रिटिविरचितं शङ्करस्तोत्रम्
असमकुसुमबाणपाणितातैकबाणः
असुमतिभवहीनः सोमधामाललामः (?) ॥ ७॥
सामस्तोमैकभूमा रविशशिहुतभुग्धाम सीमा त्वमात्मा
सर्वेषां भूरिकामप्रदवरदगिरी देवदेवोऽसि सोमः ।
उर्वीमौर्वीक दर्वीकर रथगिरिधृग्बाणबाणासनं ते
विष्णुर्जिष्णुस्त्वमेवागमवरतुरगोत्तुङ्गहेषैरपीड्यः ॥ ८॥
धाता यन्ता सुरान्ये तव हर सुकगः किङ्कराः शङ्कर त्वां
स्तोतुं ज्ञातुं किलेशं मम वरकरणे कारणं त्वं महेश ॥ ९॥
वामदेव जितकाम सामजस्तोमसीम सुदिधीतिललाम ।
व्योमकेश कुशकाशपूजितोत्कृष्टकोशगणपञ्चकदूर ॥ १०॥
अज गजवरमौलिकृत्तिधारिन् सुरगजराजसमर्चिताब्जपाद ।
अजगजकरणेषु कारणं त्वां भजतां नास्ति भवो भव प्रपन्ने ॥ ११॥
मयि कुरु करुणां पिनाकपाणे भवभावेषु निमग्नमेनमीश ।
सुदयारससारया दृशा कृशमाद्याऽद्य विलोकयेन्दुचूड ॥ १२॥
स्वर्णवर्णकृतनेत्रकर्णजापारहार गगनर्णवसंस्थ ।
ऊर्णनाभिरिव जागतमेतत्त्वद्गतं विसृजसेऽत्सि च तूर्णम् ॥ १९॥
शर्व सर्वपरिपूरितकामस्तोमबाणगणना करुणाढ्य ।
लोकनेऽपि कलनेऽपि कालतः कामकोपदमनाव्ययमूर्ते ॥ २०॥
श्रीमत्त्रियम्बक सदाशिव वेदवेद्य वैद्योत्तम प्रमथनाथ सुरासुरेड्य ।
विश्वनाथ मम नाथ पाहि मां माम नाथ गिरिजाधव नाथ ॥ २१॥
(विश्वनाथ मम नाथ पाहि मां माम न नाथो यस्येति व्युत्पत्तिः) ॥ २१॥
॥ इति शिवरहस्यान्तर्गते शिवाख्ये रिटिविरचितं शङ्करस्तोत्रं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । शिवाख्यः चतुर्थांशः । अध्यायः २४ । ७-१२, १९-२१॥
- .. shrIshivarahasyam . shivAkhyaH chaturthAMshaH . adhyAyaH 24 . 7-12, 19-21..
Notes: Riṭi रिटि; the son of Ṛṣi Uddālaka ऋषि उद्दालक, prays with dedication to Śiva शिव on Nīla नील hills after being ridiculed by his father. Śiva शिव is much pleased and Graces Riṭi रिटि with greater love and affection than He would to even Gaṇeśa गणेश and Skanda स्कन्द. Śiva शिव further accords to Riṭi रिटि, the status of ŚivaGaṇa शिवगण, friendship of Bhṛṅgi भृङ्गि, and residence with Him at Kailāsa कैलास.
Proofread by Ruma Dewan