पौष्यमासकृते शिवशताष्टनामस्तोत्रम् मास १०
(शिवरहस्यान्तर्गते महादेवाख्ये)
- शिवगौरीसंवादे -
ॐ पञ्चाशच्छक्तिरूपाय पञ्चाशच्छक्तिमूर्तये ॥ ६३॥
आत्मतत्त्ववरिष्ठाय विद्यातत्त्वाय ते नमः ।
शिवाय शिवतत्त्वाय अघोराय नमो नमः ॥ ६४॥
अघोराष्टाख्यतत्त्वाय द्वादशात्मस्वरूपिणे ।
षट्प्रकाराख्यतत्त्वाय स्वशक्तिविहितात्मने ॥ ६५॥
अनिर्देश्याय तत्त्वाय विद्युल्लयविरूपिणे ।
विद्युदुत्कृष्टरूपाय कामाय वरदाय च ॥ ६६॥
त्रिमात्रायामिताक्षाय अकाराय नमोनमः ।
द्वात्रिंशत्तत्त्वरूपाय उकाराय नमो नमः ॥ ६७॥
षोडशात्मस्वरूपाय उकाराय ? नमो नमः ।
अष्टधात्मस्वरूपाय यकाराय नमो नमः ॥ ६८॥
अष्टक्षेत्राष्टरूपाय परापररताय च ।
सहस्रशिरसे तुभ्यं सहस्राक्षाय ते नमः ॥ ६९॥
सहस्रपादयुक्ताय शर्वाय परमेष्ठिने ।
नत्वात्मशक्तिं रूपाय त्विषीणां पतये नमः ॥ ७०॥
पुनरष्टप्रकाराय तथाष्टाष्टकमूर्तये ।
चतुः षष्ट्यात्मतत्त्वाय पुनरष्टविधात्मने ॥ ७१॥
गुणाष्टकप्रधानाय गुणिने निर्गुणात्मने ।
मूलस्थाय नमस्तुभ्यं शाश्वतस्थानवासिने ॥ ७२॥
नाभिमण्डलसंस्थाय हृदिनिःस्वनकारिणे ।
कण्ठदेशस्थितायैव तालषष्ठस्थिताय च ॥ ७३ ॥ (? तालुपृष्ठस्थिताय)
भ्रूमध्ये संस्थितायैव नादमध्यस्थिताय च ।
चन्द्रबिम्बस्थितायैव शिवाय शिवदेहिने ॥ ७४॥
वह्निसोमार्करूपाय त्रिंशच्छक्तिस्वरूपिणे ।
त्रिमात्रप्रणवायाथ त्रिधामस्थितये नमः ॥ ७५॥
सदाशिवाय शान्ताय महेशाय पिनाकिने ।
सर्वज्ञाय शरण्याय सद्योजाताय ते नमः ॥ ७६॥
अघोराय नमस्तुभ्यं वामदेवाय ते नमः ।
तत्पूर्षाय नमस्तुभ्यमीशानाय नमोनमः ॥ ७७॥
अनन्तेशाय सूक्ष्माय उतपाय नमोनमः ।
एकाक्षाय नमस्तुभ्यमेकरुद्राय ते नमः ॥ ७८॥
नमस्त्रिमूर्तये तुभ्यं श्रीकण्ठाय शिखण्डिने ।
अनन्तासनसंस्थाय सर्वदाय गदाभृते ॥ ७९॥
विमलाय विशालाय विमलाङ्गाय ते नमः ।
वेदागमार्थरूपाय योगसाङ्ख्यरताय च ॥ ८०॥
योगसंस्थाय दिव्याय योगिने योगदायिने ।
समस्तशोकसंहर्त्रे दृग्दृश्यातीततेजसे ॥ ८१॥
प्रत्याहाराय शुद्धाय यमाय नियमाय च ।
ध्यानध्येयाय दूराय निर्व्यापाराय ते नमः ॥ ८२॥
अलिङ्गिने च लिङ्गाय लिङ्गस्थानाय ते नमः ।
- -
एतन्नामभिरेवेशि पौष्ये सम्पूजयेच्छिवम् ॥ ८३॥
॥ इति शिवरहस्यान्तर्गते ईश्वरप्रोक्तं पौष्यमासकृते शिवशताष्टनामस्तोत्रं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । महादेवाख्यः एकादशमांशः । अध्यायः २३ पौष्यमासार्चनम् । ६३.२-८३॥
- .. shrIshivarahasyam . mahAdevAkhyaH ekAdashamAMshaH . adhyAyaH 23 pauShyamAsArchanam . 63.2-83..
Notes:
Śiva शिव delivers to Devī देवी; Pauṣyamāsakṛte ŚivaŚatāṣṭanāmaStotram पौष्यमासकृते शिवशताष्टनामस्तोत्रम् comprising of 108 Names १०८ नामानि of Śiva शिव while detailing about His Worship during the Pauṣya māsa पौष्य मास.
The count from the source text comes to less than 108 though. Perhaps there are/were meant to be more Śloka-s.
The word Ukārāya उकाराय seems to have been repeated but that may have been a print error e.g. it could be Ūkārāya ऊकाराय etc. as can be seen in other Śiva Nāmāvalī-s शिव नामावलिः.
The corresponding Pauṣyamāsakṛte ŚivaŚatāṣṭaNāmāvaliḥ पौष्यमासकृते शिवशताष्टनामावलिः derived from the Pauṣyamāsakṛte ŚivaŚatāṣṭanāmaStotram पौष्यमासकृते शिवशताष्टनामस्तोत्रम्, and a Pauṣyamāsakṛte ŚivaStutiḥ पौष्यमासकृते शिवस्तुतिः can be accessed from one of the links provided below.
More details about worshiping Śiva शिव during individual Māsa मास are given in Chapters 13-25.
Selected Śloka-s श्लोकाः from Chapter 23 are presented on this page.
Proofread by Ruma Dewan