रेवाविरचितं शिवध्यानम्
पश्यन्ती मण्डलं भानोः ध्यायन्ती साम्बमीश्वरम् ॥ १०.२॥
सूर्यमण्डलमध्यस्थं स्वर्णकुण्डलमण्डितम् ।
स्वर्णाङ्गदप्रभाकीर्णं स्वर्णकेयूरभासुरम् ॥ ११॥
दिव्यरत्नाङ्गुलीयानां शोभया च विराजितम् ।
किरीटतारहाराणां राशिभिश्च विराजितम् ॥ १२॥
सुवर्णरचितानन्तमणिमेखलया वृतम् ।
स्फुरन्नूपुरशिञ्जीरशिञ्जितैश्च विराजितम् ॥ १३॥
दिव्याभरणसम्पूर्णवामाङ्गगिरिजायुतम् ।
स्तूयमानं वेदसङ्घैर्नीलग्रीवं महेश्वरम् ॥ १४॥
सेव्यमानं सुरगणैः प्रमथाद्यैश्च सेवितम् ।
भाललोचनमाराध्यं त्रिशूलाभयपाणिनम् ॥ १५॥
कटाक्षैरमृताकारैः प्रपश्यन्तं मुहुर्मुहुः ।
स्वभक्तान् नन्दिकेशादीन् मन्दारासारसेवितम् ॥ १६॥
गौरीमनोहरं धीरं जरामरणवर्जितम् ।
अप्रमेयमनाद्यन्तं व्युप्तकेशं कपर्दिनम् ॥ १७॥
कल्याणरूपमानन्दं आनन्दघनमद्वयम् ।
महाविद्याप्रदातारं दातारं सम्पदामपि ॥ १८॥
स्मेरधाराधराधारं नित्यं गौरीमनोहरम् ।
अपारकरुणापूरपरिपूर्णं च सुन्दरम् ॥ १९॥
उत्पत्तिस्थितिसंहारहेतुभूतं सनातनम् ।
तडिन्मण्डलसङ्काशदिव्यवस्त्रविराजितम् ॥ २०॥
हिरण्यबाहुमीशानमपराजितमद्वयम् ।
प्रतिक्षणेऽप्यभिनवं महोदारं सुरस्तुतम् ॥ २१॥
अनन्ताप्रतिमामेयकल्याणगुणसागरम् ।
वरदानोन्मुखं शान्तं सर्वाशास्यवरप्रदम् ॥ २२॥
एतादृशं महादेवं ध्यायन्ती मनसा शिवम् । २३.१
॥ इति शिवरहस्यान्तर्गते रेवाविरचितं शिवध्यानं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । उत्तरार्धम् । अध्यायः १४। १०.२-२३.१ ॥
- .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . uttarArdham . adhyAyaH 14. 10.2-23.1 ..
Proofread by Ruma Dewan