गणेशकृतरुद्राध्यायस्तुतिः
नमस्ते देवदेवाय नमस्ते रुद्रमन्यवे ।
नमस्ते चन्द्रचूडायाप्युतोत इषवे नमः ॥ १॥
नमस्ते पार्वतीकान्त एकरूपाय धन्वने । (नमस्ते मेरुधन्वने)
नमस्ते भगवन् शम्भो बाहुभ्यामुत ते नमः ॥ २॥
इषुः शिवतमा या ते तया मृडय रुद्र माम् ।
शिवं धनुर्यद्वभूव तेनापि मृडयाधुना ॥ ३॥
शरव्या या शिवतमा तयापि मृडय प्रभो ।
या ते रुद्र शिवा नित्यं सर्वमङ्गलसाधनम् ॥ ४॥
तयाऽभिचाकशीहि त्वं तनुवा मामुमापते ।
अघोरयापि तनुवा रुद्राऽऽद्याऽपापकाशिनी ॥ ५॥ (अघोरयेत्याद्यर्धत्रयं)
या तया मृडय स्वामिन् सदा शन्तमया प्रभो ।
गिरिशन्त महारुद्र हस्ते यामिषुमस्तवे ॥ ६॥
विभर्षि तां गिरित्राद्य शिवां कुरु शिवापते ।
शिवेन वचसा रुद्र नित्यं वाच्छा वदामसि ॥ ७॥
त्वद्भक्तिपरिपूताङ्गं मा हिꣳसीः पुरुषं जगत् ।
यन्नः शर्व जगत्सर्वमक्ष्मꣳ सुमना असत् ॥ ८॥
यथा तथाव मां रुद्र तदन्यदपि मे प्रभो ।
रुद्रत्वं प्रथमो दैव्यो भिषक् पापविनाशकः ॥ ९॥
अधिवक्ताऽध्यवोचन्मां भावलिङ्गार्चकं मुदा ।
अहीन् सर्वान् यातुधान्यः सर्वा अप्यद्य जम्भयन् ॥ १०॥
असौ ताम्रोऽरुणो बभ्रुः नीलग्रीवः सुमङ्गलः ।
विलोहितोऽस्त्ययं शम्भो त्वदधिष्ठानमेव हि ॥ ११॥
नमो नमस्ते भगवन् नीलग्रीवाय मीढुषे ।
सहस्राक्षाय शुद्धाय सच्चिदानन्दमूर्तये ॥ १२॥
उभयोरार्त्नियोर्ज्या या धन्विनस्तां प्रमुञ्चताम् ।
सम्प्राप्य धनुरन्येषां भयाय प्रभविष्यति ॥ १३॥
अस्मद्भयविनाशार्थमधुना भयदाः प्रभो ।
याश्च ते हस्त इषवः पराता भगवो वप ॥ १४॥
अवतत्य धनुस्तत् त्वं सहस्राक्ष शतेषुधे ।
मुखा निशीर्य शल्यानां शिवो नः सुमना भव ॥ १५॥
विज्यं धनुरिदं भूयात् विशल्यो बाणवानपि ।
अनेशन्निषवोऽप्यस्याप्याभुरस्तु निषङ्गधिः ॥ १६॥
कपर्दिनो महेशस्य यदि नाभुर्निषङ्गधिः ।
इषवोऽपि समर्थाश्चेत् साग्रत्वेन भयं भवेत् ॥ १७॥
या ते हेतिर्धनुर्हस्ते मीढुष्टम बभूव या ।
तयाऽस्मान् विश्वतस्तेन पालय त्वमयक्ष्मया ॥ १८॥
अनाततायायुधाय नमस्ते धृष्णवे नमः ।
बाहुभ्यां धन्वने शम्भो नमो भूयो नमो नमः ॥ १९॥
परिते धन्वनो हेतिः विश्वतोऽस्मान् वृणक्तु सः ।
इषुधिस्तव यस्तावत् अस्मदारे निधेहि तम् ॥ २०॥
हिरण्यबाहवे तुभ्यं सेनान्ये ते नमो नमः ।
दिशां च पतये तुभ्यं पशूनां पतये नमः ॥ २१॥
त्विषीमते नमस्तुभ्यं नमः सस्पिञ्जराय ते ।
नमः पथीनां पतये बभ्रुशाय नमो नमः ॥ २२॥
नमो विव्याधिनेन्नानां पतये प्रभवे नमः ।
नमस्ते हरिकेशाय रुद्रायास्तूपवीतिने ॥ २३॥
पुष्टानां पतये तुभ्यं जगतां पतये नमः ।
संसारहेतिरूपाय रुद्रायाप्याततायिने ॥ २४॥
क्षेत्राणां पतये तुभ्यं सूताय सुकृतात्मने ।
अहन्त्याय नमस्तुभ्यं वनानां पतये नमः ॥ २५॥
रोहिताय स्थपतये मन्त्रिणे वाणिजाय च ।
