श्री नटराजाष्टोत्तरशतनामावलिः
ॐ श्रीं सदञ्चिताय नमः ।
ॐ श्रीं उदञ्चित-निकुञ्चित-पदाय नमः ।
ॐ श्रीं झलझलञ्चलित-मञ्जुकटकाय नमः ।
ॐ श्रीं पतञ्जलि-दृगञ्जनाय नमः ।
ॐ श्रीं अनञ्जनाय नमः ।
ॐ श्रीं अचञ्चलपदाय नमः ।
ॐ श्रीं जनन-भञ्जनकराय नमः ।
ॐ श्रीं कदम्बरुचये नमः ।
ॐ श्रीं अम्बरवसाय नमः ।
ॐ श्रीं परमाय नमः । (१०)
ॐ श्रीं अम्बुद-कदम्बक-विडम्बक-गलाय नमः ।
ॐ श्रीं चिदम्बुधिमणये नमः ।
ॐ श्रीं बुधहृदम्बुज-रवये नमः ।
ॐ श्रीं हराय नमः ।
ॐ श्रीं त्रिपुरभञ्जनाय नमः ।
ॐ श्रीं अनन्तकृतकङ्कणाय नमः ।
ॐ श्रीं अखण्डदयाय नमः ।
ॐ श्रीं अन्तरहिताय नमः ।
ॐ श्रीं विरिञ्चिसुर-संहति-पुरन्दर-विचिन्तित-पदाय नमः ।
ॐ श्रीं तरुणचन्द्रमकुटाय नमः । (२०)
ॐ श्रीं परस्मै नमः ।
ॐ श्रीं पदविखण्डित-यमाय नमः ।
ॐ श्रीं भसित-मण्डित-तनवे नमः ।
ॐ श्रीं मदन-वञ्चनपराय नमः ।
ॐ श्रीं चिरन्तनाय नमः ।
ॐ श्रीं अमुष्मै नमः ।
ॐ श्रीं प्रणव-सञ्चित-निधये नमः ।
ॐ श्रीं अखिल-जगदवदे नमः ।
ॐ श्रीं अभङ्ग-गुणतुङ्गाय नमः ।
ॐ श्रीं अमताय नमः । (३०)
ॐ श्रीं धृतविधवे नमः ।
ॐ श्रीं सुरसरित्-तरङ्ग-निकुरुम्ब-धृति-लम्पट-जटाय नमः ।
ॐ श्रीं शमन-दम्भसुहराय नमः ।
ॐ श्रीं भवहराय नमः ।
ॐ श्रीं शिवाय नमः ।
ॐ श्रीं दशदिगन्तर-विजृम्भित-कराय नमः ।
ॐ श्रीं करलसन्मृगशिशवे नमः ।
ॐ श्रीं पशुपतये नमः ।
ॐ श्रीं हराय नमः ।
ॐ श्रीं शशि-धनञ्जय-पतङ्ग-नयनाय नमः । (४०)
ॐ श्रीं अनन्त-नवरत्न-विलसत्कटक-किङ्किणि-झलञ्झल-झलञ्झल-रवाय नमः ।
ॐ श्रीं मुकुन्दविधि-हस्तगत-मद्दल लयध्वनि-धिमिद्धिमित-नर्तन-पदाय नमः ।
ॐ श्रीं शकुन्तरथ-बर्हिरथ-नन्दिमुख-दन्तिमुख-भृङ्गिरिटि-भृङ्गिगणसङ्घ-निकटाय नमः ।
ॐ श्रीं सनन्दसनक-प्रमुख-वन्दितपदाय नमः ।
ॐ श्रीं अनन्तमहसे नमः ।
ॐ श्रीं त्रिदशवन्द्य-चरणाय नमः ।
ॐ श्रीं मुनिहृदन्तर-वसते नमः ।
ॐ श्रीं अमलाय नमः ।
ॐ श्रीं कबन्ध-वियदिन्द्ववनि-गन्धवह-वह्निमख-बन्धुरवि-मञ्जुवपुषाय नमः ।
ॐ श्रीं अनन्तविभवाय नमः । (५०)
ॐ श्रीं त्रिजगदन्तरमणये नमः ।
ॐ श्रीं त्रिनयनाय नमः ।
ॐ श्रीं त्रिपुरखण्डनपराय नमः ।
