राजाकृता शङ्करात् वरयाचना
(शिवरहस्यान्तर्गते उग्राख्ये)
आदिविष्णुर्भवान्पूर्वं यस्माज्जातो महेश्वरात् ।
तस्मादेव वरं याचे शङ्कराल्लोकशङ्करात् ॥ २१०॥
यतश्चतुर्मुखो जातो देवदेवान्महेश्वरात् ।
तस्मादेव वरं याचे शङ्कराल्लोकशङ्करात् ॥ २११॥
यस्मादिन्द्रादयो जाता दिक्पालाः श्रीमहेश्वरात् ।
तस्मादेव वरं याचे शङ्कराल्लोकशङ्करात् ॥ २१२॥
वेदा यस्मात्समुत्पन्ना देवदेवान्महेश्वरात् ।
(यस्य निःश्वसितं वेदा देवदेवस्य शूलिनः ।)
तस्मादेव वरं याचे शङ्कराल्लोकशङ्करात् ॥ २१३॥
यस्मात्सूर्यः समुत्पन्नो देवदेवान्महेश्वरात् ।
तस्मादेव वरं याचे शङ्कराल्लोकशङ्करात् ॥ २१४॥
यस्माच्चन्द्रः समुत्पन्नो देवदेवान्महेश्वरात् ।
तस्मादेव वरं याचे शङ्कराल्लोकशङ्करात् ॥ २१५॥
यस्मादजायताकाशो देवदेवान्महेश्वरात् ।
तस्मादेव वरं याचे शङ्कराल्लोकशङ्करात् ॥ २१६॥
यस्माद्वायुः समुत्पन्नो देवदेवान्महेश्वरात् ।
तस्मादेव वरं याचे शङ्कराल्लोकशङ्करात् ॥ २१७॥
यस्मादग्निः समुत्पन्नो देवदेवान्महेश्वरात् ।
तस्मादेव वरं याचे शङ्कराल्लोकशङ्करात् ॥ २१८॥
यस्मादापः समुत्पन्ना देवदेवान्महेश्वरात् ।
तस्मादेव वरं याचे शङ्कराल्लोकशङ्करात् ॥ २१९॥
यस्मात्क्षोणी समुत्पन्ना देवदेवान्महेश्वरात् ।
तस्मादेव वरं याचे शङ्कराल्लोकशङ्करात् ॥ २२०॥
यस्मादेषधयो जाता देवदेवान्महेश्वरात् ।
तस्मादेव वरं याचे शङ्कराल्लोकशङ्करात् ॥ २२१॥
यस्मादन्नं समुत्पन्नं देवदेवान्महेश्वरात् ।
तस्मादेव वरं याचे शङ्कराल्लोकशङ्करात् ॥ २२२॥
यस्माद्द्वीपाः समुत्पन्ना देवदेवान्महेश्वरात् ।
तस्मादेव वरं याचे शङ्कराल्लोकशङ्करात् ॥ २२३॥
यस्माद्द्विपादः सम्भूता देवदेवान्महेश्वरात् ।
तस्मादेव वरं याचे शङ्कराल्लोकशङ्करात् ॥ २२४॥
यस्माच्चतुष्पदा जाता देवदेवान्महेश्वरात् ।
तस्मादेव वरं याचे शङ्कराल्लोकशङ्करात् ॥ २२५॥
यस्मादष्टपदा जाता देवदेवान्महेश्वरात् ।
तस्मादेव वरं याचे शङ्कराल्लोकशङ्करात् ॥ २२६॥
यस्माद्वनानि जातानि देवदेवान्महेश्वरात् ।
तस्मादेव वरं याचे शङ्कराल्लोकशङ्करात् ॥ २२७॥
यस्माद्गिरिवरा जाता देवदेवान्महेश्वात् ।
तस्मादेव वरं याचे शङ्कराल्लोकशङ्करात् ॥ २२८॥
यस्यान्तं न विदुर्देवा भवदाद्याः पिनाकिनः ।
तस्मादेव वरं याचे शङ्कराल्लोकशङ्करात् ॥ २२९॥
यस्य स्वरूपं न ज्ञातं सर्वथा भवदादिभिः ।
तस्मादेव वरं याचे शङ्कराल्लोकशङ्करात् ॥ २३०॥
यत्प्रसादेन विष्णुत्वं त्वया प्राप्तं पुरा हरे ।
तस्मादेव वरं याचे शङ्कराल्लोकशङ्करात् ॥ २३१॥
ब्रह्मत्वं ब्रह्मणा प्राप्तं यत्प्रसादात्पुरा हरे ।
तस्मादेव वरं याचे शङ्कराल्लोकशङ्करात् ॥ २३२॥
इन्द्रत्वं प्राप्तमिन्द्रेण यत्प्रसादात्पुरा हरे ।
तस्मादेव वरं याचे शङ्कराल्लोकशङ्करात् ॥ २३३॥
