परशम्भुमहिम्नस्तवः
शिवाभ्यां नमः
परशम्भुमहिम्नस्तवः
अनुक्रमणिका श्लोकसङ्ख्यासहितं
१ उपोद्घातप्रकरणं प्रथमम् ॥ १॥ १८
२ पराशक्तिस्कन्धरश्मिप्रकरणं द्वितीयम् ॥ २॥ ७
३ इच्छाशक्तिस्कन्धरश्मि प्रकरणं तृतीयम् ॥ ३॥ ८
४ ज्ञानशक्तिस्कन्धरश्मिप्रकरणं चतुर्थम् ॥ ४॥ ६
५ क्रियाशक्तिस्कन्धरश्मिप्रकरणं पञ्चमम् ॥ ५॥ १२
६ कुण्डलिनीशक्तिस्कन्धरश्मिप्रकरणं षष्ठम् ॥ ६॥ ६
७ मातृकाशक्तिस्कन्धरश्मिप्रकरणं सप्तमम् ॥ ७॥ १०
८ षडन्वयरश्मिविवेकस्कन्धप्रकरणमष्टमम् ॥ ८॥ ५
९ पावकध्यानयोगप्रकरणं नवमम् ॥ ९॥ ११
१० महाविभूतिप्रकरणं दशमम् ॥ १०॥ १७
११ अन्तर्यागोपाचारपरामर्शप्रकरणमेकादशम् ॥ ११॥ ८
१२ शान्तिप्रकरणं द्वादशम् ॥ १२॥ १२
१३ उपसंहारप्रकरणं त्रयोदशम् ॥ १३॥ २१
पूर्णस्तवश्लोकसङ्ख्या १४१
१. प्रथमं प्रकरणं उपोद्घात
अनेकशक्तिसङ्घट्टप्रकाशलहरीतनुः ।
शुद्धसंविच्छिवः पायाद्विभुः श्रीपरमेश्वरः ॥
श्रीशम्भो ते महिम्नः स्तुतिपथरचिताः साङ्गवेदाः सशास्त्राः
सिद्धान्ताः साङ्गविद्याः सचकितमतयो नैव पश्यन्ति पारम् ।
साद्यन्तास्त्वामनन्तं परमशिवगुरुं ते कथं वर्णयेयु-
स्तस्मात्प्रज्ञानुसारादहमपि भवतः स्तौमि किञ्चिच्चरित्रम् ॥ १॥
क्वानन्दात्मप्रकाशस्तव परमहिमापारपीयूषसिन्धु-
स्त्वद्भक्त्यामोदमग्नाः क्व च कविमधुपा ब्रह्मविष्णुप्रमुख्याः ॥
श्रीशम्भो मोहजृम्भो न जनयति परां स्वात्मवत्तां किमेत-
च्चित्रं तद्वन्मयापि स्वमतिविभवतः स्तूयसे त्वं न दोषः ॥ २॥
श्रीमद्भिर्दृश्यभावैरहमहमिदमित्यात्मजृम्भाधिरूढै-
र्नानारूपैः पदार्थैरनवधिविभवैराशुदेदीप्यमानः ।
सर्वातीतस्त्वमेकः परशिवचरण स्वप्रकाशात्मशम्भो
नान्यस्त्वत्तः परोऽस्तीत्यहमिह गुरुणा त्वां स्वभावैरवैमि ॥ ३॥
आत्मैवैष स्वकीयो निरतिशयचिदानन्दसद्ब्रह्मपूर्णो
जिह्मः संसारभावैरतिदुरधिगमैरात्तमायाविलासैः ।
सर्वात्मत्वादनन्तस्तव शिवमहसः श्रीगुरोः सत्यवाक्यैः
निस्तर्कोपाधिभेदैः परमपुरुष ते तत्त्वमद्वैतमेति ॥ ४॥
दीक्षां यः शाम्भवीयां शिवगुरुविहितां दिव्यबीजागमोक्तां
प्राप्य श्रीशम्मुतादात्म्यवितरणचणां जन्ममृत्युप्रभेत्रीम् ॥
भित्वा भेद्यं पशुत्वं परशिवचरणध्यानयोगेन पूर्णः
स्वाघोरब्रह्मविद्याविदितपरपदं ब्रह्म स प्रैति विद्वान् ॥ ५॥
ब्रह्माण्डं पिण्डमेतत्पितरमिव सुतस्तत्समं नैकधर्मं
विज्ञायाज्ञानमुक्तः शिवगुरुवचनैरात्मविज्ञानशान्तः ।
सर्वात्मैकप्रभोस्ते परशिवचरणाराधनासक्तचित्तो
यः कोऽप्येकः स योगी जयति जनिमृती भो महामृत्युमृत्यो ॥ ६॥
पिण्डे षाट्कोशिकेऽस्मिन्नवविवरपुरे पञ्चभूतेन्द्रियाढ्ये
पुंस्के स्त्रैणे च षाण्डे शिवगुरुवचनैरत्र विज्ञायसे चेत् ।
केनाप्यन्नासुचित्तप्रमितिनिरुपमानन्दकोशात्तराशि-
स्त्वं षोढा भिन्नमूर्तिः परशिव स बुधो विश्वरूपत्वमीयात् ॥ ७॥
सर्वेश श्रीपुरेश त्रिभुवनभवनव्यक्तयः शक्तयस्ते-
ंअन्ताद्याः श्रीपराद्या निरवधिविभवा मातृकान्ताः क्षकान्ताः ।
विज्ञाताः स्युः स्वरूपे यदि शिवगुरुणा विश्वदृश्यप्रपञ्च-
स्वात्मज्योतिर्विलीनान्विदधति विदुषो योगिनः सैव मुक्तिः ॥ ८॥
या षोढा पञ्चधा च प्रकटितविभवा श्रीपरा देव शम्भो
सैव श्रीसुन्दरीति श्रुतिभिरभिनुता चक्रराजासनस्था ।
सर्वत्रानेककोटिप्रकटितगणनायोगिनीर्व्यश्नुवाना
त्वत्तेजोऽन्तर्निरूढा रचयति जगतामादिमध्यान्तकालान् ॥ ९॥
या शक्तिः पञ्चवाहप्रवहणलहरीव्यक्तनैजात्मतेजः
संवर्ताग्निप्रपीतत्रिभुवनजलधिः कालसङ्कर्षणी ते ।
दिक्कालातीतमूर्ते परशिव महतां भक्तिभाजामविद्यां
मृत्युं विज्ञानदानात्प्रहरति विदुषां तन्महत्वं त्वमेव ॥ १०॥
सर्वज्ञो नित्यतृप्तः सदसदुभयङ्गोऽनादिबोधः स्वतन्त्रो
नित्या लुप्तात्मशक्तिर्निरुपमचरितोऽनन्त इत्यङ्गषट्कैः ।
षट्च्छक्तिव्यक्तभावस्त्वमिह यदि शिव ज्ञायसे देशिकोक्त्या
येन स्वात्मन्यनादौ सकलविलसितं ते परायाः स भेदः ॥ ११॥
गायत्री वेदधात्री शतमखफलदा वेदशास्त्रैकवेद्या
चिच्छक्तिं ब्रह्मविद्या परमशिव तव श्रीपरां व्याकरोति ।
शब्दब्रह्मैक्यवाच्यामखिलमतमिति व्यक्ततत्त्वामवाच्यां
सप्तस्रोतोविभूतिं त्रिभुवनमयतां तत्त्वतः सर्वतुर्याम् ॥ १२॥
संसारासारभावप्रवहणचतुरामादिशक्तिं परां तां
स्वात्माभिन्नां विदित्वा वपुरनुमतिभिर्नावृताहङ्कृतिस्थः ।
त्रैलोक्ये ब्रह्मविश्वप्रसरमनवधिस्वप्रकाशप्रपूर्णं
ज्ञात्वा मुक्तः स योगी भवति गतभवस्त्वत्प्रसादान्महेश ॥ १३॥
विश्वेश स्वप्रकाशप्रसरमिह विना नान्यदस्तीति तत्त्वं
मीमांसारूपमेतत्तव परमगुरो श्रीमुखाम्नायजालम् ।
स्वप्रत्यक्षं विहाय स्वरहितमिति चेदस्ति चान्यत्र तत्त्वं
ये धीरास्तर्कयेयुस्त इह जनिमृतीराप्नुवन्त्यङ्गभारैः ॥ १४॥
न ब्रह्मा विष्णुरुद्रौ सुरपतिरमरा नासुरा नैव पृथ्वी
नापोऽग्निर्नैव वायुर्न च गगनतलं नो दिशो नैव कालः ।
नो वेदा नैव यज्ञा न च रविशशिनौ नो वियन्नो विकल्पः
