पराप्रवेशिका
ॐ नमः पराशक्त्यै ॥
विश्वात्मिकां तदुत्तीर्णा हृदयं परमेशितुः ।
परादिशक्तिभेदेन स्फुरन्तीं संविदं नुमः ॥ var परादिशक्तिरूपेण
इह खलु परमेश्वरः प्रकाशात्मा प्रकाशश्च विमर्शस्वभावः ॥
विमर्शो हि नाम विश्वाकारेण विश्वप्रकाशेन विश्वसंहरणेन
चाकृत्रिमाहमिति विस्फुरणम् । यदि निर्विमर्शः स्यादनीश्वरो
जडश्च प्रसज्येत । एष एव च विमर्शः - चिच्चैतन्यं
स्वरसोदितापरावाक्स्वातन्त्र्यं परमात्मनो मुख्यमैश्वर्यं कर्तृत्वं
स्फुरत्ता सारो हृदयं स्पन्द इत्यादिशब्दैरागमेषूद्घोष्यतेऽत
एवाकृत्रिमाहमिति-सतत्त्वम् । स्वयम्प्रकाशस्वरूपः
परमेश्वरः पारमेश्वर्यात् शिवादिधरण्यन्तं जगदात्मना
स्फुरति प्रकाशते । एतदेवास्य जनार्तृत्वमजडत्वं च ।
जगतश्च कार्यत्वमऽप्येतदधीनप्रकाशत्वमेवैवम्भूतं
जगत् प्रकाशरूपात् कर्तुर्महेश्वरादभिन्नमेव । भिन्नत्वे हि
अप्रकाशमानत्वेन प्रकाशनायोगाद् न किञ्चित्स्याद् । अनेन च
जगतास्य भगवतः प्रकाशात्मकं रूपं न कदाचिद्तिरोधीयत
एतत्प्रकाशनेन प्रतिष्ठां लब्ध्वा प्रकाशमानमिदं जगदात्मनः
प्राणभूतं कथं निरोद्धुं शक्नुयात् । कथं च रूपं तन्निरुध्य
स्वयमवतिष्ठेत । अतश्चास्य वस्तुनः साधकमिदं वाधकमिदं
प्रमाणमित्यनुसन्धानात्मकसाधकवाधकप्रमातृरूपतया चास्य
सद्भावः । तत्सद्भावे किं प्रमाणम् - इति वस्तुसद्भावमनुमन्ये ।
तादृक्स्वभाववत्वे किं प्रमाणम् - इति प्रष्टृरूपतया
च पूर्वसिद्धस्य परमेश्वरस्य स्वयम्प्रकाशत्वं सर्वस्य
स्वसंवेदनसिद्धम् । किञ्च प्रमाणमपि यमाश्रित्य प्रमाणं
भवति तस्य प्रमाणस्य तदधीनशरीरप्राणनीलसुखादिवेद्यं
चातिशय्य सदा भासमानस्य वेदकैकरूपस्य सर्वप्रमितिभाजः
सिद्धावभिनवार्थप्रकाशस्य प्रमाणवराकस्य कश्चोपयोगः ।
एवं च शब्दराशिमयपूर्णानन्ताहन्तापरामर्शसारत्वात्
परमशिव एव षट्त्रिंशत्तत्त्वानि । कानि इत्याह ॥
शिवशक्तिसदाशिवेश्वरशुद्धविद्यामायाकलाविद्याकालनियतिपुरुष
प्रकृतिमनोबुद्ध्यहङ्कारश्रोत्रत्वक्चक्षुर्जिह्वाघ्राण-
वाक्पाणिपादपायूपस्थशब्दस्पर्शूपरसगन्धाकाशवायुवह्निसलिलभूमयः
इत्येतानि षट्त्रिंशत् लक्षणानि । तत्र शिवतत्त्वं नाम
इच्छाज्ञानक्रियात्मककेवलपूर्णानन्दस्वभावरूपः परमशिव एव ॥ १॥
अस्य जगत्स्रष्टुमिच्छापरिगृहीतवतः परमेश्वरस्य प्रथमस्पन्द
एवेच्छाशक्तितत्त्वम् ॥ २॥
अप्रतिहतेच्छत्वात सदैवाङ्कुरायमाणमिदं जगत्
स्वात्मनाहन्तयाच्छाद्यावस्थितं सदाशिवतत्त्वम् ॥ ३॥
अङ्कुरितं जगदिदन्तयावृत्यास्थितमीश्वरतत्त्वम् ॥ ४॥
अहन्त्वेदन्तयोरैक्यस्वरूपेषु भेदभावप्रथा माया ॥ ५॥
स्वस्वरूपेषु भेदभावप्रथा माया ॥ ६॥
यदा तु परमेश्वरः पारमेश्वर्या मायाशक्त्या स्वरूपं गृहयित्वा
सङ्कुचितग्राहकतामश्नुते तदा पुरुषसंज्ञोऽयमेव मायामोहितः
