पार्वतीकृता ४ शिवस्तुतिः
(शिवरहस्यान्तर्गते ईशाख्ये)
पार्वत्युवाच ।
प्रभाकरनिशाकरज्वलनलोचनं शङ्करं
वतंसितसुधाकरं गरधरं च गङ्गाधरम् ।
भजामि च मयस्करं वरगुणौधरत्नाकरं
यमान्धकहरं हरं फणिगणेशहारं शिवम् ॥ ६१॥
अरुणाभरणं महेश शम्भो
शरणं त्वां समुपैमि देव देव ।
करुणावरुणालयोऽसि शम्भो
प्रणमन्तीमभिवीक्ष्य देव पाहि ॥ ६२॥
कुम्भीन्द्रकुम्भस्थितपादपद्मं
मत्तेभकृत्त्यम्बरमाशुतोषम् ।
कुम्भ्यास्यसूनुमथ कुम्भभवादिपूज्यं
कुम्भेश्वरं भवभयापहरं प्रपद्ये ॥ ६३॥
केदारेश महेश शङ्कर विभो काकोदराकल्पक
हे विश्वाधिक शीतदीधिति कलाचूडाल गङ्गाधर ।
गिरिराजशिरोधरैकवास
कृपया पाहि वृषाधिनाथवाह ॥ ६४॥
॥ इति शिवरहस्यान्तर्गते पार्वतीकृता शिवस्तुतिः सम्पूर्णा ॥
- ॥ श्रीशिवरहस्यम् । ईशाख्यः द्वादशमांशः । अध्यायः १० देवीतपश्चर्या । ६१-६४ ॥
- .. shrIshivarahasyam . IshAkhyaH dvAdashamAMshaH . adhyAyaH 10 devItapashcharyA . 61-64 ..
Notes:
Pārvatī पार्वती; eulogizes Śiva शिव while worshiping Him and conducting the required tapas तपस् in order to be able to marry Him.
Proofread by Ruma Dewan