स्वज्योतिः सत्यमेकं जयति तव पदं सच्चिदानन्दमूर्ते ॥ १५॥
शम्भो सैद्धान्तिका ये स्वमतिविभवतोऽखर्वगर्वाः प्रमाणैः
मीमांसन्ते भवन्तं बहुमतजनकैरावृता शुद्धविद्यैः ।
अन्योन्यस्पर्धिनस्ते कथमिह भवतस्तत्त्वमीयुः स्वतेजः
सर्वातीतं विकल्पग्रहरहितमजं मानतर्काद्यगम्यम् ॥ १६॥
धीराः केचिन्महान्तो गुरुवचनरतास्त्यक्तसंसारभावा
निःशङ्काघोरविद्या परिणतमतयः सर्वसङ्कल्पमुक्ताः ।
त्वत्कारुण्याक्षिलक्ष्याः परमशिव भवत्साधकाः पुण्यपापैः
कृत्याकृत्यैर्विहीनाः परपदविभवं त्वां प्रपश्यन्ति विश्वम् ॥ १७॥
सिद्धान्तः शाम्भवोऽयं शिवगुरुवचनाघोरविद्याक्षरोक्तः
स्तोत्रव्याजेन निर्वाह्यत इति भवतः श्रीविभो चापलं मे ।
अत्र न्यूनातिरेकोक्तिजनितमसकृत्क्षम्यतां दासबुद्ध्या
मच्चित्तस्थः प्रमेयं समुपदिश परं मातृकावर्णराशिम् ॥ १८॥
इति श्रीदूर्वासकृतपरशम्भुमहिम्नस्तवे
उपोद्घातप्रकरणं प्रथमम् ॥ १॥
२. द्वितीयं प्रकरणं पराशक्तिस्कन्धरश्मि
श्रीमद्रश्मिप्रभावं त्रिभुवनभवनव्यञ्जकस्वात्मदीपं
को वा वक्तुं निरुक्त्या प्रभवति यतधीरात्तसम्यग्विमर्शः
यत्र ब्रह्मादिविद्वन्मतिरपि विगतिर्याति भीत्या विनाशं
श्रुत्या सार्धं स केन प्रविततमतिना वर्ण्यते ते महेश ॥ १॥
षण्णामप्यन्वयानां क्षितिजलदहनस्पर्शनाकाशचेतः-
पीठस्थानां पराद्याः परशिव भवतः शक्तयो मातृकान्ताः ।
ब्रह्मादिप्रेतसिंहासनगतविभवैस्तावकीयैः षडङ्गैः
द्वात्रिंशद्रश्मिमुख्याः स्वकिरणकरणव्याप्तविश्वैर्विभान्ति ॥ २॥
बुद्धेः सम्यग्विमर्शप्रकटितसरणेरर्थवद्वाक्प्रवृतेः
यत्र स्थाने तुरीये नवकलितमहावाक्यतत्त्वे विनाशः ।
तत्किं ज्योतिस्तमो वा सदसदुभयगं किन्न्वमूर्तं नु मूर्तं
निर्धारश्चेद्विनाशो न हि मतिवचसां देव तस्मात्परस्त्वम् ॥ ३॥
ज्ञानं योगः प्रकाशो विधिरुभयमतिर्देहधीः प्राणशून्या-
हङ्कारश्चाधिकामः स्वविषयमनघं चाश्रयन्नन्तरास्ते ।
इत्यात्माकाशसत्ता तव परिविदिता सम्यगेतत्प्रमेया-
धारेष्वन्तर्घृतं यत्पयसि तिलचये तैलवद्भासि हीश ॥ ४॥
षट्त्रिंशत्तत्त्वपुष्पस्तबकपरिमलस्तावकीयः स तेजः-
कल्पद्रुश्चेत्प्रबुद्धः शिवगुरुवचसा सर्वतः स्वानुभूतः ।
अद्वैतब्रह्मबुद्धिं जनयति विदुषामेष एवास्मदादि-
ब्रह्मान्तात्मप्रपञ्चे विलसति न परोऽस्तीति चेत्पारिजातः ॥ ५॥
स्वप्रत्यक्षेऽपि तत्त्वे करतलफलवद्वेत्ति नासौ स्वरूपं
नानासिद्धान्तजालप्रलपितजनिताज्ञानमोहान्धकारैः ।
आक्रान्तः पुण्यपापैरधिगतनिधनैरात्मकर्मण्यनादौ
हेयोपादेयबुद्ध्या भव इति विहितस्ते महामाययेश ॥ ६॥
एकोऽसौ लक्षणैश्चेदखिलतनुगतैरिन्द्रियार्थैरनेकैः
भिन्नः स्वात्मप्रकृत्या विधिजनिमृतिभिः सन्निबद्धः किमेतत् ।
देवत्वं मानुषत्वं वपुषि मुजगतां सर्वजीवात्मकत्वं
धत्से शैलूषवत्ते स्मरति न तु पदं श्रीमहादेवमूर्ते ॥ ७॥
इति श्रीदूर्वासकृतपरशम्भुमहिम्नस्तवे
पराशक्तिस्कन्धरश्मिप्रकरणं द्वितीयम् ॥ २॥
३. तृतीयं प्रकरणं इच्छाशक्तिस्कन्धरश्मि
सत्त्वं चित्त्वं महत्त्वं तव परमगुरोरात्मशक्तेः परायाः
पिण्डीकृत्य प्रकृत्या प्रथमरतिपतिव्याजकालान्तवह्निः ।
भूत्वा संसारसृष्टिस्थितिलयनिलयाद्याति तोयार्णवान्तं
तन्वानो निर्ममेच्छस्त्वमिह विजयसे विष्णुमायाविभूते ॥ १॥
मायायामन्तरस्थः कुसुमशररसस्तावकीयः स्वकाले
ज्ञानज्ञेयप्रमातृप्रकटितमहिमा स्वप्ररोहप्रसारैः ।
उत्पाद्याद्यं विरिञ्चं तदनु भुवनतामात्मना व्यश्नुवानो
बीजाकारः स्वयम्भूरिति कथयति ते नाम विश्वात्मसृष्टेः ॥ २॥।
आदिक्षान्तार्णसृष्टिं त्रिभुवनभवनाभासभूमिं शिवादि-
क्षित्यन्तात्मीयतत्त्वावलिविकृतगतिं वैधसाण्डान्तभूमिम् ।
आत्मीयानुत्तरेच्छागुणपरवशतां प्राप्य संव्यश्नुवानः
श्रीशम्भो विश्वसृष्टिर्भवसि निजमलत्रय्युपप्रोषितात्मा ॥ ३॥
चत्वारः कालतत्त्वे तव युगपतयस्ते च धातुश्च पुत्राः
व्याख्याता द्वादशैते स्थितिकृतिविदिताः सावताराः सदाराः ।
श्रीकण्ठाद्याश्च नाथा धृतयुगविधयस्त्वन्नियत्युत्थितान्ता-
श्चैतन्या एव तस्मात्स्थितिरिति विदितस्त्वं सहस्रार्कदीप्ते ॥ ४॥
आत्मीयानादिरश्मीनिह भवजनितानेकसिद्धान्तजाल-
व्यामोहोद्यद्विकल्पानृतनिजविषयान्पुण्यपापादिभेदैः ।
दुर्ज्ञेयान्देशिकोक्त्या प्रविमलवपुषि स्वप्रकाशैकवह्नौ
स्वात्मत्वेन प्रबुद्धाञ्झडिति विजयते यस्त्वदात्माविरोधः ॥ ५॥
जाग्रत्स्वप्नप्रसुप्तिप्रकटितविभवैरात्ममायागुणैः स्वै-
र्ज्ञानेच्छाक्रोधरूपैर्विधिहरिहरकैरावृते मोक्षमार्गे ।
पान्थाः केचित्सुधीराः शिवगुरुवचनज्ञानशास्त्राग्निदीप्ता-
स्तवत्कारुण्यैकरक्षापरिविहितभियस्त्वां प्रयान्त्यादिमूर्ते ॥ ६॥
त्वं मायाकामदेवप्रथममसि ततः स्वस्य सृष्टौ विधाता
रक्षायां विष्णुरन्ते प्रबलतरमहारुद्रमूर्तिः स्वमूर्तौ ।
सत्योऽनन्तः प्रमाता शिवगुरुरिति च स्वात्ममूर्तिप्रभावैः
