प्रदोषकालेशिवलिङ्गपूजावर्णनम्
बिल्वैः पुष्पैः पूजितं शाङ्गलिङ्गं धूपैः रत्नैर्दीपदानैरनन्तैः ।
तत्वज्ञोऽयं तेन पुण्येन भूयः तस्मान्नित्यं पूज्य एव शिवः स्यात् ॥ ५२॥
पुण्यान्यनन्तान्यपि सन्ति किं तैः प्रदोषकाले शिवपूजनेन ।
भवत्यवश्यं नृप तत्ववेत्ता सौभाग्यसौन्दर्यनिधिश्च मर्त्यः ॥ ५३॥
किं कौतुकं सृष्टमिदं शिवेन दृष्टं प्रदोषे शिवलिङ्गमात्रम् ।
सूते सुखानि स्वयमेक एव नान्यत् परं किञ्चिदपेक्षितं च ॥ ५४॥
प्रदोषकाले शिवसम्मतोऽतः प्रदोषकालीनशिवार्चनेन ।
प्रयाति शैवं पदमद्भुतं तत् न ज्ञायते भूप सुराधिपैश्च ॥ ५५॥
यः कोऽपि सायं शिवदर्शनेन भुक्त्वाऽपि भोगान् विपुलानपारान् ।
शिवं प्रयात्येव विना प्रयत्नैः स योगिनामप्यतिदुर्लभो हि ॥ ५६॥
स यागवार्तां न करोति शम्भुः न योगवार्तामपि दानवार्ताम् ।
परन्तु सायं शिवपूजकानां करोति वार्ता गिरिजासमेतः ॥ ५७॥
प्रदोषकाले समुपागतोऽद्य पुष्पं गृहीत्वा कमलं गृहीत्वा ।
स बिल्वमादाय जलं गृहीत्वा स भूतिमादाय तिलाक्षतानि ॥ ५८॥
स धूपमादाय समागतोऽद्य दीपं समादाय फलं गृहीत्वा ।
ताम्बूलमादाय स सायमादौ लिङ्गार्चनासक्तमतिर्भवानि ॥ ५९॥
निरीक्ष्यते तेन महाप्रदोषे बिल्वार्चितं लिङ्गमनुत्तमं मे ।
प्रदक्षिणं च प्रणतं च तेन ध्यातं च तेन क्षणमास्तिकेन ॥ ६०॥
विभूतिपूतेन विलोकितं च पुनः पुनर्लिंङ्गमनुस्मृतं च ।
रुद्राक्षमालाछविभूषणं च पुनः पुनस्तत् प्रणतं च लिङ्गम् ॥ ६१॥
ताम्बूलमादाय निवेदितं च द्राक्षाफलं तेन निवेदितं च ।
तेनार्पितं तत्कदलीफलं च प्रदोषकाले शिवलिङ्गमूर्ध्नि ॥ ६२॥
तेनाम्रपक्वोरुफलानि तानि दत्तानि लिङ्गोपरि तेन दत्तम् ।
दुकूलमत्युज्वलमायतं च तदेव तावद्विपुलं मनोज्ञम् ॥ ६३॥
क्षीरप्रवाहैरभिषिक्तमद्य प्रदोषकालेषु दधिप्रवाहैः ।
घृतप्रवाहश्च मधुप्रवाहैः सुशर्कराराशिभिरर्चिन्त च ॥ ६४॥
मन्दारमालासमलङ्कृतं च लिङ्गं मदीयं घनचन्दनेन ।
कस्तूरिकाकर्दमसंयुतेन प्रदोषकाले खलु शाम्भवेन ॥ ६५॥
सुशर्करासद्घृतकुम्भयुक्तं क्षीरान्नमेतेन निवेदितं मे ।
अपूपराशिश्च समर्पितो मे महाप्रदोषे खलु शाम्भवेन ॥ ६६॥
अनेन रत्नाभरणानि दत्तान्यनेन दत्ता खलु बिल्वमाला ।
प्रदोषकाले मुहुरादरेण सृष्टं च लिङ्गं मम आदरेण ॥ ६७॥
अयं हि हस्तो भगवानयं मे पुण्यस्वभावो भगवत्तरो मे ।
अयं हि हस्तः खलु विश्वभेषजो यस्मादयं मेऽद्य शिवाभिमर्शनः ॥ ६८॥
अनेन भुक्तं न दिवा भवानि जलं न पीतं फलभक्षणं च ।
कृतं न ताम्बूलमपि प्रदोषे त्यक्त्वा शिवाराधनमादरेण ॥ ६९॥
एते मदीयाः सितभस्मपूताः प्रदोषकाले शिवपूजनाय ।
कृतप्रयत्नाः शिवनामपूताः प्रकृष्टरुद्राक्षविभूषिताङ्गाः ॥ ७०॥
प्रदोषकालीनशिवार्चनेन भुक्त्वैव भोगान् विपुलानपारान् ।
