पुष्करेश्वरलिङ्ग शिवक्षेत्र महात्म्यम्
(शिवगौरीसंवादे)
ईश्वरः -
श्रृणु देवि कथामेकां ब्रह्मणः परमाद्भुताम् ।
यां श्रुत्वा मयि विन्दन्ते भक्तिं सर्वार्थदायिनीम् ॥ १॥
सत्यलोके स्थितो ब्रह्मा यियक्षुरभवच्छिवे ।
स्वहस्तपद्मं धाता च पातयामास भूतले ॥ २॥
क्षेत्राणामुत्तमे तन्मे पुष्करे पुष्करं तदा ।
तत्र मे संस्थितं पूर्वं पुष्करेश्वरसञ्ज्ञितम् ॥ ३॥
लिङ्गं मङ्गलदं पुण्यं तन्मौलौ नलिनं पतत् ।
वेणुगुल्मावृतं भद्रं नानावृक्षसमन्वितम् ॥ ४॥
तत्रान्तरेऽभवद्वाणी श्रुत्वा(?) वाणीपतिस्तदा ॥
(वाणी ब्रह्माणमवदत् इति वक्तव्यम् ।)
---
वाणी -
एतद्विधातः क्षेत्रणामुत्तमं पुष्करं शिवम् ।
यजतो देवयजनं तव भृयात् सुपावनम् ॥ ५॥
पुष्करं ते यतः पुण्यं पतितं पुष्करं हि तत् ।
अत्र लिङ्गमिदं श्रेष्ठं देवदेवस्य शूलिनः ॥ ६॥
पश्य सम्पूजयात्रैव कार्तिकोऽयं सुपावनः ।
मासो हि पुण्यनिलये गङ्गेयं पावनी सरित् ॥ ७॥
कार्तिके सोमवारेषु पुष्करे पुष्करेश्वरम् ।
यः समर्चयिता रात्रौ बिल्वैर्द्रोणैश्च धुत्तुरैः ॥ ८॥
तस्य पुण्यस्य नान्तोऽस्ति स च शङ्करवल्लभः ।
तदा वाणीवचः श्रुत्वा विश्वकर्माणमाह्वयत् ॥ ९॥
---
ईश्वरः -
ब्रह्मणा स्मृतमात्रः स विश्वकर्मा ततो विधिम् ।
प्राह किं करवाणीति क्षेत्रं विस्तारयेति तम् ॥ १०॥
व्यधाद्वेधास्तदा शालामाश्रमं सरितस्तटे ।
मण्टपं गोपुरं दिव्यं पुष्करेशस्य शूलिनः ॥ ११॥
तद्ब्रह्मणोवचः श्रुत्वा नानाशिल्पसमन्वितः ।
शालां निर्मापयामास नानामण्टपशोभिताम् ॥ १२॥
भक्ष्यैर्भोज्यैस्तथैवान्नैः सूपापूपैर्मनोरमैः ।
वाससां राशयस्तत्र ब्राह्मणावसथादयः ॥ १३॥
पुष्करेश्वरलिङ्गस्य चक्रे सोऽपि शिवालयम् ।
प्राकारगोपुरोपेतमाश्रमैः सुमनोहरम् ॥ १४॥
तत्पितामहवाक्येन विश्वकर्माऽथ शिल्पिराट् ।
विज्ञप्तुमथ ब्रह्माणं सत्यलोकं गतस्तदा ॥ १५॥
तत्र सन्ति महाशैवाः पुष्करैशसमर्चकाः ।
बिल्वपत्रादिभिः सम्यक् ते सर्वे भस्मभूषणाः ॥ १६॥
रुद्राक्षहारवलयत्रिपुण्ड्रपरिशोभिताः ।
निवसन्ति महाशैवाः पुष्करैः पुष्करेश्वरम् ॥ १७॥
समर्चयन्ति नियतं भक्त्या बिल्वैश्च कोमलैः ।
तत्तत्कालेन देवेशि पुष्करं मे सुरासुरैः ॥ १८॥
॥ इति शिवरहस्यान्तर्गते शिवगौरीसंवादे पुष्करेश्वरलिङ्ग शिवक्षेत्र महात्म्यम् ॥
- ॥ श्रीशिवरहस्यम् । भर्गाख्यः पञ्चमांशः । अध्यायः ३५॥ -
- .. shrIshivarahasyam . bhargAkhyaH panchamAMshaH . adhyAyaH 35.. -
Notes:
Pushkara Kshetra came to be known so due to a Lotus that fell from the hands of Brahma from Satyaloka, on to a Shivalinga in this region in Prithviloka. A temple was thus constructed there by Vishwakarma around the Shivalinga, that came to be known as Pushkareshwara. Shiva iterated the importance of worshipping at Pushkareshwara during Kartika-masa especially on Mondays (Somavara).
The shloka numbers have been maintained per the source text.
Proofread by Ruma Dewan