नृसिंहकृतं शिवस्तोत्रम्
तुष्टाव परमेशानं हरिस्तं ललिताक्षरैः ।
श्रीनृसिंह उवाच ।
नमो रुद्राय शर्वाय महाग्रासाय विष्णवे ॥ ७६॥
नम उग्राय भीमाय नमः क्रोधाय मन्यवे ।
नमो भवाय शर्वाय शङ्कराय शिवाय ते ॥ ७७॥
कालकालाय कालाय महाकालाय मृत्यवे ।
वीराय वीरभद्राय क्षयद्वीराय शूलिने ॥ ७८॥
महादेवाय महते पशूनां पतये नमः ।
एकाय नीलकण्ठाय श्रीकण्ठाय पिनाकिने ॥ ७९॥
नमोऽनन्ताय सूक्ष्माय नमस्ते मृत्युमन्यवे ।
पराय परमेशाय परात्परतराय ते ॥ ८०॥
परात्पराय विश्वाय नमस्ते विश्वमूर्त्तये ।
नमो विष्णुकलत्राय विष्णुक्षेत्राय भानवे ॥ ८१॥
कैवर्ताय किराताय महाव्याधाय शाश्वते ।
भैरवाय शरण्याय महाभैरवरूपिणे ॥ ८२॥
नमो नृसिंहसंहर्त्रे कामकालपुरारये ।
महापाशौघसंहर्त्रे विष्णुमायान्तकारिणे ॥ ८३॥
त्र्यम्बकाय त्र्यक्षराय शिपिविष्टाय मीढुषे ।
मृत्युञ्जयाय शर्वाय सर्वज्ञाय मखारये ॥ ८४॥
मखेशाय वरेण्याय नमस्ते वह्निरूपिणे ।
महाघ्राणाय जिह्वाय प्राणापानप्रवर्त्तिने ॥ ८५॥
त्रिगुणाय त्रिशूलाय गुणातीताय योगिने ।
संसाराय प्रवाहाय महायन्त्रप्रवर्तिने ॥ ८६॥
नमश्चन्द्राग्निसूर्याय मुक्तिवैचित्र्यहेतवे ।
वरदायावताराय सर्वकारणहेतवे ॥ ८७॥
कपालिने करालाय पतये पुण्यकीर्त्तये ।
अमोघायाग्निनेत्राय लकुलीशाय शम्भवे ॥ ८८॥
भिषक्तमाय मुण्डाय दण्डिने योगरूपिणे ।
मेघवाहाय देवाय पार्वतीपतये नमः ॥ ८९॥
अव्यक्ताय विशोकाय स्थिराय स्थिरधन्विने ।
स्थाणवे कृत्तिवासाय नमः पञ्चार्थहेतवे ॥ ९०॥
वरदायैकपादाय नमश्चन्द्रार्धमौलिने ।
नमस्तेऽध्वरराजाय वयसां पतये नमः ॥ ९१॥
योगीश्वराय नित्याय सत्याय परमेष्ठिने ।
सर्वात्मने नमस्तुभ्यं नमः सर्वेश्वराय ते ॥ ९२॥
एकद्वित्रिचतुःपञ्चकृत्वस्तेऽस्तु नमो नमः ।
दशकृत्वस्तु साहस्रकृत्वस्ते च नमो नमः ॥ ९३॥
नमोऽपरिमितं कृत्वाऽनन्तकृत्वो नमो नमः ।
नमो नमो नमो भूयः पुनर्भूयो नमो नमः ॥ ९४॥
इति श्रीलिङ्गमहापुराणे पूर्वभागे षण्णवतितमाध्यायान्तर्गतं
नृसिंहकृतं शिवस्तोत्रं समाप्तम् ।
लिङ्गपुराण । पूर्वभाग । अध्याय ९६/७६-९४॥
lingapurANa . pUrvabhAga . adhyAya 96/76-94..
Proofread by PSA Easwaran