परशुरामकृतं ३ शिवस्तोत्रम्
राम उवाच ।
नमस्ये शिवमीशानं विभुं व्यापकमव्ययम् ।
भुजङ्गभूषणं चोग्रं नृकपालस्रगुज्ज्वलम् ॥ २, ३२.२५॥
यो विभुः सर्वलोकानां सृष्टिस्थितिविनाशकृत् ।
ब्रह्मादिरूपधृग्ज्येष्ठस्तं त्वां वेद कृपार्णवम् ॥ २, ३२.२६॥
वेदा न शक्ता यं स्तोतुमवाङ्मनसगोचरम् ।
ज्ञानबुद्ध्योरसाध्यं च निराकारं नमाम्यहम् ॥ २, ३२.२७॥
शक्रादयः सुरगणा ऋषयो मनवोऽसुराः ।
न यं विदुर्यथातत्त्वं तं नमामि परात्परम् ॥ २, ३२.२८॥
यस्यांशांशेन सृजयन्ते लोकाः सर्वे चराचराः ।
लीयन्ते च पुनर्यस्मिंस्तं नमामि जगन्मयम् ॥ २, ३२.२९॥
यस्येषत्कोपसम्भूतो हुताशो दहतेऽखिलम् ।
सोर्द्ध्वलोकं सपातालं तं नमामि हरं परम् ॥ २, ३२.३०॥
पृथ्वीपवनवह्न्यम्भोनभोयज्वेन्दुभास्कराः ।
मूर्त्तयोऽष्टौ जगत्पूज्यास्तं यज्ञं प्रणमाम्यहम् ॥ २, ३२.३१॥
यः कालरूपो जगदादिकर्त्ता पाता पृथग्रूपधरो जगन्मयः ।
हर्त्ता पुना रुद्रवपुस्तथान्ते तं कालरूपं शरणं प्रपद्ये ॥ २, ३२.३२॥
इति ब्रह्माण्डपुराणे मध्यभागे द्वात्रिंशाध्यायान्तर्गतं
परशुरामकृतं शिवस्तोत्रं समाप्तम् ।
ब्रह्माण्डपुराण । मध्यभाग । उपोद्धात । अध्याय ३२/२५-३२॥
brahmANDapurANa . madhyabhAga . upoddhAta . adhyAya 32/25-32..
Proofread by PSA Easwaran