स्वेच्छावस्थागुणाढ्योऽप्यगुण इति विभो वस्तुतः स्तूयसे त्वम् ॥ ७॥
इच्छाशक्त्या ययैतत्कबलितमखिलं ते जगज्जालरूपं
सृष्टिस्थित्यन्तवृत्या सरसि जलधरासारतुल्यात्मगत्या ।
सैवानन्तान्तरङ्गप्रसरबहुविधानेकसङ्कल्पभावै-
राविर्भूत्वा त्वदैङ्गप्रकटनकृतये बोधसिन्धुस्त्वमेव ॥ ८॥
इति श्रीदूर्वासकृतपरशम्भुमहिम्नस्तवे
इच्छाशक्तिस्कन्धरश्मि प्रकरणं तृतीयम् ॥ ३॥
४. चतुर्थ प्रकरणं ज्ञानशक्तिस्कन्धरश्मि
संवेद्यं तत्त्वजालं परशिवधरणीमूलपारं विचित्रं
कर्मानन्तप्रपञ्चं निरुपममहिमानादिमध्यावसानः ।
ब्रह्मानन्दामृताब्धिः समरसविधुना जृम्भितस्वात्मभासो
हेतुत्वेन प्रबोधज्वलन तव महाज्ञानशक्तिं व्यनक्ति ॥ १॥
गोजं क्षीरं यथैकं द्युतिविविधगुणस्वेन्द्रियार्थप्रकाशोऽ-
प्येकस्तद्वर्णनानारुचिरधिकरणस्यैकता कारणेन ।
नीलाद्याभासबुद्ध्या नभसि परिवृतो धूमभासैरिवाग्निः
प्राचुर्येण प्रदीप्तः परमशिव ततः सत्यविश्वात्मकस्त्वम् ॥ २॥
नित्याखण्डप्रकाशादमलतरविभो त्वत्सकाशात्कदाचि-
न्माया सञ्जायमाना त्रिगुणमुखगणव्यक्तशक्तिस्वभावा ।
सिद्धान्तैर्भिन्नमानप्रमितिभिरसुखैर्भेदबुद्धिप्रधानैः
संसारित्वं प्रसार्य दृढयति भवतः सत्यतां वेदविद्या ॥ ३॥
अन्यः पक्षोऽथवात्र प्रविमलकलनानन्तशक्तिप्रकाशः
सत्याख्यः सोऽपि यत्र प्रविलयमयते शून्यगर्ते तदात्मा ।
यौष्माकः सत्यभावः स च निजमहसां कामरूपात्ममाया-
मुत्पाद्यैतत्प्रपञ्चं घटयति तदिदं व्यश्नुषे स्वात्मयोने ॥ ४॥
ऐक्याच्छिच्छक्तयोश्चेदिदमहमिति च द्वन्द्वभावस्य जीव-
ब्रह्मादिद्वैतबुद्ध्योर्दिनकरशशिनोरण्डविध्यण्डयोश्च ।
प्राणापानाख्यवाय्वोः सुकृतदुरितयोः स्याद्यदा सामरस्य-
प्रादुर्भावस्तदा त्वं भवसि सदसदानन्दनाथः परोऽग्रे ॥ ५॥
सेयं विज्ञानशक्तिस्तव शिवगुरुणा दर्शिता नित्यशुद्धा
निर्द्वन्द्वब्रह्मतत्त्वं गमयति सुधियां सच्चिदानन्दपूर्णम् ।
लोके मेयप्रमातृप्रमितिभिरिति चेदर्थिता भिन्नमार्गाः
मुद्रा नानास्वरूपाः प्रकटयति मुदाहङ्कृतिस्थाः परेश ॥ ६॥
इति श्रीदूर्वासकृतपरशम्भुमहिम्नस्तवे
ज्ञानशक्तिस्कन्धरश्मिप्रकरणं चतुर्थम् ॥ ४॥
५. पञ्चम प्रकरणं क्रियाशक्तिस्कन्धरश्मि
बुद्धिज्ञानेन्द्रियाणां निजनिजविषयास्वादभोगप्रबोध-
क्षीराब्धिः प्रोद्यदिच्छामृतकरणरुचा वाङ्मुखक्षालितैश्च ।
सङ्क्रान्तश्चालितार्थप्रसरबहुपथः स्वात्ममायोरुपूर-
त्रुट्यद्ब्रह्माण्डबिन्दून्विकिरति तव चेत्त्वं शिवातः क्रियात्मा ॥ १॥
सुष्टिस्थित्यन्तलीलावकलितसरणिर्यत्प्रयत्रो यदीयं
धैर्यं विख्यातवीर्यं सकलमिति गता यस्य बुद्धिः समृद्धा ।
यत्सामर्थ्यं प्रभूतं निरवधिगणनाजाण्डरुद्राण्डभाण्डा-
गारं यद्ब्रह्मसत्ता जयति तव मनोरूपविश्वात्मकत्वम् ॥ २॥
संवेशं दूरदेशं कलयति सकलं कर्मकृत्यं च तत्त्वं
स्वं यद्बाह्येन्द्रियाणां चलनमपि विना स्वान्तमन्तःप्रकाशम् ।
तत्ते वीर स्वतन्त्रप्रकृतिनिगमनं निर्गतोपाधितर्कं
बाह्याख्यादर्शनार्थं विमलशिव ततस्त्वं हृषीकाश्रयात्मा ॥ ३॥
यद्वन्न्यग्रोधबीजं पृथुतरविटपानोकहत्वेन रूढं
सामर्थ्य दर्शयेस्त्वं परमशिव सदा सत्यविज्ञानबीजम् ।
इच्छाक्षेत्रे सुबुद्धीन्द्रियकुलकलितं सर्वतः स्वक्रियाभिः
स्वात्मानं विश्वरूपं प्रकटयसि यदा त्वं तदा गोचरः स्याः ॥ ४॥
स्वात्माशेषाक्षवृत्तेः पृथगयनतया क्वापि भूतानि पञ्च
क्वापि प्रेक्षाप्रपञ्चः क्व च निनदमुखाः क्वापि वाक्यादयश्च ।
एतैरेव प्रवृत्तो निजविषयतया सर्वविश्वात्मजृम्भ-
स्तस्मात्त्वं लोकमुख्योऽद्वयमिति रहितः स्वप्रकाशप्रमेयः ॥ ५॥
कालावस्थाश्च तिस्रो गिरिश दश दिशः सप्तधा भूमिरापो
नाना तेजः समीरा दश वियदखिलव्यापि चैकादशाक्षाः ।
भिन्नार्थानन्तबोधप्रकटितमहिमा बीजभेदास्त्वनन्ता-
स्त्वत्सक्ता बीजजाताः स्वगुणमनुसरन्त्येव ते देव सत्त्वात् ॥ ६॥
पञ्चाशद्वर्णमाला बहुविधनिनदोच्चारणात्तत्त्वजाल-
व्यक्तिव्यापारसक्ता गिरिश गुरुमुखाम्नायविद्यास्वरूपा ।
धात्राद्युत्पत्तिपूर्वं श्रुतिमुखविविधानेकसिद्धान्तविद्या
नानाभाषाक्रियाभिः प्रकटयति ततः सैव ते साङ्गवेदान् ॥ ७॥
वर्णेभ्यो धातवः स्युर्विविधपदचयस्तद्भवस्तेन वाक्यं
तस्माज्जातं प्रमाणं विविधनिगमनं तेन सिद्धान्तजालम् ।
तस्मान्नानात्मतत्त्वप्रकटनमिति यत्तत्त्वविद्या त्वदीया
त्वं चेदेकोऽद्वितीयः क्रमरहितमहासंविदात्मा महेशः ॥ ८॥
यज्ञस्थानं श्मशानं सकलमिति गृहं भास्वदोङ्कारपीठं
प्रादुर्भूतप्रयाणस्थलमिति विपुलं कल्पवृक्षाधिरूढैः ।
संवीतैर्भैरवैश्चोरगपतिगणपैस्तत्र दिव्यार्घ्यपात्रं
वह्निबध्नेन्दुक्लृप्तं परशिव सकलं व्यश्नुषे स्वात्मना त्वम् ॥ ९॥
चित्पूजा दृक्क्रियात्मा गुरुकथितमहारुद्रमूर्तिः समन्ता-
दात्मीयैरङ्गदेवैरधिगतविषयाज्याहुतिर्निर्विकल्पः ।
निष्कामैरात्मकामैरुपचितयजनश्चित्स्वतन्त्रैरतन्द्रै-
रात्माग्नौ ब्रह्मविद्यापरिणतमतिभिः श्रीविभो हूयसे त्वम् ॥ १०॥
