परापञ्चाशिका अथवा अनुत्तरप्रकाशपञ्चाशिका
॥ ॐ नमोऽनुत्तरप्रकाशशङ्कराय ॥
अकृत्रिमाहमामर्शप्रकाशैकघनः शिवः ।
शक्त्या विमर्शवपुषा स्वात्मनोऽनन्यरूपया ॥ १॥
शिवादिक्षितिपर्यन्तं विश्वं वपुरदञ्चयन् ।
पञ्चकृत्यमहानाट्यरसिकः क्रीडति प्रभुः ॥ २॥
पृथगर्थमर्थवत्ता विश्वविश्वशरीरयोः ।
न विश्वविश्ववपुषोर्भिन्नता कापि तात्त्विकी ॥ ३॥
भेदे सत्तास्फुरत्ताभ्यां भिन्नं किं तु जगद्भवेत् ।
सत्तास्फुरत्तासम्बन्धात्सत्ता भानं च तन्न चेत् ॥ ४॥
असतः किं सतस्ताभ्यां सम्बन्धः सोऽयमिष्यते ।
स्वरूपलाभसुलभः सम्बन्धो नह्यवस्तुनः ॥ ५॥
न लब्धरूपसम्बन्धे ताभ्यां किं चिदपेक्ष्यते ।
अपेक्षायामवस्थानं न स्यादेतस्य किञ्चन ॥ ६॥
स्वभावतः स्फुरत्ता च सत्ता च न विनाशिनी ।
विनाशानभ्युपगमे जडतापि निवर्तते ॥ ७॥
ततो गत्यन्तराभावाच्चिदेव परिशिष्यते ।
सतश्चिदैक्यं प्रकृतं कदा चिन्न निवर्तते ॥ ८॥
प्रकाशोऽनन्यतो भावः स्वातन्त्र्योल्लासकेवलः ।
परिछिन्नात्मिका शक्तिः शम्भोर्विश्वातिशायिनः ॥ ९॥
यत्प्रकाशात्मकं सर्वं तमःकेवलतां गतम् ।
यच्च किञ्च्चिज्जगदेतत्प्रकाशादतिरिच्यते ॥ १०॥
विमृश्यसरणीं प्राप्तमित्येषा तात्त्विकी मतिः ।
अवभासैकतानानां मतिरेकात्र साक्षिणी ॥ ११॥
किं प्रमाणैर्वराकैस्तैश्चिदानुप्राणितात्मभिः ।
नहि वैकर्तनं ज्योतिर्दीपालोकमपेक्षते ॥ १२॥
शक्तिपातपवित्रेऽस्मिन्धीतत्त्वे च परीक्ष्यताम् ।
आदर्शविमलाभोगे न तु सर्वं प्रकाशते ॥ १३॥
इत्थं चिदात्मकं सर्वं षट्त्रिंशद्भेदतत्त्वतः ।
आदौ शुद्धात्मकं तत्त्वं पञ्चधा तमसः परम् ॥ १४॥
शिवः शक्तिश्च सादाख्यमीशो विद्येति भिद्यते ।
अक्षादिशान्तवर्णात्मानिरमायि शिवेन तु ॥ १५॥
कलाविद्यारागकालनियतिर्बन्ध उच्यते ।
मायापूर्वो वकारादिक्षकारान्ताक्षरात्मकः ॥ १६॥
पुमाञ्शक्तिर्मनो बुद्धिरहङ्कारादिपञ्चकम् ।
श्रोत्रादिपञ्चकं तादि टादि वागादिपञ्चकम् ॥ १७॥
तन्मात्रपञ्चकं चादि कादि व्योमादिपञ्चकम् ।
सिसृक्षोः प्रथमस्पन्दः शिवतत्त्वं विभोः स्मृतम् ॥ १८॥
इच्छैव सापरिम्लाना शक्तितत्त्वमुदञ्चयन् ।
स्वेच्छया सूचितं विश्वमाच्छाद्याहन्तया स्थितम् ॥ १९॥
स एव तत्त्वं सादाख्यं सर्वानुग्रहणोद्यतम् ।
स एवेश्वरतत्त्वं स्यात्पश्यन्विश्वमिदन्तया ॥ २०॥
इदन्ताहन्तयोरैक्यमिति विद्या निगद्यते ।
स्वाङ्गकल्पेषु भावेषु मायातत्त्वं विभेदधीः ॥ २१॥
मायागृहीतसङ्कोचः शिवः पुन्तत्त्वमुच्यते ।
अयमेव हि संसारी जीवो भोक्तैव दृश्यते ॥ २२॥
ज्ञत्वकर्तृत्वपूर्णत्वनित्यत्वान्यस्य शक्तयः ।
तत्सङ्कोचात्सङ्कुचितः कलाद्यात्मतया मतः ॥ २३॥
मायात्मकं कला नाम किञ्चित्कर्तृत्वकारणम् ।
विद्या किञ्चिज्ज्ञ्ताहेतू रागोऽभिष्वङ्गकारणम् ॥ २४॥
कालः परिच्छेदकरो नियतिश्चेदमेव मे ।
कर्तव्यं नान्यदित्येषा व्यवस्था यन्त्रणाकॄतिः ॥ २५॥
प्रकृतिर्गुणसाम्यं स्यादहङ्कारादिजन्मभूः ।
अहं ममेदमित्येतद्बुद्धिहेतुरहङ्कृतिः ॥ २६॥
बुद्धिरध्यवसायस्य कारणं निश्चयात्मनः ।
सङ्कल्पस्य विकल्पस्य बीजं मन उदीर्यते ॥ २७॥
वचनादेश्च शब्दादेर्वागादिश्रवणादिकम् ।
कारणं श्रवणादीनां ग्राह्यं तन्मात्रपञ्चकम् ॥ २८॥
आकाशाद्यवकाशादिकारणं भूतपञ्चकम् ।
परापराशक्तिमये शुद्धे विद्यादिपञ्चकम् ॥ २९॥
तदन्यदपराशक्तिरित्येतत्तत्त्वमीरितम् ।
इयं देवी परा शक्तिः शुद्धाशुद्धाध्वगर्भिणी ॥ ३०॥
