श्रीरामनाथस्तुतिः
(श्रीरामेश्वरक्षेत्रे)
श्रीरामपूजितपदाम्बुज चापपाणे
श्रीचक्रराजकृतवास कृपाम्बुराशे
श्रीसेतुमूलचरणप्रवणान्तरङ्ग
श्रीरामनाथ लघु तारय जन्मवार्धिम् ॥
नम्राघवृन्दविनिवारणबद्धदीक्ष
शैलाधिराजतनयापरिरब्धवर्ष्मन् ।
श्रीनाथमुख्यसुरवर्यनिषेविताङ्घ्रे
श्रीरामनाथ लघु तारय जन्मवार्धिम् ॥ २॥
शूराहितेभवदनाश्रितपार्श्वभाग
क्रूरारिवर्गविजयप्रद शीघ्रमेव ।
साराखिलागमतदन्तपुराणपङ्क्तेः
श्रीरामनाथ लघु तारय जन्मवार्धिम् ॥ ३॥
शब्दादिमेषु विषयेषु समीपगेष्व-
प्यासक्तिगन्धरहितान्निजपादनम्रान् ।
कुर्वाण कामदहनाक्षिलसल्ललाट
श्रीरामनाथ लघु तारय जन्मवार्धिम् ॥ ४॥
इति शृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह-
भारतीस्वामिभिः विरचिता श्रीरामनाथस्तुतिः सम्पूर्णा ।
Proofread by PSA Easwaran