प्रतिऋत्वां पुष्पेण शिवार्चनोपदेशम्
(शिवरहस्यान्तर्गते महादेवाख्ये)
ज्ञानं लब्ध्वा शिवमुखात्स तत्रैव विमुच्यते ।
वसन्ते किंशुकैः पूज्य दमनैर्मदनार्दनम् ॥ ६१॥
गोष्टोऽष्टफलमाप्नोति ग्रीष्मेऽपि च महेश्वरि ।
मल्लिकाभिः समभ्यर्च्य नरमेधफलं लभेत् ॥ ६२॥
वर्षासु कुटजैः पूज्य शिवं सत्रफलं लभेत् ।
शरत्सु च महादेवं पारिजातैः समर्चयेत् ॥ ६३॥
गवामयनयज्ञस्य फलं लब्ध्वा विमुच्यते ।
उमाकान्तं च हेमन्ते मन्दारैश्च समर्चयेत् ॥ ६४॥
कर्णिकारैः सोऽग्निचित्यक्रतोः फलमवाप्नुयात् ।
शिशिरे करवीरैश्च सितरक्तैः समर्चयेत् ॥ ६५॥
॥ इति शिवरहस्यान्तर्गते प्रतिऋत्वां पुष्पेण शिवार्चनोपदेशं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । महादेवाख्यः एकादशमांशः । अध्यायः २६ । ६१-६५॥
- .. shrIshivarahasyam . mahAdevAkhyaH ekAdashamAMshaH . adhyAyaH 26 . 61-65..
Notes:
The flower offerings to and merits of worshiping Śiva शिव during respective Ṛtu-s ऋतवः.
The Puśpa पुष्प for offering include Kiṁśuka किंशुक during Vasanta वसन्त, Mallikā मल्लिका during Grīṣma ग्रीष्म, Kuṭaja कुटज during Varṣā वर्षा, Pārijāta पारिजात during Śarat शरत्, Mandāra मन्दार during Hemanta हेमन्त, and Karavīra करवीर (Sita सित and/or Rakta रक्त) during Śiśira शिशिर.
Proofread by Ruma Dewan