श्रीरामलिङ्गाष्टकम्
वेदवृन्दवन्दितं वरेण्यरूपसुन्दरं
धेनुदुग्धदोहफेनसन्निभं सदाशिवम् ।
ध्यानध्येयमप्रमेयमग्रणे(गण्)यमीश्वरं
(श्री) रामलिङ्गमाद्यमीशमीश्वरं स्मराम्यहम् ॥ १॥
पञ्चवक्त्रमीदृशं भुजङ्गमेशवन्दितं
भानुतारकेश्वरानलत्रिनेत्रधारिणम् ।
नागराजभूषणं विभूतिदेहधूसरं
(श्री) रामलिङ्गमाद्यमीशमीश्वरं स्मराम्यहम् ॥ २॥
पार्वतीपयोधरप्रभाविहारलालसं
क्रीडनाय शैलजार्धदेहभागभोगिनम् ।
उर्वशीमुखाभिरेव ताण्डवानुरञ्जितं
(श्री) रामलिङ्गमाद्यमीशमीश्वरं स्मराम्यहम् ॥ ३॥
घण्टिकात्रिशूलपाशयन्त्रराजधारिणं
श्रीवसन्तभैरवादिसर्वरागरागिणम् ।
बिल्वरुज्य(रुच्य)पद्ममल्लिकादिपुष्पपूजितं
(श्री) रामलिङ्गमाद्यमीशमीश्वरं स्मराम्यहम् ॥ ४॥
नेत्रजातवेदसा प्रसूनपञ्चबाणहं
दक्षयज्ञवेदगर्भ(?)मन्त्रतानुरञ्जितम् ।
श्रीहरं पुरापहं सुरावलीसुखप्रदं
(श्री) रामलिङ्गमाद्यमीशमीश्वरं स्मराम्यहम् ॥ ५॥
धूर्जटिं त्रिलोचनं मृडाह्वयं सदाशिवं
सुन्दरं वृषाधिरूढमम्बयानुरञ्जितम् ।
शङ्करं कपर्दिनं महेश्वरं हरं शिवं
(श्री) रामलिङ्गमाद्यमीशमीश्वरं स्मराम्यहम् ॥ ६॥
ज्योतीरूपमिन्दुमौलिमङ्गलप्रदं हरं
विश्वसृष्टिरक्षमीषणं महेश्वरं (रक्षणप्रणाशहेतुमीश्वरम्) ।
लिङ्गरूपमद्वयं(च)जाह्नवीतटी(जटा)धरं
(श्री) रामलिङ्गमाद्यमीशमीश्वरं स्मराम्यहम् ॥ ७॥
तथैव विश्वनाथमेव काशिकापुरे स्थितं
श्रीगिरौ च मल्लिकार्जुनेश्वरं सुरेश्वरम् ।
तथैव नर्मदातटे त्रिशूलपाणिनं शिवं
(श्री) रामलिङ्गमाद्यमीशमीश्वरं स्मराम्यहम् ॥ ८॥
रामलिङ्गाष्टकं पुण्यं यः पठेच्छिवसन्निधौ ।
शिवलोकमवाप्नोति शिवेन सह मोदते ॥ ९॥
॥ इति श्रीरामलिङ्गाष्टकं सम्पूर्णम् ॥
Proofread by Aruna Narayanan