द्वैतं यत्रानघेध्मं पशुरधिपिशितो मृत्युरक्षाणि जिह्वा-
हव्यं चाथ प्रबोधः प्रकटहुतवहो निर्मलात्मैव होता ।
अध्वर्युः स्वच्छचेतो गुरुमुखविदिता मातृकोद्गातृवर्गः
स्वाचार्यो देशिकेन्द्रः परमखमुगसि त्वं परः शम्भुरीशः ॥ ११॥
यागाश्चान्ये सकामैः पशुभिरिह कृताः सर्वसिद्धान्तकृत्याः
नानायज्ञक्रियाश्च त्रिभुवनभवने चित्रकर्मप्रसाराः ।
विश्वोत्पत्तिप्रतिष्ठाप्रहरणविधयः स्वक्रियाशक्तिबीजाः
सञ्जाताः सर्वतस्त्वं प्रभवसि मनसा चित्रनिर्माणमूर्ते ॥ १२॥
इति श्रीदूर्वासकृतपरशम्भुमहिम्नस्तवे
क्रियाशक्तिस्कन्धरश्मिप्रकरणं पञ्चमम् ॥ ५॥
६. षष्ठं प्रकरणं कुण्डलिनीशक्तिस्कन्धरश्मि
नित्या लुप्तात्मशक्तिः सकलतिथिफणापञ्चदश्या प्रदीप्त-
स्त्रुट्यादीन्कालवायून्ग्रसदुरुरसनश्चक्रवल्मीकवर्ती ।
सम्यक् चैतन्यगुम्फैरवगतकिरणो विश्वजृम्मैकभर्ता
कृष्णाध्वार्केन्दुयोनिर्भुजगपतितनुस्त्वं ततः कुण्डलीशः ॥ १॥
स्वस्थात्मा चित्तपूर्वं रविशशिपदवीं पूरितांशुप्रचारां
दीपान्तर्वह्निवेधैरविततगतिभिर्बोधिताधारशक्तिम् ।
तत्तच्चक्रप्रभेदोद्भवविविधमहाशब्दरूपामनन्त-
ब्रह्मानन्दप्रवाहामनुभवसि परामादिसौषुम्णमूर्ते ॥ २॥
यस्मात्प्राणः प्ररोहत्युपरिगतिरधः सम्प्रधावत्यपान-
स्तस्मादेवाविरोधात्तदुभयजनिकृद्वायुसंरोधमात्रात् ।
विद्याविद्यादियुग्मप्रसरसमरसाम्भोधिजृम्भैरदम्भैः
सार्धं हंसः परस्मिन्महसि खलु लयं प्रैति ते प्राणसूत्रः ॥ ३॥
सर्वेषामिन्द्रियाणां निजनिजविषयोद्योतनं यत्प्रसूतं
साराः सर्वेषु कर्मस्वनुपमविषयाः साध्वसानन्दकोपाः ।
यज्जाताः सर्वनाडीपथचलदनिलव्याप्तयः सर्वभावाः
नानारूपाश्च सर्वायनपथिकमहास्पन्दकः स त्वमेव ॥ ४॥
बुद्ध्वा सद्देशिकोक्त्या सुविदितविभवां खेचरीं दिव्यमुद्रा-
मर्थानन्तप्रपञ्चान्वितनिजकरणान्यात्मचित्ते निरुध्य ।
तच्चित्तं ज्योतिरङ्गं निरवधिकरणं चिन्तयेद्यः स योगी
निर्वाणः कृष्णवर्त्मा भवति तव महास्पन्दतामेत्य शम्भो ॥ ५॥
प्राणाख्या कुण्डलिन्या जगदिदमखिलं प्राणितं ते ययेश
ज्ञात्वा यां योगिनस्ते परतरमभयं यान्ति शान्तं पदं तत् ।
यामज्ञात्वा भवाब्धौ जननमरणकृत्क्रूरकर्मप्रबद्धा
मज्जन्त्याद्यन्तहीना यदि कृपयति सा मोचयेन्मृत्युबन्धात् ॥ ६॥
इति श्रीदूर्वासकृतपरशम्भुमहिम्नस्तवे
कुण्डलिनीशक्तिस्कन्धरश्मिप्रकरणं षष्ठम् ॥ ६॥
७. सप्तमं प्रकरणं मातृकाशक्तिस्कन्धरश्मि
अज्ञातं ब्रह्मतत्त्वं निजहृदयदरीलीनमात्मप्रकाशं
व्यक्तीकर्तुं स्वनित्याक्षरविदितमहामातृकात्वं प्रपन्नः ।
त्वं दिव्याम्नायविद्या सुविदितमहिमानन्तशक्तिप्रकाश-
स्तत्तद्वर्णात्मभेदैरुपदिशसि पदं श्रीगुरो स्वस्वरूपम् ॥ १॥
श्रीशब्दब्रह्ममूर्ते सकलरवमयानाहतध्वानभेदा-
नात्मीयानक्षरस्थान्बहुविधनिनदैर्भूरिवाद्यप्रभेदैः ।
भैरीनिः साणघण्टादरमुरजमहाशृङ्गनालोरुतालै-
र्वशैर्यन्त्रैश्च गात्रैर्जलधरपटलैस्त्वं ब्रवीषि ध्वनिज्ञः ॥ २॥
तत्त्वानां व्यक्तिहेतुः सकलतिथिगतः सप्तपुर्यष्टकाङ्ग-
स्त्रीपुंसद्वन्द्वरूपो द्युमणिशशिमहावह्निपादः षडात्मा ।
सर्वाभिप्रायसंवित्प्रकटितविभवस्त्वं महाम्नायविद्या-
सारस्फारस्वरूपः पुरुष इति ततः सोऽक्षरात्मादिवर्णः ॥ ३॥
रम्योदात्तानुदात्तस्वरितविकृतिगः प्रोच्चनीचोभयस्थो
भेदादष्टादशात्मा महितनिजमहास्फूर्तिरेकोऽक्षरादिः ।
षड्जादिग्रामजातश्रुतिविततलसद्गीतसप्तस्वरोद्य-
न्नानारागान्प्रबन्धानधिवसति भवानादिनित्यस्वरात्मन् ॥ ४॥
सर्वास्यस्थानवर्णः प्रथमविगणितस्त्वं स्तुतः षोडशीति
स्वेच्छाशक्त्या निरूढद्रढिमनिजमहाप्रौढिमाढौकमानः ।
कालव्यक्तस्त्रिलिङ्गिन्निजगतिविलयान्ह्रस्वदीर्घप्लुतादीन्
विद्याविद्योभयात्मा जनयसि परितः श्रीमहावर्णजात्मन् ॥ ५॥
पक्षद्वन्द्वैककर्तावनिजलहुतभुङ्मारुताकाशमूर्ते
श्रोत्राद्यक्षाणि सर्वाण्यधिगतचरणः स्वप्रकृत्या निबद्धः ।
अन्तस्थो विश्वरूपः पुरुष इति यतो ज्ञायसे स्वक्रमेण
ज्ञाता वर्गाक्षराणां परमशिव जनैस्त्वं ततो वर्गजोऽसि ॥ ६॥
सर्वातीतात्मधामानलनिलयपदज्ञापिका मन्त्रविद्याः
सत्याभिप्रायबुद्ध्या शिवगुरुवदनाम्भोरुहाद्भासमानाः ॥
नानार्था धातवश्च प्रकटितविभवाश्चित्रवाग्ब्रह्मवेदाः
सर्वं नश्यद्विना त्वां परशिव सहजं वर्णसंयोगरूपम् ॥ ७॥
ओङ्कारं स्वात्मवास श्रुतिभिरभिनुतं वाग्भवं शक्तिबीजं
माबीजं स्मारबीजं परतरविभवं मातृकाबीजयुग्मम् ।
शैवान्त्य चापि गत्वा षडयनविलसत्कूटषट्कं च भित्वा
हंसः सोऽहं तथा त्वं विरमसि मनसामन्तरे मन्त्रमूर्ते ॥ ८॥
बिन्द्वेन्दोरूर्ध्वनादैरवकलितकलाव्याप्तिभिः साधिदेवै-
र्नानानन्ताधिदेवैः परिणतिसुलभैः श्रीगुरूक्तागमस्थैः ।
न्यासैर्विद्याविशेषैः श्रुतिमुखविविधानेकसिद्धान्तमन्त्रैः
विष्वक्प्रोतप्रतीको दहसि भवमघं दुष्प्रभामन्त्रवह्नौ ॥ ९॥
वर्णास्ते मन्त्रविद्या दशविकरणगा धातवो नित्यशब्दाः
