प्रजापतिभिः कृतं महादेवस्तोत्रम्

प्रजापतिभिः कृतं महादेवस्तोत्रम्

प्रजापतय ऊचुः । देवदेव महादेव भूतात्मन् भूतभावन । त्राहि नः शरणापन्नांस्त्रैलोक्यदहनाद्विषात् ॥ २१॥ त्वमेकः सर्वजगत ईश्वरो बन्धमोक्षयोः । तं त्वामर्चन्ति कुशलाः प्रपन्नार्तिहरं गुरुम् ॥ २२॥ गुणमय्या स्वशक्त्यास्य सर्गस्थित्यप्ययान् विभो । धत्से यदा स्वदृग्भूमन् ब्रह्मविष्णुशिवाभिधाम् ॥ २३॥ त्वं ब्रह्म परमं गुह्यं सदसद्भावभावनः । नानाशक्तिभिराभातस्त्वमात्मा जगदीश्वरः ॥ २४॥ त्वं शब्दयोनिर्जगदादिरात्मा प्राणेन्द्रियद्रव्यगुणस्वभावः । कालः क्रतुः सत्यमृतं च धर्म- स्त्वय्यक्षरं यत्त्रिवृदामनन्ति ॥ २५॥ अग्निर्मुखं तेऽखिलदेवताऽऽत्मा क्षितिं विदुर्लोकभवाङ्घ्रिपङ्कजम् । कालं गतिं तेऽखिलदेवताऽऽत्मनो दिशश्च कर्णौ रसनं जलेशम् ॥ २६॥ नाभिर्नभस्ते श्वसनं नभस्वान् सूर्यश्च चक्षूंषि जलं स्म रेतः । परावरात्माश्रयणं तवात्मा सोमो मनो द्यौर्भगवन् शिरस्ते ॥ २७॥ कुक्षिः समुद्रा गिरयोऽस्थिसङ्घा रोमाणि सर्वौषधिवीरुधस्ते । छन्दांसि साक्षात्तव सप्तधातव- स्त्रयीमयात्मन् हृदयं सर्वधर्मः ॥ २८॥ मुखानि पञ्चोपनिषदस्तवेश यैस्त्रिंशदष्टोत्तरमन्त्रवर्गः । यत्तच्छिवाख्यं परमार्थतत्त्वं देव स्वयञ्ज्योतिरवस्थितिस्ते ॥ २९॥ छाया त्वधर्मोर्मिषु यैर्विसर्गो नेत्रत्रयं सत्त्वरजस्तमांसि । साङ्ख्यात्मनः शास्त्रकृतस्तवेक्षा छन्दोमयो देव ऋषिः पुराणः ॥ ३०॥ न ते गिरित्राखिललोकपाल- विरिञ्चवैकुण्ठसुरेन्द्रगम्यम् । ज्योतिः परं यत्र रजस्तमश्च सत्त्वं न यद्ब्रह्म निरस्तभेदम् ॥ ३१॥ कामाध्वरत्रिपुरकालगराद्यनेक- भूतद्रुहः क्षपयतः स्तुतये न तत्ते । यस्त्वन्तकाल इदमात्मकृतं स्वनेत्र- वह्निस्फुलिङ्गशिखया भसितं न वेद ॥ ३२॥ ये त्वात्मरामगुरुभिर्हृदि चिन्तिताङ्घ्रि- द्वन्द्वं चरन्तमुमया तपसाभितप्तम् । कत्थन्त उग्रपुरुषं निरतं श्मशाने ते नूनमूतिमविदंस्तव हातलज्जाः ॥ ३३॥ तत्तस्य ते सदसतोः परतः परस्य नाञ्जः स्वरूपगमने प्रभवन्ति भूम्नः । ब्रह्मादयः किमुत संस्तवने वयं तु तत्सर्गसर्गविषया अपि शक्तिमात्रम् ॥ ३४॥ एतत्परं प्रपश्यामो न परं ते महेश्वर । मृडनाय हि लोकस्य व्यक्तिस्तेऽव्यक्तकर्मणः ॥ ३५॥ इति श्रीमद्भागवतमहापुराणे अष्टमस्कन्धे सप्तमाध्यायान्तर्गतं प्रजापतिभिः कृतं महादेवस्तोत्रं समाप्तम् । भागवतपुराण । अध्याय ८/७/२१-३५॥ bhAgavatapurANa . adhyAya 8/7/21-35.. Proofread by PSA Easwaran
% Text title            : Prajapatibhih Kritam Mahadeva Stotram
% File name             : prajApatibhiHkRRitaMmahAdevastotram.itx
% itxtitle              : mahAdevastotram (prajApatibhiHkRitaM bhAgavatapurANAntargatam)
% engtitle              : prajApatibhiHkRRitaM mahAdevastotram
% Category              : shiva, bhAgavatapurANa, stotra
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : bhAgavatapurANa | adhyAya 8/7/21-35||
% Indexextra            : (Text 1, 2, 3, Scans 1, 2, 3, 4, 5, 6, Hindi)
% Latest update         : September 23, 2025
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org