वात्ययं वायुरनिशं यस्माद्भीतो महेश्वरात् ।
तस्मादेव वरं याचे शङ्कराल्लोकशङ्करात् ॥ २३४॥
सूर्योऽप्यहरहो नित्यं यस्माद्भीतो महेश्वरात् ।
तस्मादेव वरं याचे शङ्कराल्लोकशङ्करात् ॥ २३५॥
उदेति वह्निश्चन्द्रश्च यस्माद्भीतो महेश्वरात् ।
तस्मादेव वरं याचे शङ्कराल्लोकशङ्करात् ॥ २३६॥
यद्भक्तैर्भेदिताः शैला मन्दरप्रमुखाः पुरा ।
तस्मादेव वरं याचे शङ्कराल्लोकशङ्करात् ॥ २३७॥
यद्भक्तैः क्षणमात्रेण समुद्राश्चलुकीकृताः ।
तस्मादेव वरं याचे शङ्कराल्लोकशङ्करात् ॥ २३८॥
यद्भक्तैः क्षणमात्रेण लोका व्यत्ययिताः पुरा ।
तस्मादेव वरं याचे शङ्कराल्लोकशङ्करात् ॥ २३९॥
तृणीकृतोऽसि यद्भक्तैस्त्वमेव गरुडध्वज ।
तस्मादेव वरं याचे शङ्कराल्लोकशङ्करात् ॥ २४०॥
तृणीकृतश्चतुर्वक्त्रो यद्भक्तैर्हंसवाहनः ।
तस्मादेव वरं याचे शङ्कराल्लोकशङ्करात् ॥ २४१॥
तृणीकृतः शचीनाथो यद्भक्तैः स्वर्गनायकः ।
तस्मादेव वरं याचे शङ्कराल्लोकशङ्करात् ॥ २४२॥
यतो वाचो निवर्तन्ते अप्राप्य मनसा सह ।
तस्मादेव वरं याचे शङ्कराल्लोकशङ्करात् ॥ २४३॥
यदृतं सत्परं ब्रह्म पुरुषं कृष्णम्पिङ्गलम् ।
तस्मादेव वरं याचे शङ्कराल्लोकशङ्करात् ॥ २४४॥
यदक्षरं विरूपाक्षमक्षय्यफलदायकम् ।
तस्मादेव वरं याचे शङ्कराल्लोकशङ्करात् ॥ २४५॥
यदूर्ध्वरेतमनघं विश्वरूपमनामयम् ।
तस्मादेव वरं याचे शङ्कराल्लोकशङ्करात् ॥ २४६॥
यो निर्गुणो निराकारो निरुपाधिर्निरञ्जनः ।
तस्मादेव वरं याचे शङ्कराल्लोकशङ्करात् ॥ २४७॥
यस्सर्ववेदवेदान्तप्रतिपाद्यो महेश्वरः ।
तस्मादेव वरं याचे शङ्कराल्लोकशङ्करात् ॥ २४८॥
यः सृजत्यवति स्वैरं हन्ति सर्वमिदं जगत् ।
तस्मादेव वरं याचे शङ्कराल्लोकशङ्करात् ॥ २४९॥
त्वया स्वनेत्रपद्मेन पूजितं यत्पदाम्बुजम् ।
तस्मादेव वरं याचे शङ्कराल्लोकशङ्करात् ॥ २५०॥
कन्दर्पदर्पं व्यदलद्यः स्वनेत्नाग्निना हरः ।
तस्मादेव वरं याचे शङ्कराल्लोकशङ्करात् ॥ २५१॥
यो व्यदारयदत्युग्रं नृसिह्मं शरभाकृतिः ।
तस्मादेव वरं याचे शङ्कराल्लोकशङ्करात् ॥ २५२॥
कण्ठे दधार यो हालाहलं लोकरिरक्षया ।
तस्मादेव वरं याचे शङ्कराल्लोकशङ्करात् ॥ २५३॥
मधुसूदन यो देवो मधुसूदनसूदनः ।
तस्मादेव वरं याचे शङ्कराल्लोकशङ्करात् ॥ २५४॥
यः स्वभक्तैकरक्षार्थं निजघानान्तकं पुरा ।
तस्मादेव वरं याचे शङ्कराल्लोकशङ्करात् ॥ २५५॥
न यस्मात्परमो देवो यो ज्यायानणुरप्युत ।
तस्मादेव वरं याचे शङ्कराल्लोकशङ्करात् ॥ २५६॥
यः सर्वदेवदेवेशो महादेवोऽखिलेश्वरः ।
तस्मादेव वरं याचे शङ्कराल्लोकशङ्करात् ॥ २५७॥
॥ इति शिवरहस्यान्तर्गते राजाकृता शङ्करात् वरयाचना ॥
- ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः २१। २१०-२५७॥
- .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 21 . 210-257..
Proofread by Ruma Dewan