रतिकृतं १ शिवस्तोत्रम्
रतिश्चापि तदा शम्भुं जगाम शरणं ततः ।
उद्धूल्यगात्रं शुभ्रेण हृद्येन स्मरभस्मना ॥ १४२॥
जानुभ्यामवनिं गत्वा प्रोवाच दुःखसागरा ।
नमोऽस्तु शम्भवे नाम्ना कर्मणा दुःखदाय च ॥ १४३॥
नमस्ते पार्वतीस्मर्त्रे रत्या विलापकारिणे ।
सतीमृगाय नमः कादाचित्कयोगिने नमः ॥ १४४॥
नमो मायाद्यधिष्ठाय मायाहीनाय ते नमः ।
नमो ब्रह्मस्वरूपाय कृष्णरूपाय ते नमः ॥ १४५॥
नमो वैराजरूपाय सदाशिवाय ते नमः ।
नमः शिवाय रुद्राय लिङ्गरूपाय ते नमः ॥ १४६॥
नमो ज्योतिःस्वरूपाय शतरुद्राय ते नमः ।
नमस्ते कोटिरुद्राय नमः कैलासवासिने ॥ १४७॥
नमस्ते द्विस्वरूपाय दुःखविरहिणे नमः ।
सतीनाथाय शान्ताय योगिने ते नमोनमः ॥ १४८॥
नमो वृषभरूपाय शरभाय च ते नमः ।
नमः किरातरूपाय विवस्त्राय च ते नमः ॥ १४९॥
ब्राह्मणीषु भिक्षुकाय रतिरामाय ते नमः ।
अनङ्गाय महाङ्गाय जीवनाय च ते नमः ॥ १५०॥
नमस्तेऽस्तु सकामाय ध्वस्तकामाय ते नमः ।
नमस्तेऽस्तु शरण्याय भक्तेष्टदाय ते नमः ॥ १५१॥
नमोऽस्त्वसह्यकोपाय प्रियाऽऽप्तिदाय ते नमः ।
प्रयच्छ कामद्रव्यं मे कथं जीवे पतिं विना ॥ १५२॥
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने
१८५-अध्यायान्तर्गतं रतिकृतं शिवस्तोत्रं सम्पूर्णम् ।
लक्ष्मीनारायणीयसंहिता । खण्ड १। अध्याय १८५/१४२-१५२॥
lakShmInArAyaNIyasaMhitA . khaNDa 1. adhyAya 185/142-152..
Proofread by PSA Easwaran