ॐ श्रीं सनन्द-मुनिवन्दित-पदाय नमः ।
ॐ श्रीं सकरुणाय नमः ।
ॐ श्रीं अचिन्त्याय नमः ।
ॐ श्रीं अलिवृन्द-रुचि-बन्धुरगलाय नमः ।
ॐ श्रीं कुरित-कुन्द-निकुरम्ब-धवलाय नमः ।
ॐ श्रीं मुकुन्दसुर-वृन्दबल-हन्तृकृत-वन्दन-लसते नमः ।
ॐ श्रीं अहिकुण्डलधराय नमः । (६०)
ॐ श्रीं अकम्पाय नमः ।
ॐ श्रीं अनुकम्पितरतये नमः ।
ॐ श्रीं सुजनमङ्गलनिधये नमः ।
ॐ श्रीं गजहराय नमः ।
ॐ श्रीं पशुपतये नमः ।
ॐ श्रीं धनञ्जयनुताय नमः ।
ॐ श्रीं प्रणतरञ्जनपराय नमः ।
ॐ श्रीं सुरवराय नमः ।
ॐ श्रीं पुरहराय नमः ।
ॐ श्रीं पशुपतये नमः । (७०)
ॐ श्रीं जनित-दन्तिमुख-षण्मुखाय नमः ।
ॐ श्रीं मृडाय नमः ।
ॐ श्रीं कनक-पिङ्गल-जटाय नमः ।
ॐ श्रीं सनकपङ्कजरवये नमः ।
ॐ श्रीं सुमनसे नमः ।
ॐ श्रीं हिमरुचये नमः ।
ॐ श्रीं असङ्गमनसे नमः ।
ॐ श्रीं जलधि-जन्मकरलं-कवलयते नमः ।
ॐ श्रीं अतुलाय नमः ।
ॐ श्रीं गुणनिधये नमः । (८०)
ॐ श्रीं सनन्दवरदाय नमः ।
ॐ श्रीं शमिताय नमः ।
ॐ श्रीं इन्दुवदनाय नमः ।
ॐ श्रीं अजाय नमः ।
ॐ श्रीं क्षितिरथाय नमः ।
ॐ श्रीं भुजगपुङ्गवगुणाय नमः ।
ॐ श्रीं कनकशृङ्गिधनुषे नमः ।
ॐ श्रीं करलसत्-कुरङ्ग-पृथु-टङ्क-परशवे नमः ।
ॐ श्रीं रुचिर-कुङ्कुम-रुचये नमः ।
ॐ श्रीं डमरुकं दधते नमः । (९०)
ॐ श्रीं मुकुन्द-विशिखाय नमः ।
ॐ श्रीं नमदवन्द्यफलदाय नमः ।
ॐ श्रीं निगमवृन्दतुरगाय नमः ।
ॐ श्रीं निरुपमाय नमः ।
ॐ श्रीं सचण्डिकाय नमः ।
ॐ श्रीं झटितिसंहृतपुराय नमः ।
ॐ श्रीं अनङ्गपरिपन्थिने नमः ।
ॐ श्रीं अजाय नमः ।
ॐ श्रीं क्षिति-धुरन्धराय नमः ।
ॐ श्रीं अखिलमलङ्करुणयते नमः । (१००)
ॐ श्रीं ज्वलन्तमनलं-दधते नमः ।
ॐ श्रीं अन्तकरिपवे नमः ।
ॐ श्रीं सततमिन्द्र-सुरवन्दितपदाय नमः ।
ॐ श्रीं उदञ्चद-रविन्दकुल-बन्धुशत-बिम्बरुचि-संहतये नमः ।
ॐ श्रीं सुगन्धिवपुषे नमः ।
ॐ श्रीं पतञ्जलिनुताय नमः ।
ॐ श्रीं प्रणवपञ्जर-शुकाय नमः ।
ॐ श्रीं परचिदम्बर-नटाय नमः । (१०८)
इति पतञ्जलिकृत शृङ्गरहित स्तोत्रयुक्तं श्रीनटराजाष्टोत्तरशतनामावलिः समाप्ता ।
Compiled and proofread by Srikrishnan Sankarasubramanian