प्रतिमासे शिवार्चनफलोपदेशम्

प्रतिमासे शिवार्चनफलोपदेशम्

(शिवरहस्यान्तर्गते महादेवाख्ये) - शिवगौरीसंवादे - चैत्रमासे शिवार्चनफलोपदेशम् - स्कन्द उवाच । चैत्रे त्रिणेत्रपदपूजनकृद्वरिष्ठ- श्चित्रैश्चपातकवरैः स हि मुक्त एव । सत्रातिरात्रशतकादपि पुण्यभाक् स्या- त्पुत्रादिमित्रसुकलत्रयुतो भुविस्थः ॥ १४.६६॥ वैशाखमासे शिवार्चनफलोपदेशम् - ईश्वर उवाच । विशाखे वैशाखे शिखिविशिखनेत्रार्चनपरो मखानां सर्वेषां किल सुख(फल)मवाप्योन्नतमुखः । विशाखर्क्षे यो मां भजति वरदुःखोऽपि च नरो- ऽवरो भूयात्सत्यं गिरिवरसुते मय्यभिमुखः ॥ १५.७७॥ विशाखे वैशाख्यां यदि सुकृतभाजोऽपि मनुजा द्विजा ये शाखान्तप्रथितपदपूजासु निरताः परं भस्मछन्नाः शिवतरमहाधामकलनाः शिवेदध्नः पुण्यं त्वधहरमहाकम्बलमुमे मम प्रीत्यै दद्युः प्रकटतरभक्त्यैव सुजनाः ॥ १५.७८॥ ज्येष्ठमासे शिवार्चनफलोपदेशम् - ईश्वर उवाच । सदा कालकालं हृदा भावयन्तः कृतान्ताद्भयं सन्त्यजन्त्येव सन्तः । मुदा बिल्वपत्रैः शिवं पूजयन्तः भिदा नैव पश्यन्ति लोकं प्रशान्ताः ॥ १६.८०॥ ज्येष्ठे विशिष्टशिपिविष्टसदिष्टलिङ्ग सम्पूकोऽष्टाकृतिवल्लभः स्यात् । दुष्टः कनिष्ठोऽपि च कुष्ठिताङ्गो रुष्टश्च मद्भक्तवरो विशिष्टः ॥ १६.८१॥ आषाढमासे शिवार्चनफलोपदेशम् - not specified in source text श्रावणमासे शिवार्चनफलोपदेशम् - स्कन्द उवाच । यः श्रावणेऽनिलसुपारणपूरणस्य लिङ्गानि पार्थिवमयानि च सोमवारे । त्र्यक्षं क्षणप्रथितदोषहरेऽपि मासि नक्ताशनो यदि भवेत्तपसा स मुक्तः ॥ १८.८२॥ पवित्राणि चित्राणि दत्वा त्रिणेत्रे विचित्राणि पापानि नाशं प्रयान्ति । सुपुत्रैः कलत्रैर्युतः सर्वसत्रैः फलं यच्च तच्चाप्नुयाद्देवि सत्यम् ॥ १८.८३॥ यः श्रावणे शशिविभूषणतुङ्गलिङ्गं त्यक्तेषणोऽर्चितनरो धिषणोपमानः । स्नात्वाशिवे त्रिषवणं निशि सोमवारे तन्मासि शङ्करगणो भविताग्रगण्यः ॥ १८.८४॥ भाद्रपदमासे शिवार्चनफलोपदेशम् - स्कन्द उवाच । भाद्रेपदे भद्रपदं समर्च्य(र्चयन्) रुद्रं दरिद्रो न स जातु भूयात् । सुवीरभद्रादिसमर्चितः स्या- भद्राणि सर्वाणि लभेदतन्द्रः ॥ १९.७१॥ उमाकान्तं शान्तो भजति भवतान्तो द्विजगणः कृतान्ताद्वा भीतः श्रुतिशिरसिभातं यमधनः । वसन्ते हेमन्ते कुसुमितदिनान्तेऽर्चति शिवं अहोवर्षास्विष्टं भजति वरभाग्यैश्च निपुणः ॥ १९.७२॥ अश्वायुजमासे शिवार्चनफलोपदेशम् - ईश्वर उवाच । पूजितो ब्रह्मविष्ण्वाद्यैः शक्रद्यैर्मुनिभिः सह । मासे चाश्वयुजि प्रसन्नहृदयो यो मां समर्च्यादरात् । सोऽयं संलभते मदीयमगजे लोकं च भक्त्यादरात् स यायान् भविता जनेषु सुमहान् इज्यायुतानां फलं भूयस्तस्य भवन्ति भूमिपतयः प्राज्यं स राज्यं लभेत् ॥ २०.७८॥ कार्तिकमासे शिवार्चनफलोपदेशम् - ईश्वर उवाच । काञ्चनेन विमानेन वंश कोटिसमन्वितः । याति मत्सदनं देवि कैलासं दैवदुर्लभम् ॥ २१.७७॥ आर्तिक्यं कार्तिके यत्स्यात्कीर्तिदं तत्त्रिलोकके ॥ २१.७८॥ वर्तिं कुर्याद्योघृताक्तां प्रदीप्तां पूजाकाले यः सकृच्छङ्करस्य । इष्टीरिष्ट्वा यत्फलं प्राप्नुयाद्वै तल्लब्ध्वासौ याति शम्भौः पदं मे ॥ २१.७९॥ ऊर्जे स्फूर्जद्धूर्जटेर्लिङ्गमीक्ष्य सायं सोमे वासरे पापसङ्घम् । गर्जन्त्येवं तर्जिता सोमदूता वर्जन्त्येनं ते नरास्तूर्जिता हि ॥ २१.८०॥ पर्वण्युमानाथमखर्वपुण्यदं दूर्वाभिरेवार्च्य सुपर्ववन्द्यम् । और्वानलेद्धस्त्विव पापनीर- शेषो भवेत्पर्वतराजपुत्रि ॥ २१.८१॥ धात्रीपत्रैः पूजनं तूर्जमासि तद्वै धर्त्रीप्रीति दातुः फलं हि । ते सावित्रीजापिनां संसवित्री- भावं प्राप्ता गुह्यमेतत् श‍ृणुष्व ॥ २१.८२॥ मार्गशीर्षमासे शिवार्चनफलोपदेशम् - ईश्वर उवाच । यो मार्गशीर्षे विधिशीर्षमाला- चलल्लसद्वक्षसमार्द्रकर्क्षे । सम्पूज्य तन्मासि मुदा ममेशि नृत्तं च संवीक्ष्य विमुक्तिमेति ॥ २२.७०॥ यो मार्गशीर्षेऽर्चनकृद्भवानि स मुक्तिमार्गं लभते मनुष्यः । पुष्पैरपामार्गदलैर्मुदा युतो न दुर्गमां याति गतिं मदाश्रयः ॥ २२.७१॥ पौष्यमासे शिवार्चनफलोपदेशम् - ईश्वर उवाच । पौष्ये विशिष्य शिवलिङ्गसमर्चतेन तिष्योद्भवं भयमुमे न लभेन्मनुष्यः आयुष्यमेति शतकं भुवि शम्भुनाम घुष्यन् प्रयाति सदनं मदनान्कर्तुः ॥ २३.९३॥ माघमासे शिवार्चनफलोपदेशम् - ईश्वर उवाच । प्राज्याज्यादिभिरीशलिङ्गमगजे यो वाऽभिषिच्यादरात् साम्राज्यं लभते किलैष भवहृच्चेज्यायुतानां फलम् । माघे मासे मघर्क्षे त्वघशतभयतो मुक्त एवेह भक्तः कुर्याद्यो घृतकम्बलं विधियुतं भुक्त्वैव भोगं भुवि प्राप्यान्ते प्रमथाधिपत्यमगजे शैलाधिनाथे मम ॥ २४.४६॥ फाल्गुनमासे शिवार्चनफलोपदेशम् - ईश्वर उवाच । यः फाल्गुने मासि शिवार्चको नरो न फल्गुपापैर्भयमेति शङ्करि । संवल्गते धाम शिवस्य याने तं चान्तिमग्लानिमवाप्य मोदते ॥ २५.६७॥ मधुकम्बलकृच्च फाल्गुने वरपर्वण्यगजे धुनोति पापम् । मुखेमेतत्किल हाय तस्य गौरि प्रथिता पौर्णमसी विशिष्टमासि ॥ २५.६८॥ - - पूजाविशेष मासेषु कथितां प्रीतिदां मम ॥ २५.५३॥ यः कुर्यान्मनुजः सद्यो मुच्यते भवबन्धनात् । स्तवीत परया भक्त्या देवदेवं महेश्वरम् ॥ २५.५४॥ ॥ इति शिवरहस्यान्तर्गते प्रतिमासे शिवार्चनफलोपदेशं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । महादेवाख्यः एकादशमांशः । अध्यायः १३-२५ फाल्गुनमासार्चनम् । वावृत्तश्लोकाः ॥ - .. shrIshivarahasyam . mahAdevAkhyaH ekAdashamAMshaH . adhyAyaH 13-25 phAlgunamAsArchanam . vAvRRittashlokAH .. Notes: Śiva शिव details to Devī देवी; about His Worship during each māsa मास, are mentioned in the ŚivaRahasyaṃ Mahādevākhyaḥ Ekādaśamāṃśaḥ Adhyāyaḥ 13-25 शिवरहस्यं महादेवाख्यः एकादशमांशः अध्यायः १३-२५. Selected Śloka-s श्लोकाः from these Chapters mentioning the phala फल of the Śivārcana शिवार्चन during the respective months are collated on this page. Proofread by Ruma Dewan
% Text title            : Pratimase Shivarchanaphalopadesham
% File name             : pratimAseshivArchanaphalopadesham.itx
% itxtitle              : pratimAseshivArchanaphalopadesham pratimAse (shivarahasyAntargatA)
% engtitle              : pratimAse shivArchanaphalopadesham
% Category              : shiva, shivarahasya, upadesha, advice
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | mahAdevAkhyaH ekAdashamAMshaH | adhyAyaH 13-25 phAlgunamAsArchanam | vAvRittashlokAH ||
% Indexextra            : (Scan)
% Latest update         : October 29, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org