वाक्यान्याम्नायभेदा बहुविधमतजाः साङ्गवेदाश्च भाषाः ।
नानाच्छन्दांसि तालाः स्वरविकृतिगुणाः सर्वतो वाङ्मयस्थाः
नानारूपाः पराग्नेः समजनिषत ते मातृकाशक्तिबीजात् ॥ १०॥
इति श्रीदूर्वासकृतपरशम्भुमहिम्नस्तवे
मातृकाशक्तिस्कन्धरश्मिप्रकरणं सप्तमम् ॥ ७॥
८. अष्टमं प्रकरणं षडन्वयरश्मिविवेकस्कन्ध
एवं रात्रिन्दिवस्थाः परशिवघटिका एव ते रश्मिभूताः
स्त्रीपुंसद्वन्द्वरूपा रविशशिचरणाक्रान्तयो रक्तशुक्लाः ।
षट्छक्त्यंशप्रभेदा दहरपुरयुगे कोणषट्कान्तरस्थाः
कालावस्थाश्चतुर्भिः प्रविदधति युगैर्विश्वभूतैर्निदानैः ॥ १॥
षट्त्रिंशत्तत्त्वमालामवनिमुखशिवान्तामुपेतात्मवृत्तिं
खे वायौ सप्तविंशत्युडुगणविकृतीर्जीवमाया शिवांशात् ।
तेजस्थाः स्वान्तरात्मान्तरतनुविकृतीरस्थिमांसप्रमुख्याः
क्षोण्या त्वं जीवमायागुणगणमभितो भासयस्यंशुमालिन् ॥ २॥
यावन्तस्थे मयूखाः क्षितिजलदहनस्पर्शनाकाशचेतः
पीठस्थाः षट्प्रमाणाः परमधिपतयो भैरवा एव सर्वे ।
तेषां मध्ये त्वमेकः परतरमहिमोज्जृम्भमाणः प्रचण्डो
मार्तण्डो रश्मिमध्यस्थित इव परितो भासि चिद्भैरवाग्ने ॥ ३॥
भैरव्यो रश्मिदेव्यस्तव शिव करुणापूरिताक्षाः प्रसन्ना-
स्त्वत्सत्ताकाशवाहोदितनिजगतयश्चर्वितात्मार्थकृत्याः ।
तद्धामन्येव शान्ताः सुरमुनिपितृभिः पुण्यपापैश्च बद्धान्
भक्तांश्चानेकबाधाञ्झटिति विघटयन्त्यात्मबोधाग्निजृम्भैः ॥ ४॥
श्रीनाथ श्रीपरेशेश्वर परशिव ते दिव्यदिव्या मरीची-
र्ब्रह्मादीनां मनोवागनवगतमहाचित्रनानार्थरूढाः ।
गूढप्रौढप्रकाशाः सुरमुनिवचनैरप्यबुद्धाः कथं वा
स्तोतुं ज्ञातुं समर्थो भवति कविजनः कोऽत्र मन्दो नृमात्रः ॥ ५॥
इति श्रीदूर्वासकृतपरशम्भुमहिम्नस्तवे
साधारण्येन षडन्वयरश्मिविवेकस्कन्धप्रकरणमष्टमम् ॥ ८॥
९. नवमं प्रकरणं पावकध्यानयोग
साङ्गा भूमिः शताङ्गः शतधृतिरपि तत्सारथिः सप्तयस्ते
वेदा ब्रह्मैकवेद्याः पृथुतरचरणौ पुष्पवन्तौ तदक्षः ।
मरुस्तत्कीलबन्धः कमठपतिरिभास्तत्पृथुस्तम्भपङ्क्तिः
शेषस्तद्रज्जुबन्धस्तदुपरि पितृभूस्तत्र चिन्त्यो रथी त्वम् ॥ १॥
कल्पान्तानन्तसूर्यद्युतिमति विकटानेकदंष्ट्रं षडास्यं
वह्नीन्द्वर्काम्बुकाष्ठादशयुतमभितः प्रज्वलन्तं मयूखैः ।
शूलासीषूग्रशक्त्यङ्कुशवरनृशिरः श्रीफलेष्वासनारि
द्योतत्पाशाभयाङ्कैर्निजमुजपरिघैस्त्वां गुरुं शम्भुमीडे ॥ २॥
नागास्थीन्दुप्रसूतैः श्रवणगतमहाभूषणैः कुण्डलीन्द्रै-
राक्रोशन्मुण्डमालापरिवृतवपुषा दिक्षु जाज्वल्यमानम् ।
मत्तेभेन्द्रोरुकृत्त्यन्तरघटितकटीमण्डलं साट्टहासं
तं भास्वद्व्योमगर्भोदरविधृतकराङ्मुष्ठमात्रं प्रपद्ये ॥ ३॥
नागेन्द्रैः कल्पवृक्षैरधिगतविहगैर्भैरवैर्देवदैत्यैः
भूतैः प्रेतैः पिशाचैः परिवृतमभितो योगिनीभिः श्मशाने ।
सर्वप्रज्ञैकवासं त्रिभुवननिलयं स्वात्मनाध्यात्मदीप्तं
सर्वोत्तीर्णात्मतत्त्वेश्वरमनलमुखं त्वां गुरुं शम्भुमीडे ॥ ४॥
नानाध्यानात्मयोगप्रकटितशिवतासिद्धरूपप्रसादः
स्वेच्छाज्ञानक्रियात्मत्रिशिखविदलितत्रय्युदीर्णप्रमोहः ।
सत्यज्ञानासिभिन्नप्रमितिजनिरिपुः स्वात्मयोगेषु धारा-
च्छिन्नाविद्यासु लक्ष्यः परमशिव विभो तेन मृत्युञ्जयस्त्वम् ॥ ५॥
देव ब्रह्माण्डसृष्टिस्थितिलयसमयध्वंसिनी ते त्रिशक्ति-
र्मायाशक्तिप्रचण्डोद्घतघनकरिणी वारिणी सा सृणिस्ते ।
धर्मार्थात्मेष्टमुक्तिप्रवितरणचणस्ते वरस्तेऽप्यभीति-
र्विश्वग्रासोग्रमृत्युप्रतिभयदलिनी तद्भवान्मृत्युमृत्युः ॥ ६॥
पाशस्ते विश्ववश्यः पितृपतिकृतभिर्हस्तिनी-सिंहवृत्ति-
श्चक्रः संसाररात्रिद्युमणिसमुदयस्तावकस्ते पिनाकः ।
आक्रान्ताशेषमोहप्रकृतिविकृतिमहामातृकाचित्परात्मा
प्राणास्ते तत्कपालं हतविधिमुखसत्प्रेतचिद्रूपमीश ॥ ७॥
एवं ते दिव्यदिव्यायुधपरमहिमा गीयते वेदशास्त्रैः
प्रागुक्तस्ते शताङ्गोऽप्यपि च पितृगणप्रेतशीर्षोच्चरङ्गे ।
उच्चण्डं ताण्डवं ते त्रिभुवनभयकृद्वज्रपाताट्टहासो
भीषास्मात्त्वत्सकाशादपार इव परो नास्ति तेनोग्रवीरः ॥ ८॥
चित्ताकाशानिलाग्न्यम्ब्ववनितलपतिप्रेतसिंहासनस्थः
षट्च्छक्तिव्यक्तमूर्तिः षडयनपथिकः सोमसूर्याग्निपादः ।
ब्रह्माग्निः सप्तजिह्वाकबलितविषयीभूतविश्वप्रपञ्च-
स्थूलोऽपि ध्यानदृष्टेस्त्वमधिकतमसां ज्योतिषामप्यगम्यः ॥ ९॥
इत्युक्तध्यानचिन्त्योऽप्यनवगतमनोवाक्प्रवृत्तिस्वभावः
स्वच्छन्दात्मीयसत्ता चिदुचितविभवः पावकः शम्भुरूपः ।
सर्वातीतस्वभावोऽप्युपनिषदुदितज्ञानमीमांस्यमानः
सत्वं यस्यान्तरङ्गे निवससि स शिवस्त्वन्मयः स्यान्महेश ॥ १०॥
श्रीमानप्यादिभिक्षुस्त्रिभुवनजनकोऽप्यात्मभूरागमोक्ति-
व्याख्यावेद्योऽप्यवाचः प्रकृतिसुविमलोऽप्यात्ममायाविलासः ।
तत्त्वादेकोऽप्यनेकः परयुवतिरतोऽप्यात्मवित्सेव्यमानः
तस्मात्स्वच्छन्दलीलस्त्वमिह विजयसे मानसीं भाववृत्तिम् ॥ ११॥
इति श्रीदूर्वासकृतपरशम्भुमहिम्नस्तवे पावकध्यानयोगप्रकरणं