स्थास्यन्ति सर्वेऽपि ममैव पार्श्वे मत्पूजनं प्राप्य महोत्सवास्ते ॥ ७१॥
एते विमानानि मनोहराणि प्राप्यान्तकाराधितपादपद्माः ।
विधीन्द्रनारायणपूजिताश्च स्थास्यन्ति मत्पादनखप्रभाभिः ॥ ७२॥
धन्याः प्रदोषेषु शिवार्चकास्ते सर्वे ममैवापरविग्रहास्ते ।
तेषां परं पादरजो यमोऽपि धत्ते शिरस्येव तथैव विष्णुः ॥ ७३॥
प्रदोषकालीनशिवार्चनाय मतिः शिवे स्यान्मदनुग्रहेण ।
अघोरसंसारविकारसागरे पुनर्न दुःखानि तया भवन्ति ॥ ७४॥
तावन्महापापभयं भवानि यावन्न पूजां रजनीमुखेषु ।
करोति लिङ्गे सितभस्मवीतत्रिपुण्ड्ररुद्राक्षविभूषितः सन् ॥ ७५॥
पूजां कोऽपि महाप्रदोषसमये कृत्वा विभूति-
प्रभारुद्राक्षाभरणप्रभापरिवृतो लिङ्गे जलैर्वा फलैः ।
बिल्वैर्वा नवकण्टकारिकुसुमैः दूर्वाङ्कुरैर्वा शिवे
भूपालत्वमवाप्य मत्पदरजःपुञ्जेन सङ्क्रीडति ॥ ७८॥
को वा तेन समः प्रदोषसमये येनाहमभ्यर्चितो
बिल्वानां खलु मालया जललवैः श्रौतेन वा भस्मना ।
उत्फुल्लैः करवीरचम्पकमहामल्लीप्रसूनैः शिवैः
तत्पादाम्बुजरेणुभिर्मुहुरहो नारायणः पूजितः ॥ ७७॥
आजन्माखिलकण्ठशोषणकरैः किं वेदपारायणैः
किं यागैर्धनधान्यनाशनकरैः कन्याप्रदानैरपि ।
किञ्चोत्तुङ्गतुरङ्गदन्तिनिकररागारप्रदानैः शिवे
सायङ्कालशिवार्चनार्जितफलाभावे न मुक्तिर्यतः ॥ ७८॥
क्षीणा स्यात् तनुरेव घोरतपसा दानैर्धनं नश्यति
व्यर्थं चायुरपि प्रयाति गिरिजे लिङ्गार्चनं तन्न चेत् ।
तेनैवाखिलभाग्यभोगविभवो भ्रमण्डले जायते
पश्चान्मुक्तिमुपैति तेन सदृशं लिङ्गं न जाने ध्रुवम् ॥ ७९॥
स्वर्गः केवलमङ्गजातसहितात् यागात् स सव्यङ्गतो
व्यङ्गं लिङ्गसमर्चनं जललवैः श्रीबिल्वचूर्णैः कृतम् ।
तेनापारसुरार्चितेन विभवैः स्वर्गापवर्गप्रदं
लिङ्गाराधनमेव तेन सदृशो धर्मो न लोकत्रये ॥ ८०॥
चित्तं यस्य न लिङ्गपूजनरतं तज्जन्म तावद्गतं
व्यर्थं तञ्जननीवयस्तरुवरच्छेदे कुठारः स तु ।
तद्वार्ताऽप्यघसाधनाय गिरिजे लिङ्गार्चनाराधको
यस्तस्यानुचरोऽपि सोऽपि हि महान् कालाद्भयं तस्य न ॥ ८१॥
तज्जन्मातिमनोहरं सुखकरं मन्येऽतिमान्ये शिवे
यः सायं शिवपूजनोद्यतमतिर्मध्याह्नकाले शिवे ।
यं दृष्ट्वाऽपि यमादयोऽपि बहुधा कम्पायमानाः सदा
धन्या तज्जननी पिता च सुतरां धन्यः स मान्यः सुरैः ॥ ८२॥
॥ इति शिवरहस्यान्तर्गते प्रदोषकालेशिवलिङ्गपूजावर्णनं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । उत्तरार्धम् । अध्यायः ४ - प्रदोषपूजादर्शनफलवर्णनम् । ५२-८२॥
- .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . uttarArdham . adhyAyaH 4 - pradoShapUjAdarshanaphalavarNanam . 52-82..
(Note: from text it seems it is spoken by Yagnyavalkya, but the content suggests that it is spoken to Devi by Shiva (Ishwara).)
Proofread by Ruma Dewan