श्रीरवलनाथस्तवराजस्तोत्रम्
श्रीगणेशाय नमः ॥ श्रीरवलनाथाय नमः ॥
खड्गशूलडमरुपात्रदधानं रत्नभूधरमणिरणदीक्षि ।
तुरङ्गवाहनमयं हतदैत्यं तं नमामि ॥ १॥
सततं कुलदैवतं देवं दक्षिणकेदारं रत्नाचलनिवासिनम् ।
जमदग्निमहं वन्दे रवलेशमभीष्टदम् ॥ २॥
रत्नासुरमिदंशूरं त्रिमूर्तिलिङ्गचिन्हितम् ।
ज्योतिरवलनाथं च वन्दे देवारिमर्दनम् ॥ ३॥
एकवीरापतिं सौम्यं ज्योतिर्लिङ्गम्परन्तपम् ।
रवलाख्यं महाभागं वन्दे भक्तार्तिनाशनम् ॥ ४॥
त्रिशूलं डमरुं खड्गं पात्रं च करपङ्कजैः ।
बिभ्राणरेणुकानाथं वन्दे तं रवलेश्वरम् ॥ ५॥
महालक्ष्मीप्रियं शान्तं ब्रह्माविष्णुशिवात्मकम् ।
ब्रह्मकर्मरतं दान्तं वन्दे कामप्रदं द्विजम् ॥ ६॥
शेषस्थं करुणासिन्धुं कारुण्यं कविताप्रदम् ।
दैत्यघ्नं वसुदं विप्रं वन्दे वैरिविमर्दनम् ॥ ७॥
कुण्डलिनं विरूपीणं शुभं यज्ञोपवीतिनम् ।
वाणगी नूपुरारावसंयुक्तं वन्दे पन्नगवाहनम् ॥ ८॥
दीनानाथं नाथनाथं सिद्धिदं सिद्धिसेवितम् ।
भुक्तिमुक्तिप्रदातारं वन्दे हंसकलात्मकम् ॥ ९॥
य इदं स्तवराजं तु रवलेशमहात्मनः ।
त्रिकालंयोजपेत्प्राज्ञस्तस्यस्याद्वाञ्छितं फलम् ॥ १०॥
शतावृत्या व्याधिनाशं सहस्राद्वर्तनाद्वसु ।
विद्यायुष्यं लभेच्छीघ्रं भवत्येव न संशयः ॥ ११॥
धर्मार्थकाममोक्षाणां प्राप्तिस्यान्नित्यजाप्यतः ।
इति श्रीब्रह्माण्डपुराणे अगस्तिनारदसंवादे श्रीरवलनाथस्तवराजस्तोत्रं सम्पूर्णम् ।
श्रीनाथचरणार्पणमस्तु ॥
॥ शुभं भवतु ॥
Although it is mentioned in colophone that
the stotra is in Brahmandapurana, the
location is not traceable in the printed book.
Proofread by Aruna Narayanan