कक्षाणां पतये तुभ्यं नमस्तुभ्यं भुवन्तये ॥ २६॥
तद्वारिवस्कृतायास्तु महादेवाय ते नमः ।
ओषधीनां च पतये नमस्तुभ्यं महात्मने ॥ २७॥
उच्चैर्घोषाय धीराय धीरान् क्रन्दयते नमः ।
पत्तीनां पतये तुभ्यं कृत्स्नवीताय ते नमः ॥ २८॥
धावते धवलायापि सत्त्वनां पतये नमः ।
नमस्ते सहमानाय तुभ्यं निव्याधिने नमः ॥ २९॥
आव्याधिनीनां पतये ककुभाय निषङ्गिणे ।
स्तेनानां पतये तुभ्यं दिव्येषुधिमते नमः ॥ ३०॥
तस्कराणां च पतये वञ्चते परिवञ्चते ।
स्तायूनां पतये तुभ्यं नमस्तेऽस्तु निचेरवे ॥ ३१॥
नमः परिचरायापि महारुद्राय ते नमः ।
अरण्यानां च पतये मुष्णतां पतये नमः ॥ ३२॥
उष्णीपिणे नमस्तुभ्यं नमो गिरिचराय ते ।
कुलुञ्चानां च पतये नमस्तुभ्यं भवाय च ॥ ३३॥
नमो रुद्राय शर्वाय तुभ्यं पशुपते नमः ।
नम उग्राय भीमाय नमो अग्रेवधाय च ॥ ३४॥
नमो दूरेवधायापि नमो हन्त्रे नमो नमः ।
हनीयसे नमस्तुभ्यं नीलग्रीवाय ते नमः ॥ ३५॥
नमस्ते शितिकण्ठाय नमस्तेऽस्तु कपर्दिने ।
नमस्ते व्युप्तकेशाय सहस्राक्षाय मीढुषे ॥ ३६॥
गिरिशाय नमस्तेऽस्तु शिपिविष्टाय ते नमः ।
नमस्ते शम्भवे तुभ्यं मयोभव नमोऽस्तु ते ॥ ३७॥
मयस्कर नमस्तुभ्यं शङ्कराय नमो नमः ।
नमः शिवाय शर्वाय नमः शिवतराय च ॥ ३८॥
नमस्तीर्थ्याय कूल्याय नमः पार्याय ते नमः ।
अवार्याय नमस्तेस्तु नमः प्रतरणाय च ॥ ३९॥
नम उत्तरणायापि हरातार्याय ते नमः ।
अलाद्याय नमस्तेऽस्तु भक्तानां वरदाय च ॥ ४०॥
नमः शष्प्याय फेन्याय सिकत्याय नमो नमः ।
प्रवाह्याय नमस्तेऽस्तु ह्र्स्वायास्तु नमो नमः ॥ ४१॥
वामनाय नमस्तेऽस्तु नमोऽस्तु बृहते नमः ।
वर्षीयसे नमस्तेऽस्तु नमो वृद्धाय ते नमः ॥ ४२॥
संवृध्वने नमस्तुभ्यमग्रियाय नमो नमः ।
प्रथमाय नमस्तुभ्यमाशवे चाजिराय च ॥ ४३॥
शीघ्रियाय नमस्तेऽस्तु शीभ्याय च नमो नमः ।
नम ऊर्व्याय शर्वायाप्यवस्वन्याय ते नमः ॥ ४४॥
स्रोतस्याय नमस्तुभ्यं द्वीप्याय च नमो नमः ।
ज्येष्ठाय च नमस्तुभ्यं कनिष्ठाय नमो नमः ॥ ४५॥
पूर्वजाय नमस्तुभ्यं नमोऽस्त्वपरजाय च ।
मध्यमाय नमस्तुभ्यमपगल्भाय ते नमः ॥ ४६॥
जघन्याय नमस्तुभ्यं बुध्नियाय नमो नमः ।
सोभ्याय प्रतिसर्याय ते याम्याय नमो नमः ॥ ४७॥
क्षेम्याय च नमस्तुभ्यं याम्याय च नमो नमः ।
उर्वर्याय नमस्तुभ्यं खल्याय च नमो नमः ॥ ४८॥
श्लोक्याय चावसान्यायावस्वन्याय च ते नमः ।
नमो वन्याय कक्ष्याय मौञ्जयाय च नमो नमः ॥ ४९॥
श्रवाय च नमस्तुभ्यं प्रतिश्रव नमो नमः ।
आशुषेणाय शूराय नमोऽस्त्वाशुरथाय च ॥ ५०॥
वरूथिने वर्मिणे च बिल्मिने च नमो नमः ।
श्रुताय श्रुतसेनाय नमः कवचिने नमः ॥ ५१॥
दुन्दुभ्याय नमस्तुभ्यमाहनन्याय ते नमः ।
प्रहिताय नमस्तुभ्यं धृष्णवे प्रमृशाय च ॥ ५२॥
पाराय पारविन्दाय नमस्तीक्ष्णेषवे नमः ।
सुधन्वने नमस्तुभ्यं स्वायुधाय नमो नमः ॥ ५३॥
