श्रीनटराजराजपञ्चावरणस्तोत्रम्

श्रीनटराजराजपञ्चावरणस्तोत्रम्

श्रीगणेशाय नमः । श्रीचित्सभेशाय नमः । ॥ श्रीचित्सभाध्यानम् ॥ वामाद्या नवशक्तयो यदुपरि श्रीस्वर्णकुम्भानवै- वास्यां चिन्मयसंसदि प्रतनुते नृत्तं नटेशः सदा । तद्वामे नगजा रहस्यमपि तद्दक्षेऽस्ति चैदम्बरं श्रीव्याघ्राङ्घ्रिपतञ्जली मुनिवरौ तत्पार्श्वयोः संस्थितौ ॥ १॥ ॥ श्रीरहस्यध्यानम् ॥ श्रीचक्रादिविशेषयन्त्रघटितं भित्तिस्वरूपं सदाऽऽ- नन्दज्ञानमयं नटेशशिवयोः सम्मेलनं बोधयत् । श्रीजाम्बूनदबिल्वपत्ररचितैर्मालागणैर्लक्षितं कस्तूरीमसृणं चिदम्बरमिदं स्थानं रहस्यं नुमः ॥ २॥ ॥ नव चक्राणि ॥ श्रीचक्रं शिवचक्रं च ध्वनिचक्रं च ताण्डवम् । सम्मेलनं श्रीललिताचक्रं चिन्तामणेस्तथा । गणेशस्कन्दयोश्चैव चक्रं ज्ञेयं नवात्मकम् ॥ ३॥ ॥ श्रीनटराजराजमूर्तिध्यानम् ॥ सप्तार्णवपरिक्षेपां द्वीपैस्सप्तभिरावृताम् । पञ्चाशत्कोटिविस्तीर्णां ध्यायेत्सर्वां सभां महीम् ॥ ४॥ तस्याश्च हृदयाम्भोजे मातृकाक्षरकेसरम् । ध्यायेदष्टदलं धीमान् महीहृदयपङ्कजम् ॥ ५॥ तस्य मध्ये त्रिकोणे तु तरुणेन्दु शिखामणिम् । चारुदीर्घजटापाशं चलद्भोगीन्द्रकुण्डलम् ॥ ६॥ त्रिपुण्ड्रविलसत्भालं चन्द्रार्कानललोचनम् । वामभागे स्थितां देवी लक्षयन्तमपाङ्गतः ॥ ७॥ अधरोल्लङ्घनाकारसन्दिहानस्मिताङ्कुरम् । कस्तूरिकासितोद्दामकालकूटलसद्गलम् ॥ ८॥ महाडमरुकाप्तोर्ध्वदक्षपाणिसरोरुहम् । तदन्यकरपद्मान्तर्ज्वलदुच्छिखपावकम् ॥ ९॥ दक्षाधः करपद्मेन हरन्तं प्राणिनां भयम् । विक्षिप्तान्यकरं तिर्यक् कुञ्चितेनाङ्घ्रिणा स्वयम् ॥ १०॥ वामेतरप्रकोष्ठान्तनृत्यत्फणधरेश्वरम् । कल्पब्रह्मकपालानां मालया लम्बमानया ॥ ११॥ स्वातन्त्र्यमात्मनो रूपं आचक्षाणं स्वभावतः । व्याघ्र चर्माम्बरधरं कटिसूत्रित पन्नगम् ॥ १२॥ दक्षपादाब्जविन्यासात् अधः कृततमोगुणम् । भस्मोद्धूलितसर्वाङ्गं परमानन्दताण्डवम् । एवं ध्यायेत् परेशानं पुण्डरीकपुरेश्वरम् ॥ १३॥ ॥ श्रीशिवकामसुन्दरीध्यानम् ॥ ततस्स्वर्णनिभां देवीं विद्युल्लेखेव भास्वराम् । नीवारशूकवत्तन्वीं पीतां भास्वत्तनूपमाम् ॥ १४॥ स्वेच्छापङ्कजमध्यस्थां स्वेच्छाकल्पितविग्रहाम् । सद्विनेत्रां चतुर्हस्तां मध्ये सूक्ष्मां स्तनोन्नताम् ॥ १५॥ नितम्बतटविस्तीर्णां श्यामां नीलालकान्विताम् । हारकेयूररशनामेखलाद्युपशोभिताम् ॥ १६॥ स्फुरन्मकुटमाणिक्यकिङ्किणीरवशोभिताम् । दुकूलवसनोपेतां किञ्चित्प्रहसिताननाम् ॥ १७॥ अनौपम्यगुणां सौम्यां महासात्विकरूपिणीम् । दक्षिणोर्ध्वकराब्जेन चाक्षमालाधरां शिवाम् ॥ १८॥ वामेनोर्ध्वकराब्जेन शुकवत्सधरां पराम् । दक्षाधःकरपद्मेन फुल्लकल्हारधारिणीम् ॥ १९॥ लम्बितान्यकराब्जेन कटिदेशे समन्विताम् । ब्रह्मविष्ण्विन्द्रमकुटैः सन्धर्षितपदाम्बुजाम् । एवं ध्यायेत् परेशानीं पुण्डरीक पुरेश्वरीम् ॥ २०॥ ॥ श्रीनटेशप्रथमावरणदेवतास्तोत्रम् ॥ पञ्च ब्रह्मदेवताः - ॐ अघोरायनमः । ॐ ईशानाय नमः । ॐ तत्पुरुषाय नमः । ॐ वामदेवाय नमः । ॐ सद्योजाताय नमः । ॐ अघोराय नमः ॥ अघोरमञ्जनाभासं दधतं वह्निडिण्डिमौ । वराभयकरं दंष्ट्राभीमवक्त्रं महोज्ज्वलम् ॥ २१॥ नीलवस्त्र परिताङ्गं नीलोत्पलविभूषितम् । ज्वालाकेशोग्ररूपं च सोष्णीषं यज्ञसूत्रकम् ॥ २२॥ भस्मरुद्राक्षशोभाढ्यं वीरमासनसंस्थितम् । मौलौचन्द्रधरं श्यामं कुण्डलालङ्कृतं परम् ॥ २३॥ बभ्रूश्मश्रूशिरोजं च दंष्ट्रालं विकृताननम् । कपालमालाभरणं सर्पवृश्चिक भूषणम् ॥ २४॥ खट्वाङ्गकं कपालं च खेटकं पाशमेव च । वामहस्त चतुष्के तु दक्षहस्त चतुष्टये ॥ २५॥ त्रिशूलं परशुं खड्गं दण्डञ्चारिविमर्दनम् । देवं नवाम्बुदाभासं अघोरं सर्वकामदम् । यस्मात्परं न घोरोऽन्यः तं नमामि महेश्वरम् ॥ २६॥ कालाभ्रभ्रमराञ्जनद्युतिनिभं व्यावृत्तपिङ्गेक्षणं कर्णोद्भासितभोगिमस्तकमणिप्रोद्भिन्नदंष्ट्राङ्कुरम् । सर्पप्रोतकपालशुक्तिशकलव्याकीर्णताशेखरं वन्दे दक्षिणमीश्वरस्य वदनं चाथर्वनादोदयम् ॥ २७॥ कुठारखेटाङ्कुश शूलढक्कारुद्राक्षमालाग्निवरान् दधानः । चतुर्मुखो नीलरुचिस्त्रिणेत्रः पायादघोरो दिशि दक्षिणस्याम् ॥ २८॥ २. ॐ ईशानाय नमः । शुद्धस्फटिकसङ्काशं शुभवक्त्रं त्रिलोचनम् । साभयं वरदं चैव वज्रशूलधरं शिवम् ॥ २९॥ श्वेतवस्रपरीताङ्गं श्वेतमाल्यैर्विभूषितम् । रुद्राक्षमालाभरणं त्रिपुण्ड्राद्युपशोभितम् ॥ ३०॥ यज्ञसूत्रसमायुक्तं श्वेतोष्णीषविराजितम् । नागाभरणसंयुक्तं ऊर्ध्वमीशानकं स्मरेत् ॥ ३१॥ स्फटिकाभं जगद्धेतुं त्रिणेत्रं चन्द्रमौलिनम् । सौम्यं प्रसन्नमीशानं त्रिशूलाभयधारिणम् । वन्दे समस्तलोकस्य कारणं परमेश्वरम् ॥ ३२॥ व्यक्ताव्यक्तनिरूपितं च परमं षट्त्रिंशतत्त्वाधिकं तस्मादुत्तरतत्त्वमक्षरमिति ध्येयं सदा योगिभिः । ओङ्कारादिसमस्तमन्त्रजनकं सूक्ष्मातिसूक्ष्मं परं वन्दे पञ्चममीश्वरस्य वदनं खव्यापि तेजोमयम् ॥ ३३॥ वेदाभयेष्टाङ्कुश टङ्कपाशकपालढक्काक्षरशूलपाणिः । सितद्युतिः पञ्चमुखोऽवतान्मां ईशान ऊर्ध्वं परमप्रकाशः ॥ ३४॥ ३. ॐ तत्पुरुषाय नमः । पुरुषं कुङ्कुमाकारं वरदाभीतिहस्तकम् । खड्ग परशुसंयुक्तं जटामकुटशोभितम् ॥ ३५॥ रक्तवस्रपरीताङ्गं सोष्णीषयज्ञसूत्रकम् । प्रसन्नवदनं सौम्यं रक्तपद्मोपशोभितम् ॥ ३६॥ नेत्रत्रयसमायुक्तं पूर्वास्यं च चतुर्मुखम् । सर्वाभीष्टप्रदं वन्दे सर्वदा सुखदायकम् ॥ ३७॥ स्फटिकाभं जगद्धेतुं त्रिनेत्रं चन्द्रमौलिनम् । भजे तत्पुरुषं कान्तं त्रिशूलाभयधारिणम् ॥ ३८॥ संवर्ताग्नितटित्प्रदीप्तकनकप्रस्पर्धितेजोऽरुणं गम्भीरध्वनिसामवेदजनकं ताम्राधरं सुन्दरम् । अर्धेन्दुद्युतिलोलपिङ्गलजटाभारप्रबद्धोदकं वन्दे सिद्धसुरासुरेन्द्रनमितं पूर्वं मुखं शूलिनः ॥ ३९॥ प्रदीप्तविद्युत्कनकावभासो विद्यावराभीतिकुठारपाणिः । चतुर्मुखस्तत्पुरुषस्रिणेत्रः प्राच्यां स्थितो रक्षतु मामजस्रम् ॥ ४०॥ ४. ॐ वामदेवाय नमः । वामदेव महादेवं वरदाभयहस्तकम् । नागघण्टारवोपेतं रक्ताङ्गं रक्तलोचनम् ॥ ४१॥ भस्मरुद्राक्षशोभाढ्यं यज्ञसूत्रविराजितम् । तुङ्गनासं च सोष्णीषं मन्दहासमुखान्वितम् ॥ ४२॥ रक्तपद्मासनासीनं माल्यवस्रोपशोभितम् । वन्दे वाञ्छितलाभाय सर्वाभीष्टफलप्रदम् ॥ ४३॥ वामदेवं सुरक्ताभं माल्यवस्रोपवीतकम् । ध्यायेत् शिवं शिवानाथं खड्गखेटकधारिणम् ॥ ४४॥ गौरं कुङ्कुमपङ्किलं सुतिलकं आपाण्डुगण्डस्थलं भ्रूविक्षेपकटाक्षवीक्षणलसत्संसक्तकर्णोत्पलम् । स्निग्धं बिम्बफलाधरं प्रहसितं नीलालकालङ्कृतं वन्दे याजुषवेदघोषजनकं वक्त्रं हरस्योत्तरम् ॥ ४५॥ वराक्षमालाऽभयटङ्कहस्तः सरोजकिञ्जल्कसमानवर्णः । त्रिलोचनः चारु चतुर्मुखो मां पायादुदीच्यां दिशि वामदेवः ॥ ४६॥ ५. ॥ ॐ सद्योजाताय नमः ॥ सद्योजातं च गोक्षीरसङ्काशमतिसुन्दरम् । वरदाभयहस्तं च पाशाङ्कुशधरं शिवम् ॥ ४७॥ यज्ञसूत्रसमायुक्तं भस्मरुद्राक्षभूषितम् । सितस्रग्गन्धभूषाढ्यं सितोष्णीषं सिताम्बरम् ॥ ४८॥ सौम्यं मौलीन्दुसम्पन्नं बालाकारं त्रिलोचनम् । सर्वलक्षणसम्पन्नं सद्योजातं विभावये ॥ ४९॥ सद्योजातं महादेवं ऋग्वेदप्रियमीश्वरम् । सर्वलक्षणसम्पन्नं शिवया सहितं भजे ॥ ५०॥ प्रालेयामलमिन्दुकुन्दधवलं गोक्षीरफेनप्रभं भस्माभ्यङ्गमनङ्गदेहदहनज्वालावलीलोचनम् । विष्णुब्रह्ममरुद्गणार्चितपदं चर्ग्वेदनादोदयं वन्देऽहं सकलं कलङ्करहितं स्थाणोर्मुखं पश्चिमम् ॥ ५१॥ कुन्देन्दुशङ्खस्फटिकावभासो वेदाक्षमालावरदाभयाङ्कः । त्र्यक्षश्चतुर्वक्त्र उरुप्रतापः सद्योऽधिजातोऽवतु मां प्रतीच्याम् ॥ ५२॥ अङ्गन्यासदेवताः ॐ अस्राय नमः । ॐ कवचाय नमः । ॐ नेत्रत्रयाय नमः । ॐ शिखायै नमः । ॐ शिरसे नमः । ॐ हृदयाय नमः । १. ॐ अस्त्राय नमः । सम्प्रोक्ता असवः प्राणाः त्रायते हि च तान् सदा । प्राणानां त्राणहेतोश्च अस्त्रमित्यभिधीयते ॥ ५३॥ यज्ञस्य रक्षणार्थाय विघ्नविध्वंसनाय च । अशुद्ध शुद्धकरणायास्रमद्य नमाम्यहम् ॥ ५४॥ शुद्धस्फटिकसङ्काशं पञ्चवक्त्रं ससोमकम् । वक्त्रे वक्त्रे त्रिणेत्रं च दशबाहुं सुशोभितम् ॥ ५५॥ दुकूलाभरणोपेतं भस्मरुद्राक्षभूषितम् । लसन्मौक्तिकसङ्काशं जटामकुटशोभितम् । दन्तपङ्क्तिलसद्वक्त्रं सौम्यमस्त्रं भजाम्यहम् ॥ ५६॥ विनास्त्रराजं न शिवस्य यात्रा विनास्त्रराजं न च मज्जनादि । विनास्त्रराजं न महो भवस्य तमस्त्रराजं प्रणमामि मूर्ध्ना ॥ ५७॥ २. ॐ कवचाय नमः कवचं हृदयत्राणं अस्त्रशस्त्रनिवारकम् । अलङ्काराय सन्धार्यं कवचं समुदाहृतम् ॥ ५८॥ तस्मात्तद्ध्यानतः सर्वरक्षा भवति सर्वदा । कवचं शुभ्रवर्णं च एकवक्त्रं चतुर्भुजम् ॥ ५९॥ वरं कपालं वामे चाभयं शूलं च दक्षिणे । बिभ्राणं शूलनेत्रं च भस्मरुद्राक्षभूषितम् । सर्वाभरणसंयुक्तं वन्दे मालासुशोभितम् ॥ ६०॥ ३. ॐ नेत्रत्रयाय नमः सूर्याचन्द्रमसौ वह्निः शिवनेत्रत्रयं स्मृतम् । तस्मान्नेत्रत्रयं प्रोक्तं तद्ध्यानं च प्रकीर्तितम् ॥ ६१॥ तेन नेत्रप्रकाशः स्यात् काणत्वं च निवर्तते । निर्मलं नेत्ररूपं च नित्यं श्यामाब्जसन्निभम् ॥ ६२॥ एकास्यं च त्रिशूलाही हस्तयोर्दधतं शुभम् । श्यामवस्त्रपरीधानं नीलोत्पलविभूषितम् ॥ ६३॥ सौम्यास्यं सौम्यरूपं च सोमवत्प्रियदर्शनम् । नीलमेघसमाकारं दृक्क्रियेच्छात्मकं विभोः ॥ ६४॥ त्रितत्त्वरूपवह्न्यादिमण्डलत्रितयाक्षयम् । वन्देऽहमिष्टलाभाय जगन्नेतृत्वलक्षितम् ॥ ६५॥ ४. ॐ शिखायै नमः । वामदेवाधिदैवत्या शिखा प्रोक्ता सदाशिवा । अलङ्कारशतैर्युक्ता कपर्द इति च स्मृता ॥ ६६॥ सा ब्रह्मणापि न ज्ञाता आकाशगमनेन च । तस्मात्सर्वोत्तमा ध्येया शिखावान्पुरुषो विभुः ॥ ६७॥ शिखां सिन्दूरवर्णाभां शुक्लवस्त्रोत्तरीयकाम् । त्रिनेत्रां जटिलां सव्ये कपालं वरमेव च ॥ ६८॥ शूलाभयं दधानां च वामे रुद्राक्षभूषिताम् । वन्देऽहं सर्वलाभाय उष्णीषसहितां शिवाम् ॥ ६९॥ ५. ॐ शिरसे नमः । द्वादशान्तमिति प्रोक्तं शिर एव सनातनम् । सहस्राधिकनाडीनां समुदायोऽत्र वर्तते ॥ ७०॥ शिरः प्रधानं सर्वेषु अङ्गेषु परिकीर्तितम् । गङ्गापन्नगचन्द्राश्च शिवस्य शिरसि स्थिताः ॥ ७१॥ एवं ध्येयं शिरःस्थानं सर्वाधारं च कीर्तितम् । महादेवाधिदैवत्यं शिर एतदुदाहृतम् ॥ ७२॥ शिरः काञ्चनवर्णाभं एकवक्त्रं त्रिलोचनम् । वरं कपालं वामे च दक्षे शूलाभये वरे ॥ ७३॥ जटामकुटशोभाढ्यं भस्मपाण्डरविग्रहम् । सर्वाभरणसंयुक्तं सर्वमाल्यैरलङ्कृतम् । भजे मङ्गलसम्प्राप्त्यै सर्वश्रेष्ठं पुरातनम् ॥ ७४॥ ६. ॐ हृदयाय नमः । हृदि अयं इति प्रोक्तः शिव एव सनातनः । शतं चैका हृदयस्य नाड्यः तासां मूर्धानमभिनिस्सृतैका ॥ ७५॥ देहमध्यस्थितं ह्येतत् जीवाधारमिति स्मृतम् । जीवो ब्रह्मैव नापरः परमात्मेत्युदाहृतः ॥ ७६॥ परमं च रहस्यं च बोधयत् एतदेव हि । हृदयं शिवदैवत्यं इति मन्त्रेण कीर्तितम् ॥ ७७॥ एवं च हृदयं ध्येयं ध्यानावस्थितचेतसा । हृदयं शुक्लवर्णाभं त्रिणेत्रं चैकवक्त्रकम् । शूलाभये सव्यहस्ते दक्षे वरकपालके ॥ ७८॥ कदलीपुष्पसङ्काशं हृदयं सर्वदेहिनाम् । तस्य मध्यस्थितं पद्मं अष्टपत्रं सकर्णिकम् ॥ ७९॥ वितस्तिमात्रं हृदयं कमलं चतुरङ्गुलम् । अष्टाङ्गुलप्रमाणान्तं नाभेरूर्ध्वं व्यवस्थितम् ॥ ८०॥ पद्मनालं नवद्वारं समन्तात् कण्टकान्वितम् । अङ्गुष्ठपर्वतुल्याऽत्र कर्णिका सा सकेसरा ॥ ८१॥ कर्णिकायां भवेत्सूर्यः तस्य मध्ये तु चन्द्रमाः । चन्द्रमध्ये भवेद्वह्निः सौरे चानाहतं स्मरेत् ॥ ८२॥ अमनस्कं च सोमे च शिवमग्नौ विभावयेत् । पूजाहोमसमाधीनां त्रिविधं मूर्तिभेदकम् ॥ ८३॥ अनाहतशिवे पूजा अमनस्कशिवं हुनेत् । शिवे विलीनकं कृत्वा समाधिं परिभावयेत् ॥ ८४॥ ॥ द्वितीयावरणदेवताध्यानम् ॥ ॐ अनन्ताय नमः । ॐ एकनेत्राय नमः । ॐ एकरुद्राय नमः । ॐ त्रिमूर्तये नमः । ॐ शिखण्डिने नमः । ॐ शिवोत्तमाय नमः । ॐ श्रीकण्ठाय नमः । ॐ सूक्ष्माय नमः । १. ॐ अनन्ताय नमः । अनन्तेशं चतुर्वक्त्रं जटामकुटमण्डितम् । खण्डेन्दुमौलिनं गङ्गाधरं पद्मासनस्थितम् ॥ ८५॥ खड्गखेटधनुर्बाणकमण्डल्वक्षसूत्रकान् । वराभये च बिभ्राणं भस्मरुद्राक्षभूषितम् ॥ ८६॥ २. ॐ एकनेत्राय नमः । भृङ्गाभमेकनेत्रं च साक्षमालाकमण्डलुम् । खड्गखेटधनुर्बाणवरदाभयशूलकम् ॥ ८७॥ इन्दुगङ्गाधरं देवं प्रसन्नवदनान्वितम् । सर्वाभरणसंयुक्तं पङ्कजोपरि संस्थितम् ॥ ८८॥ ३. ॐ एकरुद्राय नमः । एकरुद्रं शशाङ्काभं गङ्गाचन्द्रकलाधरम् । खड्गखेटधनुर्बाणानक्षमालां कमण्डलुम् ॥ ८९॥ पाशं शूलं च बिभ्राणं मन्दस्मितमनोहरम् । सर्वाभरणसंयुक्तं भस्मरुद्राक्षशोभितम् ॥ ९०॥ ४. ॐ त्रिमूर्तये नमः । हिमाङ्गञ्च त्रिमूर्तिश्च जटामकुटशोभितम् । अभयाक्षवरान् खड्गं धनुर्बाणञ्च खेटकम् । गण्डिकाञ्च तथा शूलं दधानं पद्मसंस्थितम् ॥ ९१॥ ५. ॐ शिखण्डिने नमः । शिखण्डिनं शुभ्रवर्णं खड्गखेटकसंयुतम् । धनुर्बाणसमायुक्तं वराभयसमन्वितम् । अक्षशूलधरञ्चैव भस्मरुद्राक्षभूषितम् ॥ ९२॥ ६. ॐ शिवोत्तमाय नमः । शिवोत्तमं नीलवर्णं गङ्गाचन्द्रजटाधरम् । चापबाणवराभीतिखड्गखेटाक्षशूलकान् ॥ ९३॥ पाणिपद्मेष्वादधानं प्रसन्नास्यं त्रिनेत्रकम् । पद्मासने समासीनं सर्वाभरणभूषितम् ॥ ९४॥ ७. श्रीकण्ठाय नमः । श्रीकण्ठं रक्तवर्णञ्च गङ्गासोमजटान्वितम् । अभयाक्षवरासींश्च खेटकं चापबाणकौ ॥ ९५॥ शूलं वहन्तं हस्तेषु कुण्डलाद्युपशोभितम् । रक्तवस्त्रपरीताङ्गं रक्तपद्मासने स्थितम् ॥ ९६॥ ८. ॐ सूक्ष्माय नमः । रक्ताङ्गं सूक्ष्मदेहं च वराभयकरान्वितम् । शूलाक्षगण्डिकां चैव धनुर्बाणासिधारिणम् । पद्मासने समासीनं पद्ममालाविभूषितम् ॥ ९७॥ ॥ तृतीयावरणदेवता ध्यानम् ॥ ॐ चण्डेश्वराय नमः । ॐ गौर्यै नमः । ॐ नन्दिने नमः । ॐ भृङ्गिने नमः । ॐ महाकालाय नमः । ॐ विष्णवे नमः । ॐ वृषभाय नमः । ॐ षण्मुखाय नमः । १. ॐ चण्डेश्वराय नमः । चण्डेश्वरः स्थाणुसमानतेजाः रुद्रेण सङ्क्षिप्तसमस्तभारः । यस्य प्रसादात्सफला शिवार्चा तं चण्डिकेशं प्रणमामि देवम् ॥ ९८॥ चण्डेश्वरं चतुर्बाहुं चतुर्वक्त्रं त्रिलोचनम् । दधतं कमण्डलुं शूलं अक्षसूत्रं परश्वधम् ॥ ९९॥ महोरगोपवीताढ्यं तन्निर्वर्तितकङ्कणम् । वन्दे नवाम्बुदाभासं समयादिनियामकम् ॥ १००॥ २. ॐ गौर्यै नमः । गौरीं च स्फटिकाभासां पुण्डरीकदलेक्षणाम् । त्रिणेत्रां चैकवक्त्रां च साभयां वरदान्विताम् ॥ १०१॥ मृगशूलसमायुक्तां सर्वाभरणभूषिताम् । सिंहोपरि स्थितां पीतां करण्डमकुटान्विताम् । देवीं सदा प्रपद्येऽहं मुक्तामालाविराजिताम् ॥ १०२॥ ३. ॐ नन्दिने नमः । शूलाक्षमाले दधतं कराभ्यां वामेतराभ्यां जटिलं त्रिणेत्रम् । द्वार्दक्षिणस्थां समवाप्य शाखां रक्तस्मितं नन्दिनमाश्रयामि ॥ १०३॥ धर्मस्त्वं वृषरूपेण जगदानन्दकारकम् । अष्टमूर्तेरधिष्ठानं शिवतुल्यं सनातनम् ॥ १०४॥ चामीकराचलप्रख्यं सर्वाभरणभूषितम् । बालेन्दुमकुटं सौम्यं त्रिणेत्रं च चतुर्भुजम् ॥ १०५॥ मृगवेत्रधरं देवं चन्द्रनिम्बसमाननम् । सुयशापतिमीशस्य ध्यानैकनिरतं शुभम् । नमामि परया भक्त्या सर्वलोकैरभिष्टुतम् ॥ १०६॥ ४. ॐ भृङ्गिने नमः । निर्मांसविग्रहो भृङ्गी श्वेतो दण्डाक्षसूत्रभृत् । नृत्यन् त्रिणेत्रः सशिखः देवालोकनतत्परः ॥ १०७॥ अर्धनारीश्वरशिवोरुमध्ये भ्रमरीकृतः । प्रदक्षिणं शिवं कुर्वन् अम्बया शापितः किल ॥ १०८॥ तस्मात् निर्मांसदेहोऽभूत् शिवध्यानैकनिश्चलः । तं वन्दे परमेशानभक्तवर्यं सनातनम् ॥ १०९॥ ५. ॐ महाकालाय नमः । महेशसव्यस्थितकृष्णवर्णं नागोपवीतं जटिलं त्रिणेत्रम् । कपालशूलान्वितवामदक्षकरं महाकालमहं प्रपद्ये ॥ ११०॥ त्रिणेत्रं पीतकृष्णाङ्गं बभ्रुश्मश्रुशिरोरुहम् । दण्डखड्गौ खेटशूले दधतं शिवरक्षकम् । महाकालं महात्मानं प्रणमामि सदा मुदा ॥ १११॥ ६. ॐ विष्णवे नमः । विष्णुं चतुर्भुजं शङ्खगदाचक्राब्जहस्तकम् । नीलाम्बुधरसङ्काशं भस्मोद्धूलितविग्रहम् । रमया रममाणं च जगद्रक्षकमाश्रये ॥ ११२॥ श्रीमान् क्षीरार्णवान्तः फणिपति शयने चन्द्रखण्डातिगौरे भूमानीलासमेतः सकलभुवन संरक्षणोपायचिन्तः । निद्राव्याजेन कुर्वन् निरवधिमहिमा नित्यमुक्ताभिवन्द्यः शेते यः श्रीनिवासः प्रदिशतु सुतरां सन्ततं मङ्गलं नः ॥ ११३॥ ७. ॐ वृषभाय नमः । रजतनिभशरीरं वेदपादं त्रिणेत्रं अरुणमुदितशोभं श्याममुन्नम्रवक्त्रम् । विविधमणिविभूषं किङ्किणीशोभिकण्ठं हरिहरविधिरूपं चादिदेवं वृषेशम् ॥ ११४॥ वृषं वृषपतिं त्र्यक्षं रुद्रैकगतमानसम् । साक्षात् धर्मस्वरूपं च शुद्धस्फटिकनिर्मलम् । वन्दे च शिवसेवायै शिवापरेति विश्रुतम् ॥ ११५॥ ८. ॐ षण्मुखाय नमः । षड्वक्त्रं शिखिवाहनं त्रिणयनं चित्राम्बरालङ्कृतं वज्रं शक्तिमसिं त्रिशूलमभयं खेटं धनुश्चक्रकम् । पाशं कुक्कुटमङ्कुशं च वरदं दोर्भिर्दधानं सदा वन्दे सिद्धिदमीश्वरं शिवसुतं स्कन्दं सुराराधितम् ॥ ११६॥ उमाकोमलहस्ताब्ज सम्भावितललाटिकम् । महादेवगुरुं वन्दे कुमारं पुष्करस्रजम् ॥ ११७॥ ॥ चतुर्थावरणदेवता ध्यानम् ॥ ॐ अग्नये नमः । ॐ इन्द्राय नमः । ॐ ईशानाय नमः । ॐ कुबेराय नमः । ॐ निरृतये नमः । ॐ ब्रह्मणे नमः । ॐ यमाय नमः । ॐ वरुणाय नमः । ॐ वायवे नमः । ॐ विष्णवे नमः । १. ॐ अग्नये नमः । सप्तार्चिषं च बिभ्राणं अक्षमालां कमण्डलुम् । ज्वालामालाकुलं रक्तं शक्तिहस्तं अजासनम् ॥ ११८॥ स्वाहादेवीसमायुक्तं स्वर्णवर्णमुपास्महे । २. ॐ इन्द्राय नमः । ऐरावतगजारूढं शचीजानिं किरीटिनम् ॥ ११९॥ सहस्रनयनं शक्रं वज्रपाणिं विभावये । ३. ॐ ईशानाय नमः । ईशानं वृषभारूढं त्रिशूलव्यालधारिणम् ॥ १२०॥ पार्वतीस्कन्दविघ्नेशवीरभद्रयुतं शिवम् । शरचन्द्रनिभं वन्दे चन्द्रमौलिं त्रिलोचनम् ॥ १२१॥ ४. ॐ कुबेराय नमः । कुबेरं मनुजासीनं सखर्वं खर्वविग्रहम् । पार्वतीशसखं देवं चित्रलेखापतिं शुभम् । स्वर्णच्छायं गदाहस्तं उत्तराशापतिं स्मरेत् ॥ १२२॥ ५. ॐ निरृतये नमः । रक्तनेत्रं शवारूढं नीलोत्पल दलप्रभम् ॥ १२३॥ कृपाणपाणिमस्रौघं पिबन्तं राक्षसेश्वरम् । दीर्घादेवीसमायुक्तं यातुधानमहं भजे । ६. ॐ ब्रह्मणे नमः । हंसारूढं चतुर्वक्त्रं सरस्वतीपतिमव्ययम् । रुद्राक्षपुस्तकाभीतिवरहस्तं विचिन्तये ॥ १२४॥ ७. ॐ यमाय नमः । कृतान्तं महिषारूढं दण्डहस्तं भयानकम् । कालपाशधरं कृष्णं ध्यायेत् दक्षिणदिक्पतिम् । देव्यां श्यामलया युक्तं धर्मराजं महाबलम् ॥ १२५॥ ८. ॐ वरुणाय नमः । नागपाशधरं सृष्टं रत्नौघद्युतिविग्रहम् । शशाङ्कं धवलं ध्यायेत् वरुणं मकरासनम् । कालिकापतिमीशानं हृदा ध्यायेत् जलाधिपम् ॥ १२६॥ ९. ॐ वायवे नमः । आपीत हरितच्छायं विलोलध्वजधारिणम् । प्राणभूतञ्च भूतानां हरिणस्थं समीरणम् । अञ्जनापतिमीड्यं च सदा सञ्चारिणं भजे ॥ १२७॥ १०. ॐ महाविष्णवे नमः ॥ गरुडारूढं महाविष्णुं महालक्ष्मीधवं हरिम् । शङ्ख चक्रगदापद्मधरं वन्दे मनोहरम् ॥ १२८॥ ॥ पञ्चमावरणदेवता ध्यानम् ॥ ॐ अङ्कुशाय नमः । ॐ खड्गाय नमः । ॐ गदायै नमः । ॐ चक्राय नमः । ॐ त्रिशूलाय नमः । ॐ दण्डाय नमः । ॐ पद्माय नमः । ॐ पाशाय नमः । ॐ वज्राय नमः । ॐ शक्तये नमः । १. ॐ अङ्कुशाय नमः । अङ्कुशं पुरुषं पीतं द्विभुजं च द्विनेत्रकम् । करण्डमकुटोपेतं ईषद्दंष्ट्रं कृताञ्जलिम् । पुष्पहस्तं पुनीतं च गजप्रेरकमाश्रये ॥ १२९॥ २. ॐ खड्गाय नमः । खड्गं च पुरुषं श्यामं द्विभुजं च द्विनेत्रकम् । करण्डमकुटोपेतं किञ्चित् दंष्ट्रासमन्वितम् । विष्णुहस्ते वीरभद्रकरे संस्थं नमाम्यहम् ॥ १३०॥ ३. ॐ गदायै नमः । द्विनेत्रां द्विभुजां नीलां करण्डमकुटान्विताम् । सर्वाभरणसंयुक्तां गदां कर्णाकृतिं स्मरेत् । विष्णुहस्ते भीमहस्ते आञ्जनेयकरे स्थिताम् ॥ १३१॥ ४. ॐ चक्राय नमः । नवीनाम्बुदसङ्काशं इन्दुसुन्दरविग्रहम् । चक्रं सतारसंयुक्तं मण्डलं हृदि भावये । विष्णुहस्ते तथा लक्ष्मीहस्ते स्थितं शुभम् ॥ १३२॥ ५. ॐ त्रिशूलाय नमः । त्रिशूलः पुरुषो दिव्यो द्विनेत्रश्च कृताञ्जलिः । जीमूतसन्निभो रौद्रः किञ्चिद्दंष्ट्रो द्विबाहुकः । त्रिमूर्तिस्मारको यश्च तं वन्दे शिवहस्तगम् ॥ १३३॥ ६. ॐ दण्डाय नमः । विद्युत्कान्तिप्रभं सूक्ष्मं दण्डं पुरुषरूपिणम् । कृताञ्जलिपुटोपेतं करण्डमकुटान्वितम् । सुब्रह्मण्यकरे संस्थं भजे दुष्टनिवारकम् ॥ १३४॥ ७. ॐ पद्माय नमः । पद्मं कोशोज्वलं मौलिं शङ्खकुन्देन्दुसन्निभम् । महात्मशक्तिसंयुक्तं सर्वाभरणभूषितम् । पद्माकारं महाविष्णुलक्ष्मीहस्तस्थितं भजे ॥ १३५॥ ८. ॐ पाशाय नमः । पाशः सप्तफणः सर्पः पुरुषः पुच्छसंयुतः । कृताञ्जलिपुटोपेतः द्विभुजश्च द्विलोचनः ॥ द्विजिह्व धर्मराजस्य यमस्य वरुणस्य च । करस्थः कीर्त्यते यश्च तं वन्दे देवरूपिणम् ॥ १३६॥ ९. ॐ वज्राय नमः । वज्रं तु पुरुषाकारं मृडं कर्कशविग्रहम् । दधत्त्रिणेत्रं शक्तिं च करण्डमकुटान्वितम् ॥ १३७॥ १०. ॐ शक्तये नमः । स्त्रीरूपां त्रिगुणाकारां किञ्चिद्दंष्ट्रासमन्विताम् । द्विनेत्रां द्विभुजां शक्तिं करण्डमकुटान्विताम् । सुब्रह्मण्यकरे संस्थां वन्दे शक्तिप्रदायिनीम् ॥ १३८॥ इति श्री भृङ्गिरिटिसंहितायां पञ्चावरणस्तोत्रं समाप्तम् । Proofread by Aruna Narayanan
% Text title            : Shri Natarajarajapanchavarana Stotram
% File name             : naTarAjarAjapanchAvaraNastotraM.itx
% itxtitle              : naTarAjarAjapanchAvaraNastotram
% engtitle              : naTarAjarAjapanchAvaraNastotraM
% Category              : shiva, stotra
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Aruna Narayanan
% Description/comments  : From shrInaTarAjastavamanjarI
% Indexextra            : (Scan)
% Latest update         : July 10, 2022
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org