श्रीपञ्चनदीशाष्टकम्
महादेव भवाकार नीलकण्ठ त्रिलोचन ।
शिवशङ्कर सर्वात्मन् पाहि पञ्चनदीपते ॥ १॥
त्रिपुरान्तक सर्वेश चन्द्रशेखर धूर्जटे ।
वामदेव क्रतुध्वंसिन् रक्ष पञ्चनदीपते ॥ २॥
देवदेव जगन्नाथ पार्वतीरमणप्रभो ।
भूतेश शर्व (सर्व) कामारे पाहि पञ्चनदीपते ॥ ३॥
शम्भो पशुपते स्थाणो गङ्गाधर मृडाव्यय ।
नागाभरण विश्वेश पाहि पञ्चनदीपते ॥ ४॥
पिनाकपाणे श्रीकण्ठ कपालकृतशेखर (कपालधृतशेखर) ।
अघोर सद्योजात त्वं पाहि पञ्चनदीपते ॥ ५॥
शूलिन् कपर्दिन् गिरीश भवोद्भव मनोन्मन ।
अस्थिभूष दयासिन्धो पाहि पञ्चनदीपते ॥ ६॥
व्योमकेश त्रयीनाथ वेदान्ताम्बुजभास्कर ।
स्वयम्प्रकाश चिद्रूप पाहि पञ्चनदीपते ॥ ७॥
सर्पराजोर्ध्वसम्बद्धजटामण्डलमण्डित ।
पिनाकमृगधृग्देव पाहि पञ्चनदीपते ॥ ८॥
ममाष्टकमिदं स्तोत्रं प्रतियामं विशेषतः ।
पठते वाञ्छितं सर्वं प्रयच्छामि द्विजोत्तम ॥ ९॥
पञ्चापगेश जप्येश प्रणतार्तिहरेति च । (पञ्चापकेश)
जपेन्नामत्रयं नित्यं पुनर्जन्म न विद्यते ॥ १०॥
रक्ष पञ्चनदीनाथ दयासिन्धो महेश्वर ।
अनाथनाथ भक्तानामभयप्रद शङ्कर ॥ ११॥
इति श्रीपञ्चनदीशाष्टकं सम्पूर्णम् ।
Proofread by Mohan Chettoor, Ruma Dewan, Rajani Arjun Shankar