नवमम् ॥ ९॥
१०. दशमं प्रकरणं महाविभूति
द्रष्टव्यस्त्वं जगद्भिर्बहुविधविधिभिः सर्वसिद्धान्तवाक्यैः
श्रोतव्यो निर्विकल्पः शिवगुरुवदनाम्भोरुहेण प्रबुद्धः ।
मन्तव्यः सर्वतत्त्वावकलितचरणस्तन्निदध्यासितव्यः
सत्तामानावलम्बीत्यमरनुतपदो नास्ति देवस्त्वदन्य ॥ १॥
उग्रं शान्तं च वीरं सकलमयमहाविष्णुमग्निं ज्वलन्तं
सर्वत्रानन्तवक्त्रं नरमृगवपुषं भीषणं सर्वभद्रम् ।
सर्वज्ञं मृत्युमृत्युं बहुविधनुतिभिर्वन्दितं सर्वलोकैः
विश्वाहङ्कारजृम्भं परमशिव गुरुं त्वां भजे मन्त्रराजम् ॥ २॥
शम्भो त्वां भूर्भुवःस्वर्महरुदिततनुं त्वन्तरिक्षद्युसूर्या-
रज्ञाचार्येन्दुशुक्रार्किभिरपि निगमब्रह्मभिः प्रोतशक्तिम् ।
प्राणापानादिभेदैः कलयति सकलं मानसं ध्यानयोगं
येषां तेषां सपर्या भवति सुरकृतब्रह्मता योगिता च ॥ ३॥
सर्वोत्कृष्टं परं तत्सवितुरनुपमं ते वरेण्यं शरण्यं
भर्गो देवस्य धीमह्यभिदधति धियो यो न इत्यौर्वतेजः ।
तुर्यं सर्वाणिभूतान्यधिगतममलं सर्वतो दृक्क्रमाद्यं
ध्यायामि ध्येयमन्तःकरणसुनियतैर्योगिभिः श्रीमहेश ॥ ४॥
कालोऽनन्तो युगात्मा शिव दिवसनिशापक्षमासास्तथाब्दाः
तद्भेदाः षडृतुस्थास्तदनुगतजगत्सर्ववृत्तान्तभेदाः ।
नानायज्ञक्रियाश्च त्रिदशदितिसुता मानुषाः सर्वनागाः
योगीन्द्रा जीवसङ्घास्तव चरणबिलं यान्ति जन्मान्तमध्यात् ॥ ५॥
भूतं भव्यं भविष्यत्त्रिभुवनभवने षण्महाशक्तिभिस्त्वं
तत्सर्वं व्यश्नुवानो विचरसि कलितः सृष्टिगत्यन्तकामैः ।
देवैर्दैत्येर्मनुष्यैरुरगपतिकुलैः सर्वजीवप्रसारै-
रात्मीयैश्चित्रिताङ्गः शिव भवतमसः सूर्यभास्त्वं परस्तात् ॥ ६॥
श्रोता स्पर्शी निजरसरसिकः सर्वगन्धान्तरज्ञो
वक्ता कर्ता च गन्ता त्रिभुवन भवतो विश्वसर्गः प्रमोदी ।
कामी मीमांसकश्च प्रथितशुचिशिखासप्तकव्याप्तविश्वो
बोद्धा स्वार्थाननन्तानधिगतचरणः सर्वतस्त्वं शिवोऽसि ॥ ७॥
सर्वार्थी सर्वनामा सकलकुलपतिः सर्वलोकाङ्गनेशः
शृङ्गारी सर्वभोगी नवरसररसिकः प्राज्यसाम्राज्यभोक्ता ।
त्रैलोक्ये वाक्प्रपञ्चे प्रवचनपठितः सोमयाजी च यज्ञः
संसारी कामचारीत्यनुवदति जनो यः स धन्यः शिव त्वाम् ॥ ८॥
क्षेत्रं क्षेत्रप्रमाता शिवगुरुवदनाघोरविद्याधिदेवो
मन्त्रो मन्त्राधिदेवो मखविधिरनघो योगयोग्यः पदार्थः ।
त्वं दर्शः पूर्णमासः परिधिरपि मखाचार्यवर्यश्च होतो-
द्गाताध्वर्युश्च हव्यं त्रिविधहुतवहस्त्वां विना नास्ति शम्भो ॥ ९॥
क्षेत्रज्ञाः सर्वदेवाः सुरनरभुजगाः सर्वजीवाश्च तच्च
क्षेत्रं ब्रह्माण्डरूपं त्रिभुवनभुवनव्यापकं चित्ररूपम् ।
एतावद्व्याप्य तत्र स्थितमखिलजगद्भक्तभोक्तारमग्निं
ज्ञात्वा षट्च्छक्तिभिस्त्वां परमशिव महामृत्युमत्येति विद्वान् ॥ १०॥
उक्तक्षेत्राधिदेवे परतरपुरुषे त्वय्यनन्तस्वरूपे
दिव्याम्नाया गुरूक्ता निजनिजनियतिस्फूर्तयः सर्ववेदाः ।
साङ्गोपाङ्गाश्च शास्त्राण्यधिगतमहिमान्योन्यसिद्धान्तविद्या
भाषा स्वार्थैर्विभान्ति त्रिणयन भवतो विश्वमूर्ते परः कः ॥ ११॥
मूलं व्योमैव वायुज्वलनजलधरा मध्यमं यस्य शाखा
देवाः पर्णानि दैत्याः किसलयनिचयाः मानुषाश्च प्रतानाः ।
नागाः पुष्पाणि जीवा बहुविधतनवो पक्वसस्यप्रबोधो
विश्वन्यग्रोधकद्रोः परमशिव भवान् बीजभूतो विभाति ॥ १२॥
मायारूपेण कालो जननमरणकृत्सर्वजीवाङ्गवृत्ते-
र्विद्यारूपेण कालान्तक इति विनुतः स त्वमेवापरो न ।
देहाहङ्कार एवान्तक इति गुरुणा यः प्रविज्ञाय मायां
जागर्त्यात्मप्रबोधे शिव तव कृपया सोऽत्र मृत्युञ्जयः स्यात् ॥ १३॥
त्वं नाथस्त्वं गुरुस्त्वं परपदजनिताम्नायविद्यार्थकोश-
स्त्वं शम्भुस्त्वं परेशः परतरमहिमा त्वे परा त्वं पराग्निः ।
त्वं भानुस्त्वं सुधांषुस्त्वमपि च जननी त्वं पिता त्वं सुमित्र-
स्त्वं भ्राता बान्धवस्त्वं त्वमसि धननिधिस्त्वां विना नास्ति मेऽन्यः ॥ १४॥
शब्दार्थाधारभूतं त्रिभुवनजनकं सर्वतो दिक्सतत्त्वं
त्रैलोक्यस्थायि लिङ्गत्रयविदितपदं सर्वतत्त्वैकवेद्यम् ।
सर्वानिर्वाच्यसत्तागतपरविभवज्योतिरुज्जृम्भमाणं
व्यक्तीकृत्यात्मवर्णैः प्रकटयसि परं तत्त्वमात्मीयमग्रे ॥ १५॥
त्वं विश्वं विश्वहेतुर्विरहित करणे विश्वकार्यैककर्ता
विश्वातीतश्च विश्वेश्वर इति बहुधा निश्चितश्चाक्षरज्ञैः ।
अद्वैतात्मप्रबोधानलबहुलशिखाचर्वितत्मीयहव्यः
श्रीशम्भो विश्वसत्ता परतरवियति पैषि निर्वाणपूजाम् ॥ १६॥
एवं यः स्तौति भूतिं त्रिभुवनमहतीं विष्वगाश्चर्यचर्या-
मन्तर्बाह्यागमोक्तिप्रविनुतविभवामादिमध्यान्तहीनाम् ।
सौम्योग्राकारदेवासुरनरभुजगानेकजीवप्रभेदो-
त्पत्तिस्थित्यन्तभूमिः स भवति जगदाश्चर्यवानेव शम्भो ॥ १७॥
इति श्रीदूर्वासकृतपरशम्भुमहिम्नस्तवे
महाविभूतिप्रकरणं दशमम् ॥ १०॥
११. एकादशं प्रकरणं अन्तर्यागोपाचारपरामर्श
का पूजा पूजकः कः शिवगुरुरिति कः को विधिः कश्च मन्त्रः
