परशुरामकृतं १ शिवस्तोत्रम्
(परशु)राम उवाच ।
नमस्ते देवदेवाय शङ्करायादिमूर्त्तये ।
नमः शर्वाय शान्ताय शाश्वताय नमो नमः ॥ २, २४.२५॥
नमस्ते नीलकण्ठाय नीललोहितमूर्त्तये ।
नमस्ते भूतनाथाय भूतवासाय ते नमः ॥ २, २४.२६॥
व्यक्ताव्यक्तस्वरूपाय महादेवाय मीढुषे ।
शिवाय बहुरूपाय त्रिनेत्राय नमो नमः ॥ २, २४.२७॥
शरणं भव मे शर्व त्वद्भक्तस्य जगत्पते ।
भूयोऽनन्याश्रयाणां तु त्वमेव हि परायणम् ॥ २, २४.२८॥
यन्मयापकृतं देव दुरुक्तं वापि शङ्कर ।
अजानता त्वां भगवन्मम तत्क्षन्तुमर्हसि ॥ २, २४.२९॥
अनन्यवेद्यरूपस्य सद्भावमिह कः पुमान् ।
त्वामृते तव सर्वेश सम्यक्शक्नोति वेदितुम् ॥ २, २४.३०॥
तस्मात्त्वं सर्वभावेन प्रसीद मम शङ्कर ।
नान्यास्ति मे गतिस्तुभ्यं नमो भूयो नमो नमः ॥ २, २४.३१॥
इति ब्रह्माण्डपुराणे मध्यभागे चतुर्विंशाध्यायान्तर्गतं
(परशु)रामकृतं शिवस्तोत्रं समाप्तम् ।
ब्रह्माण्डपुराण । मध्यभाग । उपोद्धात । अध्याय २४/२५-३१॥
brahmANDapurANa . madhyabhAga . upoddhAta . adhyAya 24/25-31..
Proofread by PSA Easwaran