पैङ्गनाडु गणपतिशास्त्रिकृतं शिवाष्टकम्
ॐ श्रीगणेशाय नमः ।
(व्युत्पत्तिर्नैव शास्त्रेषु तथा काव्येषु चापि न ।
केवलं शिवपादाब्जस्मरणात् कधयाम्यहम् ॥ १॥
विनम्य विपथाग्रजीविहितलिप्सवीक्षालवं
विनम्रजनसन्ततेर्विहितसन्ततज्ञानकम् ।
विभुं विमलयामिनीविधुकिशोरकेशावलिं
गणेशविदुषाधुना निजकृतिस्तु लेलिख्यते ॥ २॥)
पाकारिप्रभृतीन् सुरानवति यो नाकारिसङ्घात् सदा
पाकात् पुण्यकृतेः स्वपादयुगलीस्वाकाङ्क्षचित्ताय यः ।
स्वाकारं ददते सतोषमधुनोमाकामुक त्वं प्रभो
मा कार्षीर्मयि कोपलेशमपि यल्लोकानुकम्पी भवान् ॥ १॥
चन्द्रो यन्मुखकान्तितुल्य इति तं लोकत्रये दुर्लभं
मत्वा द्रष्टुमतीव तोषसहितो विष्णुः परामृश्य च ।
अक्ष्येवैकमचीकॢपत् तमधुना पापौघभृङ्गावली-
भेदे वज्रधरः स्वयं शिवमिदं वित्तं हि जिज्ञासते ॥ २॥
चन्द्रं वीक्ष्य यदीयमाननमिति भ्रान्त्या सरोजव्रजो
भामां प्राचि भरिष्यति च्छविभिरित्यालोच्य भीत्याकुलः ।
आकाङ्क्षन्निव तत् प्र(भातमधुना)प्यास्ते नमन्मूर्धकं
तत्तादृग्वदनाम्बुजाय शिव ते वीधीय (?) नित्यं नतिम् ॥ ३॥
पादाम्भोजयुगे हि यस्य विनमह्मादिदेवच्छटा-
कोटीरस्थितदेवराण्मणिगणस्फूर्युत्थिताच्छच्छविः ।
तादर्थ्याम्बुजसङ्घसङ्गिविलसद्भृङ्गार्दनाङ्गोऽपि मां
सोऽयं मन्दिरयत्यमन्दकुतुकादानन्दकन्दो मनः ॥ ४॥
यत्पादाब्जयुगं स्वकान्तिसमतावाञ्छं सरोजव्रजं
जित्वा स्वच्छविभिर्मृणालनिवहव्याजैरहो रश्मिभिः ।
बद्धाग(ज्जनिमा)प तज्जलनिधौ भक्तेष्टदातः प्रभो
स्वच्छन्दं विजरीहरीतु मम हृत्सौधे पदाब्जं तव ॥ ५॥
यस्त्वल्लोचनकान्तिनीलजलदः पापौघदावानलं
दाम्यन् निश्चलभक्तियुक्तजनताहृच्चातकानां मुदा ।
आत्मानन्दमयीं तनोति सततं तृप्तिं दयाम्भोनिधे
तृष्णादग्धमनन्यदेवशरणं हृच्चातकं पातु नः ॥ ६॥
यस्येशस्य दिनेशरूपमपि यन्नेत्रं दयाशीतल-
च्छायं स्वस्य हि रश्मिभिर्विनतहृत्पाथोजसङ्घं सदा ।
सन्तोषेण महाविकास भरितं सन्तन्यते शङ्कर
त्वत्तत्तादृशलोचनेन मम हृत्पद्मं तथा तन्यताम् ॥ ७॥
लीलालोलकटाक्षदग्वमदनः कालान्तकः सर्परा-
ण्मालालङ्कृतसर्वगात्ररुचिरो हालाहलोद्यद्गलः ।
चूलानन्तशिरःकिरीटसुरराण्मौलीविराजत्पदो
फालालङ्कृतभूतिरप्युपनिषज्जालस्तुतः पातु नः ॥ ८॥
रसलेशविवर्जितां प्रभो नुतिनाम्नीमधुना प्रलापवाचम् ।
स्तुतिमेव गृहाण धूर्जटे निजभक्ताधिकतोषदानदक्ष ॥ ९॥
इति (पैङ्गनाडु) गणपतिशास्त्रिकृतं श्रीमच्छिवाष्टकं सम्पूर्णम् ।
(४५)
Proofread by Sivakumar Thyagarajan Iyer