नन्दिकेश्वरप्रोक्ता शिवस्तुतिः
(शिवरहस्यान्तर्गते महादेवाख्ये)
जयात्मयोगसंस्थाय जय संशुद्धचेतसे ॥ ३०॥
जयदनेकरूपाय जयेशाय नमोऽस्तु ते ।
जयोत्तमाय देवाय जयकल्याणरूपिणे ॥ ३१॥
जय प्रणष्टमोहाय जयाजय्याय ते नमः ।
जय शर्वाय देवाय सर्वेशाय महात्मने ॥ ३२॥
जयलक्ष्मीविधानाय जय कीर्तिविधायिने ।
जय वाक्यविशुद्धाय अतीताय नमो नमः ॥ ३३॥
जय विष्विन्द्रवन्द्याय शिवशान्ताय ते नमः ।
जय विज्ञानशुद्धदाय सर्वव्यापिन्नमो नमः ॥ ३४॥
जय कान्तार्धदेहाय जय चन्द्रार्धधारिणे ।
जय देवाधिदेवाय जय रुद्राय ते नमः ॥ ३५॥
जय त्रिभुवनेशाय जय विख्यातमूर्तये ।
जयाधाराय शर्वाय जगत्कर्त्रे नमो नमः ॥ ३६॥
जय निर्मलदेहाय जय सर्वार्थदायिने ।
जय भर्त्रे च हन्त्रे च जय त्रिपुरभेदिने ॥ ३७॥
जय मन्मथनाशाय सर्वेशाय नमो नमः ॥
॥ इति शिवरहस्यान्तर्गते नन्दिकेश्वरप्रोक्ता शिवस्तुतिः सम्पूर्णा ॥
- ॥ श्रीशिवरहस्यम् । महादेवाख्यः एकादशमांशः । अध्यायः ४१ शान्त्यध्यायफलकथनम् । ३०-३७॥
- .. shrIshivarahasyam . mahAdevAkhyaH ekAdashamAMshaH . adhyAyaH 41 shAntyadhyAyaphalakathanam . 30-37..
Proofread by Ruma Dewan