प्रतिमासकृते शिवस्तुतिः

प्रतिमासकृते शिवस्तुतिः

(शिवरहस्यान्तर्गते महादेवाख्ये) - शिवगौरीसंवादे - ईश्वर उवाच । त्वयैव सृष्टमखिलं त्वय्येव सकलं स्थितम् । त्वया संह्रियते विश्वं प्रधानपुरुषात्मकम् ॥ ५५॥ त्वमेव पुरुषोऽनन्तः प्रधानं प्रकृतिस्तथा । भूमिरापोऽनलो वायुर्व्योमाहङ्कारमेव च ॥ ५६॥ यस्य रूपं नमस्यामि भवं त्वां ब्रह्मसम्भवम् । यस्य द्यौरभवन्मूर्धा पादौ पृथ्वी दिशोभुजः ॥ ५७॥ आकाशमुदरं तस्मै विराजे ते नमोनमः । हव्यं वहति यो नित्यं रौद्राग्नेयवपुश्च यः ॥ ५८॥ कव्ये पितृगणानां च तस्मै वह्न्न्यात्मने नमः । आप्याययति यो देवः स्वधाम्ना सकलं जगत् ॥ ५९॥ सोमः सोमात्मने तुभ्यमोषधीशात्मने नमः । बिभर्त्यशेषभूतानि योऽन्तश्चरति सर्वगः ॥ ६०॥ शक्तिर्माहेश्वरी साक्षात्तस्मै वाय्वात्मने नमः । सृजत्यशेषमेवेदं यस्य कर्मानुरूपतः ॥ ६१॥ स्वात्मन्येव स्थितं चैतत् चतुर्वक्त्रात्मने नमः । यः शेतेऽप्सु शिवं ध्यायन् पालयत्यखिलं जगत् ॥ ६२॥ नमो विश्वात्मने तुभ्यं विष्णवे पालनात्मने । यः संहरेज्जगज्जालं शूलेनैकेन शङ्करि ॥ ६३॥ तस्मै रुद्रात्मने तुभ्यं नमस्तेऽस्तु पिनाकिने । यं विनिद्रा जितश्वासाः पश्यन्ति परमेश्वरम् ॥ ६४॥ ज्योतिः पश्यन्ति युञ्जानास्तस्मै सर्वात्मने नमः । इति स्तवं प्रयुञ्जीत सर्वमासेषु शङ्करि ॥ ६५॥ मासपूजामिमां कृत्वा संवत्सरमतन्द्रितः । न स भूयोऽपि जायेत संसारे दुःखसागरे ॥ ६६॥ ॥ इति शिवरहस्यान्तर्गते ईश्वरप्रोक्तं प्रतिमासकृते शिवस्तुतिः सम्पूर्णा ॥ - ॥ श्रीशिवरहस्यम् । महादेवाख्यः एकादशमांशः । अध्यायः २५ फाल्गुनमासार्चनम् । ५५-६६॥ - .. shrIshivarahasyam . mahAdevAkhyaH ekAdashamAMshaH . adhyAyaH 25 phAlgunamAsArchanam . 55-66.. Notes: Śiva शिव; having detailed to Devī देवी; about His Worship during respective māsa मास in the ŚivaRahasyaṃ Mahādevākhyaḥ Ekādaśamāṃśaḥ Adhyāyaḥ 13-25 शिवरहस्यं महादेवाख्यः एकादशमांशः अध्यायः १३-२५, concludes with advising a ŚivaStutiḥ शिवस्तुतिः that can be recited in all māsa मास। Proofread by Ruma Dewan
% Text title            : Pratimasakrite Shiva Stuti
% File name             : pratimAsakRRiteshivastutiH.itx
% itxtitle              : shivastutiH prati mAsa kRite (shivarahasyAntargatA)
% engtitle              : pratimAsakRRite shivastutiH
% Category              : shiva, shivarahasya, stuti
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | mahAdevAkhyaH ekAdashamAMshaH | adhyAyaH 25 phAlgunamAsArchanam | 55-66||
% Indexextra            : (Scan)
% Latest update         : October 29, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org