्तं लीलथाऽपि च ॥ १६॥
बिल्वपत्रं तथा नीरं फलं वा कन्दमेव वा ।
गृह्णामि शिरसा तच्च तस्मै मुक्तिं ददाम्यम् ॥ १७॥
विमर्शो न च कर्तव्यो नार्मदे परमेश्वरि ।
अन्यानि सर्वलिङ्गानि प्रतिष्ठाप्रोक्षणादिभिः ॥ १८॥
संस्कृतानि विशेषेण पूज्यानीति मतिः शिवे ।
मृल्लिङ्गाद्धातुलिङ्गानि रत्नजानि महेश्वरि ॥ १९॥
स्फाटिकादीनि पुण्यानि चन्द्रकान्तोद्भवानि च ।
स्थावराणि च सर्वाणि जङ्गमानि विशेषतः ॥ २०॥
महापारदक्लृप्तानि लिङ्गान्यत्युत्तमानि च ।
तेभ्यो विशिष्टमेतद्धि नार्मदं शर्मदं मम ॥ २१॥
नार्मदं लिङ्गमभ्यर्च्य स्थावरार्चाफलं लभेत् ।
यस्तु पश्यति पुण्यात्मा स्थावरं लिङ्गमैश्वरम् ॥ २२॥
नित्यं च नियमोपेतः पापैः सर्वैः प्रमुच्यते ।
स नार्मदं महालिङ्गं दृष्ट्वा तत्फलमाप्नुयात् ॥ २३॥
पूजिते नार्मदे लिङ्गे सर्वलिङ्गार्चनाफलम् ।
प्राप्नुयान्नियतं गौरि सत्यमेतन्मयोच्यते ॥ २४॥
शावाचौचे सूतकेऽपि बाणलिङ्गं समर्चयेत् ।
नित्यं लिङ्गार्चनफलं यस्मिन् क्लृप्तं तदाप्नुयात् ॥ २५॥
नातः परतरं लिङ्गं प्रशस्तं परमेश्वरि ।
अस्मिन्सम्पूजिते दृष्टे महापापक्षयो भवेत् ॥ २६॥
यद्गृहे बाणलिङ्गं स्यात् शिवक्षेत्रं हि तत्स्मृतम् ।
तत्रैव मरणाज्जन्तुरपि कीटपिपीलिकम् ॥ २७॥
मल्लोके निवसेद्देवि पुनरावृत्तिदुर्लभम् ।
बाणलिङ्गं न यस्यास्ति गृहे बिल्वदलार्चितम् ॥ २८॥
न तद्गेहे जलं ग्राह्यमन्नं वा वैदिकोत्तमैः ।
यद्गृहे बाणलिङ्गार्चा स मुनिः स च पण्डितः ॥ २९॥
तेनेष्टाः सकला यज्ञा वेदाधीताश्च तेन वै ।
तेनोर्वरेयं दत्ता स्यात् सशैलवनकानना ॥ ३०॥
॥ इति शिवरहस्यान्तर्गते सदाशिवप्रोक्तं नार्मदलिङ्ग अथवा बाणलिङ्ग महिमवर्णनं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । भर्गाख्यः पञ्चमांशः । अध्यायः १०॥
- .. shrIshivarahasyam . bhargAkhyaH panchamAMshaH . adhyAyaH 10..
Notes:
Sadashiva describes to Devi, the glory and merits of worshipping Narmada-Linga (found in the riverbed of Narmada) that are also known as Banalinga (being named after the Asura Bana who worshipped these lingas). Sadashiva describes the location of Omkareshwara and Amreshwara lingas; and further iterates that the home where Banalinga is worshipped is equivalent to a Shiva Kshetra.
Proofread by Ruma Dewan