पिप्पलादकृतं शिवस्तोत्रम्
पिप्पालाद उवाच ।
सर्वाणि कर्माणि विहाय धीरास्त्यक्तैषणा निर्जितचित्तवाताः ।
यं यान्ति मुक्त्यै शरणं प्रयत्नात्तमादिदेवं प्रणमामि शम्भुम् ॥ १००॥
यः सर्वसाक्षी सकलान्तरात्मा सर्वेश्वरः सर्वकलानिधानम् ।
विज्ञाय मच्चित्तगतं समस्तं स मे स्मरारिः करुणां करोतु ॥ १०१॥
दिगीश्वराञ्जित्य सुरार्चितस्य कैलासमान्दोलयतः पुरारेः ।
अङ्गुष्ठकृत्यैव रसातलादधोगतस्य तस्यैव दशाननस्य ॥ १०२॥
आलूनकायस्य गिरं निशम्य विहस्य देव्या सह दत्तमिष्टम् ।
तस्मै प्रसन्नः कुपितोऽपि तद्वदयुक्तदाताऽसि महेश्वर त्वम् ॥ १०३॥
सौत्रामणीमृद्धिमधः स चक्रे योऽर्चां हरौ(रे)नित्यमतीव कृत्वा ।
बाणः प्रशस्यः कृतवानुच्चपूजां रम्यां मनोज्ञां शशिखण्डमौलेः ॥ १०४॥
जित्वा रिपून्देवगणान्प्रपूज्य गुरुं नमस्कर्तुमगाद्विशाखः ।
चुकोप दृष्ट्वा गणनाथमूढमङ्के तमारोप्य जहास सोमः ॥ १०५॥
ईशाङ्करूढोऽपि शिशुस्वभावान्न मातुरङ्कं प्रमुमोच बालः ।
ऋद्धं सुतं बोधितुमप्यशक्तस्ततोऽर्धनारित्वमवाप सोमः ॥ १०६॥
इति ब्रह्मपुराणे दशाधिकशततमाध्यायान्तर्गतं
पिप्पलादकृतं शिवस्तोत्रं समाप्तम् ।
ब्रह्मपुराण । अध्याय ११०/१००-१०६॥
brahmapurANa . adhyAya 110/100-106..
Proofread by PSA Easwaran