पृथिव्यादीनि तत्त्वानि यदा लीनानि कारणे ।
तदा कारणमात्राणि बहिरुद्वमते विभुः ॥ ३१॥
अनुत्तरेच्छे उन्मेष आनन्देशनमूनता । (उन्मेषे)
क्रियेच्छाज्ञानशक्तीनां सत्ता चोच्छूनता च षट् ॥ ३२॥
इच्छेशनान्तरारूढा स्फुटास्फुटजगन्मयी । (स्फुटास्फुटजगन्मयाः)
चत्वारः परतो वर्णाः षण्ढात्मानः प्रचोदिताः ॥ ३३॥ (षण्डात्मानः, षट् + आत्मनः)
अनुत्तरानन्दरूढा स्फुटस्फुटजगन्मयाः ।
चत्वारः परतो वर्णाः षण्ढात्मानः प्रचोदिताः ॥ ३४॥ (षण्डात्मानः)
अनुत्तरानन्दशाक्तिस्त्रिकोणाद्वृत्तियोगतः ।
तथैवोनेषयोगेन क्रियाशक्तेः स्फुटं वपुः ॥ ३५॥
उक्तं त्रिशक्तिसङ्घट्टात्त्रिशूलं द्वैतघस्मरम् ।
परस्परविरोधे तु कार्येषु प्रविरोहति ॥ ३६॥
न कथञ्चिदुपादेयमासां रूपमिदं भवेत् ।
बिन्दुर्वेद्यस्य संस्कारो विमर्शः सर्ग इत्यसौ ॥ ३७॥
कलाषोडशकाकारा शक्तिर्विजयते परा ।
तिथयः प्रतिपत्पूर्वाः पञ्चदशेति मायया ॥ ३८॥
सूर्याचन्द्रमसौ स्वान्तश्चरन्तौ स्थितिहेतवे ।
यथा विमर्शवपुषः सर्गस्याद्याः कलाः स्मृताः ॥ ३९॥
द्विधेयं मातृका देवी बीजयोन्यात्मना स्थिता ।
नित्यप्रवृत्तशृङ्गाटवपुर्विश्वस्य जन्मभूः ॥ ४०॥
हृदयं बीजमेतस्यां सारं यत्तत्परं महः ।
वटबीजे यथा वृक्षस्तथात्र निहितं जगत् ॥ ४१॥
विचार्यमाणे नैवेदं कारणादतिरिच्यते ।
मृदादेः कलशादीनां तत्त्वं नान्यन्निरूपणे ॥ ४२॥
इत्याहुस्तत्त्ववादिन्यः श्रुतीनामन्तिमा गिरः ।
इदं सर्वं सदेवासीदग्रे इति विनिश्चयात् ॥ ४३॥
सत्तावाचिनि बीजेऽस्मिन्भाति माया त्विदं जगत् ।
विलुप्तप्रत्ययाकारमेतत्स परिशिष्यते ॥ ४४॥
ततो ज्ञानक्रियासारविद्येश्वरसदाशिवाः ।
शक्तित्रिशूले लीयन्ते चतुर्दशकलात्मनि ॥ ४५॥
ऊर्ध्वाधः सृष्टिवपुषि सर्वं लीनमतः परम् ।
इत्थं परस्यां संवित्तौ सर्वं सङ्कुचितं क्रमात् ॥ ४६॥
अथवा मनसातीते यत्र क्वापि निरञ्जने ।
षट्त्रिंशत्तत्त्वलहरीकलहातीतगोचरे ॥ ४७॥
विश्वात्मनि महामन्त्रे स्वभावे सा विलीयते ।
कुतश्चिन्मथिते धाम्नि दीप्ते केनापि हेतुना ॥ ४८॥
सर्वं हविरिदं जुह्वन्न दारिद्र्येण पीड्यते ।
पञ्चपञ्चात्मकं विश्वं पञ्चस्पन्दविजृम्भितम् ॥ ४९॥
सङ्कोचयत्परामर्शात्सामान्यस्पन्दकेवलम् ।
अहमि प्रलयं कुर्वंन्निदमः प्रतियोगिनः ॥ ५०॥
पराक्रमपरो भुङ्क्ते स्वभावमशिवापहम् ॥
इति षडधिकत्रिंशद्भेदप्रसक्तजगत्तनुः
प्रसरति महाशक्त्युल्लेखविचित्रमहापटी ।
जयति बहुशः स्पन्दाकारा परा चिदनुत्तरा
विमृशत जनाः किं नो भूयः स्वभावविजृम्भितम् ॥
॥ इति श्रीमदाद्यनाथविरचिता अनुत्तरप्रकाशपञ्चाशिका समाप्ता ॥
For shlokas 32 and 33, the reference text mentions:
अनुत्तरेत्यादित्रिपद्येष्वर्थासङ्गत्या पाठाशुद्धिः प्रतिभाति ।
The respective lines of shlokas are found to have been
cross-referenced in the commentary of ``yoginI hRRidayam''
(by Pt. Vrajavallabha Dwivedi) and have been added from there.
Two Sharada manuscripts of this composition are having some
differences amongst themselves as well as with cross referenced
shloka in the above-mentioned commentary of ``yoginI hRRidayam''
wrt some words in these lines.
Readers can consult subject experts and/or study further to
derive their own inference.
Encoded and proodread by Ruma Dewan