श्री नीलकण्ठ अघोरास्त्रस्तोत्रम्
विनियोगः ।
ॐ अस्य श्रीभगवान् नीलकण्ठसदाशिवस्तोत्रमन्त्रस्य श्रीब्रह्माऋषिः अनुष्टुपछन्दः श्रीनीलकण्ठसदाशिवो देवता । ब्रह्मबीजम् । पार्वतीशक्तिः । मम समस्त पापक्षयार्थं क्षेमस्थैर्यायुरोग्याभिवृद्ध्यर्थं मोक्षादिचतुर्वर्गसाधनार्थं च श्रीनीलकण्ठसदाशिवप्रसादसिद्ध्यर्थे जपे विनियोगः ॥
ऋष्यादिन्यास ।
श्रीब्रह्माऋषये नमः शिरसि ।
अनुष्टुप्छन्दसे नमः मुखे ।
श्रीनीलकण्ठसदाशिवदेवतायै नमः हृदि ।
ब्रह्मबीजाय नमः लिङ्गे ।
पार्वतीशक्त्यै नमः नाभौ ।
मम समस्तपापक्षयार्थं क्षेमस्थैर्यायुरारोग्याभिवृद्ध्यर्थं मोक्षादिचतुर्वर्गसाधनार्थं च श्रीनीलकण्ठसदाशिवप्रसादसिद्ध्यर्थे जपे विनियोगाय नमः सर्वाङ्गे ॥
मूल स्तोत्रम् ।
ॐ नमो नीलकण्ठाय श्वेतशरीराय सर्पालङ्कारभूषिताय भुजङ्गपरिकराय नागयज्ञोपवीताय अनेकमृत्युविनाशाय नमः ।
युगयुगान्तकालप्रलयप्रचण्डाय प्रज्वालमुखाय नमः । दंष्ट्राकरालघोररूपाय हुं हुं फट् स्वाहा ।
ज्वालमुखाय मन्त्रकरालाय प्रचण्डार्कसहस्रांशुचण्डाय नमः । कर्पूरमोदपरिमलाङ्गाय नमः ।
ॐ ईं ईं नील-महानील-वज्र-वैलक्ष्य-मणिमाणिक्य-मुकुटभूषणाय हन हन हन दहन दहनाय ।
॥ श्रीअघोरास्त्र मूल मन्त्रः ॥
ॐ ह्रां ॐ ह्रीं ॐ ह्रूं स्फुर अघोररूपाय रथ रथ तन्त्र तन्त्र चट चट कह कह मद मद
दहन दाहनाय श्रीअघोरास्त्रमूलमन्त्र जरामरण-भय हूं हूं फट् स्वाहा ।
अनन्ताघोर ज्वर-मरण-भय-क्षय-कुष्ठ-व्याधि-विनाशाय शाकिनी-डाकिनी-ब्रह्मराक्षस-दैत्य-दानव-बन्धनाय अपस्मार-भूत-वैताल-डाकिनी-शाकिनी-सर्वग्रह-विनाशाय मन्त्रकोटि-प्रकटाय परविद्योच्छेदनाय हूं हूं फट् स्वाहा ।
आत्ममन्त्रसरङ्क्षणाय नमः ।
ॐ ह्रां ह्रीं ह्रौं नमो भूत डामरी ज्वाल वशभूतानां द्वादशभूतानां त्रयोदश-षोडश-प्रेतानां पञ्चदश-डाकिनी-शाकिनीनां हन हन । दहन दारनाथ । एकाहिक-द्व्याहिक-त्र्याहिक-चातुर्थिक-पञ्चाहिक- व्याघ्रपादान्त वातादि- वात-सरिक-कफ-पित्तक-काश-श्वास- श्लेष्मादिकं दह दह छिन्धि छिन्धि श्रीमहादेवनिर्मितं स्तम्भन-मोहन-वश्याकर्षणोच्चाटन कीलनोद्वेषण इति
षट्कर्माणि वृत्य हूं हूं फट् स्वाहा ।
वातज्वरमरणभय छिन्न छिन्न नेह नेह भूतज्वर-प्रेतज्वर-पिशाचज्वर-रात्रिज्वर- शीतज्वर-तापज्वर-बालज्वर-कुमारज्वर- अमितज्वर-दहनज्वर-ब्रह्मज्वर-विष्णुज्वर-रुद्रज्वर- मारीज्वर-प्रवेशज्वर-कामादिविषमज्वर-मारीज्वर- प्रचण्डघराय-प्रमथेश्वर शीघ्रं हूं हूं फट् स्वाहा ।
ॐ नमो नीलकण्ठाय दक्षज्वरध्वंसनाय श्रीनीलकण्ठाय नमः ।
फलश्रुतिः ।
सप्तवारं पठेत्स्तोत्रं मनसा चिन्तितं जपेत् ।
तत्सर्वं सफलं प्राप्तं शिवलोकं स गच्छति ॥
॥ इति श्रीनीलकण्ठ अघोरास्त्र सम्पूर्णम् ॥