किं पीठं किं प्रसूनं किममलसलिलं केऽत्र सर्वोपचाराः ।
निर्द्वन्द्वस्यात्मनस्ते द्वयमिति रचितं सर्वमेतत्कथं स्या-
त्सन्तोषार्थे महेश त्रिकरणविमलज्ञानपूजाप्रसन्नाः ॥ १॥
त्रैकाल्यं सर्वतस्ते सकलजगदिदं व्यश्नुवानात्मसत्ता-
विस्फूर्तेरष्टमूर्तेरखिलजनमनःप्रोच्यसिंहासनस्य ।
कस्मादावाहनं स्याद्बहिरिह चरितं क्वासनं चन्द्रमौले-
र्माया संसारभावो रचयति नितरामात्मभोगाय भेदम् ॥ २॥
आधारोऽग्निः सुपात्रं रविरमृतकलानायकः पूर्णमद्यं
शक्तीशस्त्वं प्रपूज्यः षडवयवयुतस्तत्र पात्रप्रवर्गे ।
पाद्यं ते तर्पणं च प्रभवति समुदे बाह्ययागार्घ्यपात्रैः
सन्तुष्टः स्याः कथं त्वं परशिव विमलज्ञानदुग्धाब्धिशायिन् ॥ ३॥
भास्वच्चन्द्राग्निबिम्बोदितविमलशिवज्ञाननित्यप्रमोद-
ज्ञानानन्दप्रवाहास्त्रिगुणितसरितो मुख्यनाडीत्रयस्थाः ।
कालिन्दीजह्नुकन्यान्तरसरिदभिधास्ते तनुस्नानकृत्ये
सृष्टा हृल्लिङ्गमूर्तेः कथमितरजलैः स्यात्तव स्नानमत्र ॥ ४॥
लज्जारागादिमायातिमिरदिनकरीभूतचेतःप्रबोध-
ज्योतिःपुञ्जप्रवृत्तेर्गतभवतमसो दिक्पटालङ्कृतस्य ।
प्रज्ञायज्ञोपवीतैरुपचितवपुषः प्रेतभस्माङ्गराग-
स्यान्ये मिथ्योपचारास्तव वसनमहासूत्रबन्धानुलेपाः ॥ ५॥
सर्वाहिंसेन्द्रियाश्वद्रुतगतिशमनं सर्वभूतानुकम्पा-
शान्तिः सत्यं प्रबोधो गुरुकथिततपो निश्चलध्यानदृष्टिः ।
श्रद्धाभक्तिश्च नित्यं निजविषयपरित्यागिता निःस्पृहत्वं
संवित्पूज्येति पुष्पाण्यमल शिव भवत्पूजनाय क्रियन्ते ॥ ६॥
ब्राह्म्याद्या मातरोऽष्टौ स्वविषयकुसुमैरात्मभावप्रसूनैः
योगिन्यः शक्तयस्ते निजनिजमहिमस्फूर्तिसन्मञ्जरीभिः ।
त्वद्भावं भावयद्भिस्तव किरणमहाभैरवैरात्तसङ्गा-
स्त्वां श्रीचिद्भैरवेशं परमशिवगुरुं पूजयन्ति स्मरन्त्यः ॥ ७॥
सद्विद्याङ्गारमध्यार्पितसततमहावासनाभ्यासधूपैः
श्रीमद्वक्त्रारविन्दोदितसकलकुलाम्नायबोधप्रदीपैः ।
सर्वाक्षार्थान्नभेदैरुपरचितमहादिव्यनैवेद्यपानै-
राराध्यो योगिभिस्त्वं कथमितरकृतैस्तोष्यसे श्रीपरेश ॥ ८॥
इति श्रीदूर्वासुकृतपरशम्भुमहिम्नस्तवे
अन्तर्यागोपाचारपरामर्शप्रकरणमेकादशम् ॥ ११॥
१२. द्वादशं प्रकरणं शान्ति
विद्या नानाविभूषा मृगमदघनसारादिसौरभ्यवस्तु-
प्रोतश्रीचन्दनानि प्रविकचकुसुमान्यद्भुतान्यम्बराणि ।
नानामोदाश्च धूपाः क्रमुकशकलवद्वीटिकाः पानभेदाः
नानापात्राणि भूम्याः परशिव भवतः पूजनाय क्रियन्ते ॥ १॥
सप्तैते मन्दलस्थाश्चरुजलनिधयो दिव्यनैवेद्यराशी-
न्नानापक्वान्नभेदान्विविधपिषितवच्छाकनानोपदंषान् ।
भक्ष्यं भोज्यं च चोष्यं विविधशषिसुधास्वादवद्वस्तुलेह्यं
हालादध्याज्यदुग्धान्यपि विदधति ते सूपहाराय शम्भो ॥ २॥
मन्त्राकारैः प्रदीपैर्दहनरविकलानाथनक्षत्रमाला-
विद्युन्माणिक्यमुक्तारजतकनकधात्वादिनानाप्रकाशैः ।
युष्मन्नीराजनायै विरचितरचनः स्वप्रकाशादिमूर्तिं
सर्वानन्दात्मरूपं परमशिवगुरुं भासयत्यौर्वतेजाः ॥ ३॥
मुद्रा नानार्थपोषानतिपथचलितानेष्टयोगांश्च नाट्यं
तीर्थाक्रान्तिं प्रणामं निजकरणगतिं सर्वसिद्धान्तवाचः ।
कर्माज्ञानप्रवाहान्व्यजनमपि महाचामराण्यातपत्रं
हस्त्यश्वादीन्रथांस्ते परशिवचरणाध्यास्य दास्यं विधत्ते ॥ ४॥
आकाशः शब्दभेदैः प्रलयजलधरामन्ददम्भोलिजृम्भै-
र्भेरीनिःसाणवाद्यैर्दरनिकररवैर्भूरिघण्टानिनादैः ।
तालैर्नादैर्मृदङ्गैर्मुरजडमरुकैर्गीतसद्वल्लकीभिः
सर्वैर्वाद्यप्रभेदध्वनिभिरिह विभो नाथ पूजां करोति ॥ ५॥
शाम्भव्यो रश्मिदेव्यः समरसमुदिता मातृकावर्णरूपा
भास्वन्तो भैरवाष्टा अपि सरसकलापानमत्ताः क्रमस्थाः ।
वेदान्तैरागमान्तैरभिदधति परं शाम्भवं वैभवं ते
सर्वानिर्वाच्यसत्तावियदुदितपदं श्रीविभो विश्वमूर्ते ॥ ६॥
योगिन्यः क्षेत्रपालाः सरसमधुमदावेदशास्त्रार्थतत्त्व-
व्याख्यानध्यानवक्त्राः पितृवनदशदिग्वृक्षगा भैरवाश्च ।
सौधास्वादप्रमत्ताः प्रकटितविकटाटोपसिंहाट्टहासाः
स्वस्वव्यापारपुष्पैः परमशिवगुरुं त्वां विभो पूजयन्ति ॥ ७॥
भूताः प्रेताः पिशाचाः स्वविकृतिविभवैः प्राप्तबीभत्सवेषा
योगिन्यस्ते श्मशानावरणगतमहादेवता भासयन्ति ।-
देवास्ते पूर्वदेवा मधुरसमुदिता विस्मयाविष्टचित्ताः
शान्ता ध्यायन्ति गायन्त्यपि परमशिव त्वां मुदोपासते च ॥ ८॥
ब्रह्मा वेदोक्तिगानैर्हरिरपि कमलैस्ताण्डवैश्चण्डरुद्रा-
स्तौर्यत्रय्या महेन्द्रो निजनिजविषयैरन्यदिक्पालदेवाः ।
सिद्धाः सर्वे मुनीन्द्रा स्तुतिनुतिवचनैः सर्वदुर्गागणेशा
नृत्त्यैर्वाद्यप्रभेदैर्विदधति सुमुदं ते महादेव शम्भो ॥ ९॥
सन्तप्तः प्रेतसिंहासनविहितमहाभैरवः शाम्भवाग्निः
पञ्चाशद्विस्फुलिङ्गाक्षरविदितपराघोरविद्योग्रतेजाः ।
सत्यान्तर्यज्ञदेवस्त्रिभुवनहविषा तोषितात्मीयरश्मि-
र्वागर्थव्यक्तभावात्सङ्कलमिह तनुं व्यश्नुवानो विभाति ॥ १०॥
सर्वज्ञानैकभूमिस्त्रिभुवनकरवीराख्यशून्यश्मशान-
ज्ञानाकूपारपूरश्रुतमुखबहुविच्छास्त्रबोधोदवाहान् ।
