श्रीनमस्कारदशकस्तोत्रम्

श्रीनमस्कारदशकस्तोत्रम्

नमः शिवाभ्यां जगदीश्वराभ्यां जगत्पतिभ्यां जयविग्रहाभ्याम् । जम्भारिमुख्यैरभिवन्दिताभ्यां नमो नमः शङ्करपार्वतीभ्याम् ॥ १॥ नमः शिवाभ्यां जटिलालकाभ्यां जरामृतित्राणविचक्षणाभ्याम् । जनार्दनाब्जोद्भवपूजिताभ्यां नमो नमः शङ्करपार्वतीभ्याम् ॥ २॥ नमः शिवाभ्यां कलिनाशकृद्भयां कारुण्यकल्याणवपुर्धराभ्याम् । कैलासशैलाख्यनिकेतनाभ्यां नमो नमः शङ्करपार्वतीभ्याम् ॥ ३॥ नमः शिवाभ्यां वृषवाहनाभ्यां विरिञ्चिविश्वम्भरपूजिताभ्याम् । विभूतिपाधीरविलोचनाभ्यां नमो नमः शङ्करपार्वतीभ्याम् ॥ ४॥ नमः शिवाभ्यामतिसुन्दराभ्यां अत्यन्तमासक्तवपुर्धराभ्याम् । अशेषलोकैकशिवङ्कराभ्यां नमो नमः शङ्करपार्वतीभ्याम् ॥ ५॥ नमः शिवाभ्यां रविलोचनाभ्यां रवीन्दुवैश्वानरलोचनाभ्याम् । राकाशशिस्तोममुखाम्बुजाभ्यां नमो नमः शङ्करपार्वतीभ्याम् ॥ ६॥ नमः शिवाभ्यां शशिशेखराभ्यां समस्तसम्पत्परिपूरिताभ्याम् । समस्तविद्याभिरुपासिताभ्यां नमो नमः शङ्करपार्वतीभ्याम् ॥ ७॥ नमः शिवाभ्यां नयनोत्सुकाभ्यां नमस्कृताभीष्टवरप्रदाभ्याम् । नारायणेनार्चितपादुकाभ्यां नमो नमः शङ्करपार्वतीभ्याम् ॥ ८॥ (९ श्रीमच्छङ्करभगवत्पादकृतसौन्दर्यलहर्यामादिमः श्लोकोऽयम्) नमः शिवाभ्यां नवयौवनाभ्यां परस्पराश्लिष्टवपुर्धराभ्याम् । नगेन्द्रकन्यावृषकेतनाभ्यां नमो नमः शङ्करपार्वतीभ्याम् ॥ ९॥ नमः शिवाभ्यामशिवापहाभ्यां अशेषकल्याणविशेषिताभ्याम् । असम्भवाभ्यां श्रुतिसम्भवाभ्यां नमो नमः शङ्करपार्वतीभ्याम् ॥ १०॥ नमस्कारात्मकं स्तोत्रं व्यासेन परिकीर्तितम् । यः पठेच्छ्रावयेद्भक्त्या सर्वान् कामानवाप्नुयात् ॥ ११॥ ॥ इति श्रीवेदव्यासकृतं नमस्कारदशकस्तोत्रं सम्पूर्णम् ॥ Proofread by Aruna Narayanan
% Text title            : Shri Namaskaradashaka Stotram 02 17
% File name             : namaskAradashakastotram.itx
% itxtitle              : namaskAradashakastotram (shrIvedavyAsakRitam namaH shivAbhyAM jagadIshvarAbhyAM)
% engtitle              : namaskAradashakastotram
% Category              : shiva, dashaka, stotra
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Aruna Narayanan
% Description/comments  : From stotrArNavaH 02-17
% Indexextra            : (Scan)
% Latest update         : July 25, 2021
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org