नन्दीकृता शिवस्तुतिः
रमानाथनेत्राब्जपूज्याङ्घ्रिपद्मं
महाकालकूटोज्ज्वलन्नीलकण्ठम् ।
सुधाधामखण्डोर्ध्वमौलिं त्रिनेत्रं
भजे कामिनीदेहभागार्धमूर्तिम् ॥ १४॥
महाजह्नुकन्याजटाजूटकोटिं
तडित्कूटकर्पूरखण्डाभदेहम् ।
सदाऽद्दीश्वरौघावलीविस्फुर तं
नटन्तं भजेऽहं भवान्या समेतम् ॥ १५॥
सुहेरम्बतातं पडास्यैकदृष्टि
भवाम्भोधिपोतं कुरङ्गास्यहस्तम् ।
सुधाधामखण्डोर्ध्वमौलिं त्रिनेत्रं
भजे कामिनीदेहभागार्धमूर्तिम् ॥ १६॥
स्तम्बेरमाधीशचर्मैकवस्त्रं
भजे देवदेवं महेशं चिदाद्यम् ।
असङ्गं चिदङ्गं भुजङ्गं भवान्याः
महादेवहृद्यं प्रसङ्गं जनानाम् ॥ १७॥
विनिर्धूतकामं सदा स्वात्मरामं
महावामदेवादिसामैकसीमम् ।
घनानन्दभस्मैकधामानमीशं
भजे विमृतापारसर्वेन्द्रियार्थम् ॥ १८॥
॥ इति शिवरहस्यान्तर्गते शिवाख्ये नन्दीकृता शिवस्तुतिः सम्पूर्णा ॥
- ॥ श्रीशिवरहस्यम् । शिवाख्यः चतुर्थांशः । अध्यायः ६ । १४-१८॥
- .. shrIshivarahasyam . shivAkhyaH chaturthAMshaH . adhyAyaH 6 . 14-18..
Notes:
Nandī नन्दी eulogises Śiva शिव on being
recruited as one of His foremost gaṇa-s गण.
Proofread by Ruma Dewan