नमः स्रुत्याय पथ्याय नमः काट्याय ते नमः ।
नमो नीप्याय सूद्याय सरस्याय च ते नमः ॥ ५४॥
अवर्ष्याय च वर्ष्याय मेध्याय च नमो नमः ।
विद्युत्याय नमस्तुभ्यमीध्रियाय नमो नमः ॥ ५५॥
नमो नाद्याय भव्याय वैशन्ताय नमो नमः ।
अवट्याय नमस्तुभ्यं नमः कूप्याय ते नमः ॥ ५६॥
आतप्याय नमस्तुभ्यं वात्याय च नमो नमः ।
रेष्मियाय नमस्तुभ्यं वास्तव्याय च ते नमः ॥ ५७॥
वास्तुपाय नमस्तुभ्यं नमस्सोमाय ते नमः ।
नमो रुद्राय ताम्रायप्यरुणाय च ते नमः ॥ ५८॥
नम उग्राय भीमाय नमः शङ्गाय ते नमः ।
नमस्तीर्थ्याय कूल्याय सिकत्याय नमो नमः ॥ ५९॥
प्रवाह्याय नमस्तुभ्यमिरिण्याय नमो नमः ।
नमस्ते चन्द्रचूडाय प्रपथ्याय नमो नमः ॥ ६०॥
किꣳशिलाय नमस्तेऽस्तु क्षयणाय च ते नमः ।
कपर्दिने नमस्तेऽस्तु नमस्तेऽस्तु पुलस्तये ॥ ६१॥
नमो गोष्ठ्याय गृह्याय ग्रहाणां पतये नमः ।
नमस्तल्प्याय गेह्याय गुहावासाय ते नमः ॥ ६२॥
काट्याय गह्वरेष्ठाय हृदय्याय च ते नमः ।
निवेष्प्याय नमस्तुभ्यं पाꣳसव्याय ते नमः ॥ ६३॥
रजस्याय नमस्तुभ्यं परात्परतराय च ।
नमस्ते हरिकेशाय शुष्क्याय च नमो नमः ॥ ६४॥
हरित्याय नमस्तुभ्यं हरिद्वर्णाय ते नमः ।
नम ऊर्व्याय सूर्म्याय पर्ण्याय च नमो नमः ॥ ६५॥
नमोऽपगुरमाणाय पर्णशद्याय ते नमः ।
अभिघ्नते चाख्खिदते नमः प्रख्खिदते नमः ॥ ६६॥
विश्वरूपाय विश्वाय विश्वाधाराय ते नमः ।
त्रियम्बकाय रुद्राय गिरिजापतये नमः ॥ ६७॥
मणिकोटीरकोटिस्थकान्तिदीप्ताय ते नमः ।
वेदवेदान्तवेद्याय वृषारूढाय ते नमः ॥ ६८॥
अविज्ञेयस्वरूपाय सुन्दराय नमो नमः ।
उमाकान्त नमस्तेऽस्तु नमस्ते सर्वसाक्षिणे ॥ ६९॥
हिरण्यबाहवे तुभ्यं हिरण्याभरणाय च ।
नमो हिरण्यरूपाय रूपातीताय ते नमः ॥ ७०॥
हिरण्यपतये तुभ्यमम्बिकापतये नमः ।
तदुमापतये तुभ्यं नमः पापप्रणाशक ॥ ७१॥
मीदुष्टमाय दुर्गाय कद्रुद्राय प्रचेतसे ।
तथ्यसे बिल्वपूज्याय नमः कल्याणरूपिणे ॥ ७२॥
अपारकल्याणगुणार्णवाय श्रीनीलकण्ठाय निरञ्जनाय ।
कालान्तकायापि नमो नमस्ते दिक्कालरूपाय नमो नमस्ते ॥ ७३॥
वेदान्तवन्दिस्तुतसद्गुणाय गुणप्रवीणाय गुणाश्रयाय ।
श्रीविश्वनाथाय नमो नमस्ते काशीनिवासाय नमो नमस्ते ॥ ७४॥
अजातसौन्दर्यसुधानिधानसमृद्धिरूपाय शिवाधवाय ।
धाराधराकार नमो नमस्ते धारास्वरूपाय नमो नमस्ते ॥ ७५॥
नीहारताराकरकाकराय प्रकारहारप्रतिहारवीर ।
वीरेश्वरापारदयानिधान पाहि प्रभो पाहि नमो नमस्ते ॥ ७६॥
॥ इति शिवरहस्यान्तर्गते गणेशकृतरुद्राध्यायस्तुतिः सम्पूर्णा ॥
- ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । पूर्वार्धम् । अध्यायः १०। ४६-१२१ ॥
- .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . pUrvArdham . adhyAyaH 10. 46-121 ..
Proofread by Ruma Dewan