प्रज्ञां गाम्भीर्यगर्वात्ग्रसति रविरिव स्वप्रकाशात्प्रकाशा-
नन्यानिन्दूडुमुख्यान्निबिडतररुचिर्ध्वान्तपूरांस्तवाग्निः ॥ ११॥
श्रीशम्भो विश्वमूर्ते परमशिव गुरो नाथ विश्वेश्वरात्म-
न्नेषाशेषार्थवद्वाक्प्रसवविरचिता स्रग्धरावृत्तपूजा ।
त्वय्येव ज्ञानवह्नौ हुतवहरसने संहता मुक्तये मे
भूयादागः क्षमस्व प्रवचनपठितः श्रीविभो मे प्रसीद ॥ १२॥
इति श्रीदूर्वासकृतपरशम्भुमहिम्नस्तवे विशेषोपचारपरामर्शे
शान्तिप्रकरणं द्वादशम् ॥ १२॥
१३. त्रयोदशं प्रकरणं उपसंहार
इति तव कृपादोग्ध्री पूजा सुभक्तिस्रुतामृता
जननमरणप्रादुर्भावप्रभेदपटीयसी ।
जनयति मुदं ब्रह्मानन्दप्रवाहतरङ्गिणीं
दहति विपदः पुण्यं पापं दुरन्तभवाटवीम् ॥ १॥
परशिव मम जन्म धन्यमेत-
त्तव महिमस्तुतिमोचितो यतोऽहम् ।
कुलमिदमखिलं द्विधा विभिन्नं
परमपदं गतमेव ते प्रसादात् ॥ २॥
हतो मायामृत्युर्गुरुवचनखड्गेन मनसः
प्रभिन्नं मालिन्यं व्यपहतमहङ्कारतिमिरम् ।
हता मे कामाद्याः प्रबलरिपवः स्वात्मविषयाः
महेश त्वत्सेवाविदितसुविवेकाग्निमहसा ॥ ३॥
जातिर्लज्जा निजकुलमदः सर्वसंशीतिराधि-
र्देहाहन्तासुकृतदुरितद्वन्द्वपाशोऽभिमानः ।
सर्वे ह्येते मम विनिहतास्त्वन्महावाक्यसूर्य-
ज्योतिःपुञ्जैः किमपरमहं देव भद्रं समीहे ॥ ४॥
मद्विद्याभ्यसनमभूदिहैव सार्थं सान्निध्यात्तव च तदुक्तिचरस्य ।
अद्य त्वं त्रिभुवनवाङ्मनस्यलभ्यो निर्बाधः सकलपथैकगम्यमूर्ते ॥ ५॥
श्रुतिस्मृतिमिथःपथे प्रचलितोऽहमेकान्ततः
प्रभोः शिवगुरोः तव त्रिजगदुन्नताज्ञां गतः ।
भजामि परपावकं त्रिजगदात्महव्याशिनं
भवन्तमधिदैवतं भववने ज्वलन्तं स्वतः ॥ ६॥
ब्रह्मत्वं सुरनायकत्वमखिलं क्षोणीपतित्वं लस-
द्ब्राह्मण्यं सुरयक्षनागपितृता गन्धर्वता सिद्धता ।
एतत्सर्वमनित्यमेव गणितं नाहं समीहे सुखं
किं तु त्वेत्पदपद्मनिश्चलतरध्यानं समीहे विभो ॥ ७॥
सम्प्राप्ता कृतकृत्यता सफलता वाचां तव स्तोत्रता
मृत्योरप्रमितैश्च मृत्युरभवद्वश्यं गत त्वत्पदम् ।
संसारानवधिप्रचण्डजलधिस्तीर्णः प्रमोहो हतः
पुण्यं पापमगाद्विनाशमिह मे प्राप्तः प्रबोधो विभो ॥ ८॥
इति परशिवशम्भोऽनन्तकान्ते महिम्न-
स्तवविरचितमेतत्स्तोत्रमात्मोक्तिशक्त्या ।
प्रभवतु सुमुदे ते त्वं मम स्वान्तवर्ती
भव भवगतदुःखं छिन्धि चागः क्षमस्व ॥ ९॥
यावांस्ते जीवलोकः परशिवचतुराशीतिलक्षैकसङ्ख्य-
स्तत्तत्कर्मप्रभेदोपगतजनिमृती घोरसंसारचक्रे ।
सृष्टिस्थित्यन्तवृत्तिं भजति निरवधित्वत्पदध्यानहीनो
दृष्ट्वैनं भीतभीतं शरणमुपगतं त्राहि मां देव मृत्योः ॥ १०॥
दुर्वासाः सत्यवासाः कनकगिरिरह कन्दरे मे हृदाख्ये
श्लोकाश्चैते मृगेन्द्राः पदनखदशनाः शाम्भवास्त्रैकवीर्याः ।
मायाध्वान्तेभयूथप्रदलनपटवो ब्रह्मावद्याटवीस्थाः
वक्तॄञ्श्रोतॄन्प्रमातॄन्निजहृदयगुहाब्रह्मसत्तां नयन्ति ॥ ११॥
भूष्यं वैदुष्यमुद्यद्दिनकरकिरणाकारमाकारतेजः
प्रज्ञानं भूरिमानं निजकरकलितं दुर्गमं योगमार्गम् ।
आयुष्यं ब्रह्मपोष्यं हरगिरिविशदां कीर्तिमभ्येत्य भूमौ
देहान्ते ब्रह्मपारं परशिवचरणाकारमभ्येत्य विद्वान् ॥ १२॥
ये श्रीशाम्भवशासने कृतधियः श्रीशासने कर्मठाः
श्रौतस्मार्तविधिष्वमन्दमतयः सत्यव्रता ब्राह्मणाः ।
विद्वांसः सकलागमेषु च कलाविद्यासु ते शाम्भव-
ब्रह्मप्राप्तिमवाप्नुवन्ति पठनाच्छम्भोर्महिम्नस्तुतेः ॥ १३॥
स्तोत्रं चैतत्पटेद्यः शिवगुरुवदनाघोरविद्यात्तदीक्षः
सत्यज्ञानप्रकाशात्प्रबलभवरिपुं पुण्यपापाद्यविद्याम् ।
भित्वा मुक्तो विकल्पस्त्रिजगति महितं सौख्यमात्मप्रबोधं
तेजः कीर्तिं च लक्ष्मीमभिलषितपदं व्यश्नुते स्तोत्रवीरः ॥ १४॥
महिम्नस्तोत्रस्य त्रिभवनगुरोर्यो जपरतः
पराशक्तेस्तत्त्वं परशिवपदं वेत्ति स बुधः ।
अगाधं गाम्भीर्यं स्तुतिगतमनन्तप्रमितिजं
समस्ताः सिद्धीरप्यनुभवति गच्छेत्परपदम् ॥ १५॥
श्रीक्रोधभट्टारकदिव्यनाम्ना दुर्वाससा सूक्तमहामहिम्नः ।
स्तोत्रं पठेद्यो भुवनाधिपत्यं नित्यं गुरुत्वं शिवतामुपैति ॥ १६॥
महेशान्नापरो देवो महिम्नो नापरा स्तुतिः ।
अघोरान्नापरो मन्त्रो नास्ति तत्त्वं गुरोः परम् ॥ १७॥
सदसदनुग्रहनिग्रहगृहीतमुनिविग्रहो भगवान् ।
सर्वासामुपनिषदां दुर्वासा जयति देशिकः प्रथमः ॥ १८॥
श्रीगुरुकरुणालक्ष्यो यः कोऽप्यात्मविदनुगृहीतिपरः ।
परशम्भुस्तुतिबोधो जगदाधारो भवेत्सदा धीरम् ॥ १९॥
परशम्भोस्तव पद्यं रविप्रकरणं पठंस्त्रिकालेऽपि ।
रविरिव जगत्प्रकाशमतिचातुर्याज्जगद्गुरुर्भवति ॥ २०॥
तस्मात्स्मृतिमतिबुद्धिप्रज्ञावानात्मविन्महादेवः ।
परशम्भोस्तव हृदयं सत्पात्रेषु प्रकाशयेत्सदयम् ॥ २१॥
इति श्रीदूर्वासकृतपरशम्भुमहिम्नस्तवे
उपसंहारप्रकरणं त्रयोदशम् ॥ १३॥
इति श्रीक्रोधभट्टारकापरनाम्ना महामहिम्ना दुर्वाससा मुनीश्वरेण
विरचितपरशम्भुमहिम्नस्तवः सम्पूर्णः ॥
Encoded and proofread by Sunder Hattangadi