पितामहकृतं १ शिवस्तोत्रम्
पितामह उवाच ।
नमस्ते भगवन् रुद्र भास्करामिततेजसे ।
नमो भवाय देवाय रसायाम्बुमयाय ते ॥ २९॥
शर्वाय क्षितिरूपाय सदा सुरभिणे नमः ।
ईशाय वायवे तुभ्यं संस्पर्शाय नमो नमः ॥ ३०॥
पशूनां पतये चैव पावकायातितेजसे ।
भीमाय व्योमरूपाय शब्दमात्राय ते नमः ॥ ३१॥
महादेवाय सोमाय अमृताय नमोऽस्तु ते ।
उग्राय यजमानाय नमस्ते कर्मयोगिने ॥ ३२॥
यः पठेच्छृणुयाद्वापि पैतामहमिमं स्तवम् ।
रुद्राय कथितं विप्राञ्छ्रावयेद्वा समाहितः ॥ ३३॥
अष्टमूर्तेस्तु सायुज्यं वर्षादेकादवाप्नुयात् ।
इति श्रीलिङ्गमहापुराणे पूर्वभागे एकचत्वारिंशाध्यायान्तर्गतं
पितामहकृतं शिवस्तोत्रं समाप्तम् ।
लिङ्गपुराण । पूर्वभाग । अध्याय ४१/२९-३३॥
lingapurANa . pUrvabhAga . adhyAya 41/29-33..
Proofread by PSA Easwaran