कर्मबन्धनः संसारी परमेश्वरादभिन्नोऽप्यस्य मोहः परमेश्वरस्य
न भवेत् । इन्द्रजालमिव ऐन्द्रजालिकस्य स्वेच्छया सम्पादितभ्रान्तेः
भ्रान्त एव र्विद्याभिज्ञातेश्वर्यस्तु चिद्घनो मुक्तः परमशिवः ।
अस्यैव सर्वकर्तृत्वं सर्वज्ञत्वं पूर्णत्वं व्यापकत्वं
नित्यत्वं च । शक्तयोऽसङ्कुचिता अपि सङ्कोचग्रहणेन
कलाविद्यारागकालनियतिरूपतया भवन्ति ॥ ७॥
तत्र कलानामस्य पुरुषस्य किञ्चित्कर्तृत्वहेतुः ॥ ८॥
विद्या किञ्चिज्ज्ञत्वकारणम् ॥ ९॥
रागो विषयेष्वभिष्वङ्गः ॥ १०॥
कालो हि भावनां भासनाभासनात्मकानां क्रमोऽवच्छेदको
भूतादिर्नियतिर्ममेदं कर्तव्यमिति नियमनहेतुः ॥ ११॥
एतत्पञ्चकमस्य स्वरूपावरकत्वात्कञ्चुकमित्युच्यते ।
महदादिपृथिव्यन्तानां तत्त्वानां कारणं मूलप्रकृतिः ।
एषा च सत्त्वरजस्तमसां साम्यावस्था । अविभक्तरूपं मनः
सङ्कल्पसाधनाबुद्धिः निश्चयसाधना अहङ्कारो नाम -
ममेदं न ममेदमित्यभिमानसाधनम् । एतत्त्रयमन्तःकरणम् ।
शब्दस्पर्शरूपरसगन्धात्मकानां विषयाणां क्रमेण साधनानि
श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणानि पञ्च ज्ञानेन्द्रियाणि ।
वचनादानविहरणविसर्गानन्दात्मक्रियासाधनानि
परिपाठ्य वाक्पाणिपादपायूपस्थानि पञ्च कर्मेन्द्रियाणि ।
शब्दस्पर्शरूपरसगन्धसामान्याकाराणि पञ्चतन्मात्राणि ।
आकाशमवकाशप्रदम् । वायुः सञ्जीवनम् । अग्निर्दाहकः पाचकश्च
सलिलमाप्यायनं द्रवरूपं च । भूमिर्धारिका कठिनरूपा च । एतत्
सर्वम् ।
यथा न्यग्रोधबीजस्थः शक्तिरूपो महाद्रुमः ।
तथा हृदयबीजस्थं जगदेतच्चराचरम् ॥
इत्याम्नायरीत्या पराभट्टारिकारूपे हृदयबीजेऽन्तर्भूतम् । कथमित्याह
॥ - यथा घटशरावादीनां मृद्विकाराणां पारमार्थिकं रूपं मृदेव
भवति । यथा वा जलादिद्रवजातीनां विचार्यमाणं व्यवस्थितं रूपं
जलादिसामान्यमेव भवति तथा पृथिव्यादिमायान्तानां तत्त्वानां सतत्त्वं
मीमांस्यमानं सदेव भवेद्, अस्यापि पदस्य निरूप्यमाणं स्वलक्षणं
धात्वर्थव्यञ्जकं प्रत्ययांशं विसृज्य प्रकृतिमात्ररूपं
साकारमात्रम् एवावशिष्यते । तदन्तर्गतमेकत्रिंशत्तत्वम् । अतः परं
शुद्धविद्येश्वरसदाशिवतत्त्वानि ज्ञानक्रियासाराणि । शक्तिविशेषत्वात्
ओङ्कारेऽभ्युपगमरूपे अनुत्तरशक्तिमये परमरहस्ये येऽन्तर्भूतानि
। अतः परमूर्ध्वाधः सृष्टिमये तु विसर्जनीयः । एवम्भूतस्य
हृदयबीजस्य महामन्त्रात्मको विश्वमयो विश्वोत्तीर्णः परमशिव
एवोदयविश्रान्तिस्थानत्वान्निज स्वभावः । ईदृशं हृदयं बीजं
तत्त्वतो यो वेद स्वात्मतया समाविशति च स परमार्थतो दीक्षितः
प्राणान् धारयन् लौकिकवद्वर्तमानो जीवन्मुक्त एव भविष्यति ॥
var जीवन्मुक्त एव भवति, देहपाते परशिवभट्टारक वे भवति ॥
इति पराप्रवेशिकाकृतिरियं क्षेमराजस्य ॥
Proofread by Swamini Tattvapriyananda tattvapriya3108 at gmail.com