श्रीपञ्चाक्षरार्थस्तवः
। षडक्षरश्लोकाः ।
ओमित्येकाक्षरोऽसि प्रकृतिविरहितस्त्वोमितीदं च सर्वम् ।
त्वत्तो भिन्नं न चैतच्छिव तव महिमां (महितं) वक्ति वेदः सदैवों
???????????????????? missing in manuscript
????????????????????॥ १॥
ईशानस्त्वं सर्वविद्याधिनाथ उद्गीत (थ) स्त्वं वाचकस्त्वं तथैवोम् ।
माता मानं मातृकाख्यानसिद्धिः शब्दादीनां मूलमीशस्तथैवोम् ॥ २॥
नमस्ते रुद्रस्त्वं श्रुतिगतमनोऽन्तैकवचसां
भवानन्तो नाथो नतिकरणनानाविधतनुः ।
न हि त्वत्तो भिन्नं जगदपि च नानैव हि मृषा
नमः शेषी देवो न हि शिव विवादः श्रुतिबलात (?) ॥ ३॥
महानात्मा मायाविरहितशरीरो मनुगतो
महेशो मन्त्रार्थस्त्वमसि मतिदाता मनसिगः ।
मनरवी मध्यस्थो मरणजनानाधन्तरहितो
मधुर्मन्ता माता भवसि हर मन्वर्चितपदः ॥ ४॥
शिवः शिष्टो निष्ठो भवसि शिपिविष्टः शिवतरः
सिनीवाल्यः खल्यः शशिधर शिखासूक्तिमहिमा ।
शिखी नेत्रो यन्ता भवसि शितिकण्ठस्त्वमसिधृक्
शतावर्तो हतो त्वमसि भवहर्तासि जगतां (?) ॥ ५॥
वाहीकृतोक्ष भगवन् हर वामदेव
वाताशनाधिपतिभूषितदिव्यकाय ।
वास्तव्यवास्तुप महेश्वर वामनेत्रा-
क्लृप्तार्धकाय भगवन् नववारणारे ॥ ६॥
यतो जातं विश्वं यमयति तथान्ते च यदृते
न हि स्वस्थं यस्मान भवति तथा नो नगतिकम् ।
यमात्मानं सर्वे न हि खलु विजानन्ति तमसः
परं पारं यत्तद्भवसि यततां वै नियमिता ॥ ७॥
पञ्चाक्षरार्थस्तवमेतदेवम्पठन्ति येवाध्यवसन्तमांशिवे ।
(पञ्चाक्षरार्थस्तवमेतमेवम्पठन्ति ये चाध्यवसायवन्तः ।)
त एव धन्या जगतीतलेऽस्मिन् तेषां हि मुक्तिः करगा भवेन्ननु ॥ ८॥
इति श्रीशिवपञ्चाक्षरार्थस्तवः सम्पूर्णः ।
Proofread by Gopalakrishnan