राजाकृता शिवभक्तियाचना
(शिवरहस्यान्तर्गते उग्राख्ये)
राजोवाच
महादेव कृपासिन्धो विष्णुब्रह्मादिवन्दित ॥ ३१०.२
ममास्त्वचञ्चला भक्तिस्त्वय्येवाव्यभिचारिणी ।
महाप्रलयकालेऽपि शम्भो त्वत्पादपङ्कजात् ॥ ३११॥
मच्चिव्त्तचञ्चरीकोऽयं मा यात्वन्यत्र सर्वथा ।
महापद्यपि घोरायां त्वदन्यं नार्चयाम्यहम् ॥ ३१२॥
यथा त्वदन्यपूजायां मतिर्मे न भविष्यति ।
तथा कुरु महादेव प्रसादं मयि सर्वदा ॥ ३१३॥
सदाशिव महेशेति नमोच्चारणतत्परा ।
रसनेयं ममास्त्वीश त्वत्प्रसादादहर्निशम् ॥ ३१४॥
नित्यं त्रिपुण्ड्ररुद्राक्षधारणे प्रीतिरस्तु मे ।
त्वत्पादपद्मपूजायामस्तु प्रीतिरखण्डिता ॥ ३१५॥
प्रीतिरस्तु महादेव शिवलिङ्गैकपूजने ।
निवृत्तमस्तु मच्चित्तं पुत्रपौत्रादितः प्रभो ॥ ३१६॥
त्वत्पूजासाधनव्यग्रं चित्तमस्तु ममान्वहम् ।
शिवास्तु त्वत्कथामात्रश्रवणप्रवणं मनः ॥ ३१७॥
ममास्तु प्रीति रनिशं त्वत्सेवायामुमापते । ३१८.१
॥ इति शिवरहस्यान्तर्गते राजाकृता शिवभक्तियाचना सम्पूर्णा ॥
- ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः २१। ३१०.२-३१८।१॥
- .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 21 . 310.2-318.1..
Proofread by Ruma Dewan