रुद्राक्षमाहात्म्यम्
रुद्राक्षे प्रजपन्मंत्र पुण्य कोटिगुणं भवेत् ।
दशकोटिगुणं पुण्यं धारणाल्लभते नरः ॥
अथानुक्रमाणिका ।
१-२ मङ्गलाचरणम् , ग्रन्थप्रशंसा
३-४ रुद्राक्षोत्पत्तिः
५ मालाधारणाधिकारी
६-१० शिवनामविभूतिरुद्राक्षमाहात्म्यम्
११ रुद्राक्षमाहात्म्ये सूतवचनम्
१२-१८ एकादशशतरुद्राक्षधारणमाहात्म्यम्
१९-२३ एकादशशतधारणाभावेऽन्यप्रकारः
२४ गुरुलघुरुद्राक्षमाहात्म्यम्
२५ अतिलघुरुद्राक्षमाहात्म्यम्
२६ रुद्राक्षाणां सर्वफलाधिक्यकथनम्
२७-२८ सर्वमालातो रुद्राक्षमालाया: श्रेष्ठत्वम्
२९ एकमुखीरुद्राक्षपरीक्षा
३०-४५ एकमुखादारभ्य चतुर्दशमुखपर्यन्तमाहात्म्यम्
४६ गौरीशङ्कररुद्राक्षमाहात्म्यम्
४७ पार्वती प्रति शिवकथनम्
४८ सर्वदेवताजाप्येरुद्राक्षमालायाःश्रेष्ठत्वम्
४९ स्थूलरुद्राक्षोत्पत्तिस्थानम्
५० लघुरुद्राक्षोपत्तिस्थानम्
५१-५२ रुद्राक्षश्रवणमाहात्म्यम्
रुद्राक्षमाहात्म्यम् ।
श्रीगणेशाय नमः ।
नत्वा गणेशं सगणं महेशं श्रीशारदां सर्वगुणप्रदात्रीम् ।
रुद्राक्षसारं सकलार्थमूलं प्रेम्णावृतो प्रेमपुरी तु चक्रे ॥ १॥
सर्वार्थसाधने मूलं रुद्राक्षं परमं मतम् ।
इति ज्ञात्वा मया सम्यक् गृह्यते परमादरात्॥ २॥
अथ यदुक्तं रुद्राक्षजाबालोपनिषदि अथर्ववेदे -
अथ हैनं कालाग्निरुद्रं भुसुण्डः पप्रच्छ कथं रुद्राक्षोत्पत्तिः
तद्धरणात्किं फलामिति तं होवाच भगवान् कालाग्निरुद्रः
त्रिपुरवधार्थमहं निमीलिताक्षोऽभवं तेभ्यो जलबिन्दवो भूमौ
पतितास्ते रुद्राक्षा जाताः । सर्वानुग्रहार्थाय तेषां नामोच्चारण
मात्रेण दशगोप्रदानफलं दर्शनस्पर्शनाभ्यां द्विगुणं फलमत
ऊर्ध्वं वक्तुं न शक्नोमि ॥ ३॥
अथ कालाग्निरुद्रं भगवन्तं सनत्कुमारः पप्रच्छाऽधीहि
भगवन् रुद्राक्षधारणविधिं तस्मिन्समये निदाघजडभरत -
दत्तात्रेयकात्यायनकपिलवसिष्ठपिप्पलादयश्च कालाग्निरुद्रः
किमर्थं भवतामागमनमिति होवाच रुद्राक्षधारणविधिं सर्वे
श्रोतुमिच्छामह इति अथ कालाग्निरुद्रः प्रोवाच रुद्रस्य
नयनादुत्पन्ना रुद्राक्षा इति लोके ख्यायन्ते ॥ ४॥
देवी भागवते -
सर्वाश्रमाणां वर्णानां स्त्रीशूद्राणां शिवाज्ञया ।
धार्याः सदैव रुद्राक्षा यतीनां प्रणवेन हि ॥ ५॥
शिवपुराणे -
शिवनाम विभूतिश्च रुद्राक्षास्त्रितयाः शुभाः ।
एतत्त्रयं शरीरे च यस्य तिष्ठति नित्यशः ॥ ६॥
(variation)
शिवनामविभूतिश्च तथा रुद्राक्ष एव च ।
एतत्त्रयं महापुण्यं त्रिवेणीसदृशं स्मृतम् ॥
एतत्त्रयं शरीरे च यस्य तिष्ठति नित्यशः ।
तस्यैव दर्शनं लोके दुर्लभं पापहारकम् ॥
शरीरे च त्रयं यस्य तत्फलं चैकतः स्मृतम् (स्थितम्) ।
एकतो वेणिकायाश्च दर्शनेन फलन्तु यत् ॥ (variation)
एकतो वेणिकायाश्च स्नानजं तु फलं बुधैः ॥ ७॥
तदेवं तुलितं पूर्वं ब्रह्मणा हितकारिणा ।
समतां (समानं) चैव तद्यातं (तज्जातं)
तस्माद्धार्य्यं (तस्माद्धार्यं) सदा बुधैः ॥ ८॥
तद्दिनं हि समारभ्य ब्रह्मादिभिः पुरातनैः (ब्रह्मविष्ण्वादिभिः सुरैः) ।
धार्य्यते (धार्यते) त्रितयं तच्च दर्शनात्पापहारकम् ॥ ९॥
देवीभागवते -
this Śloka rather occurs in ŚivaMahāPurāṇam
रुद्राक्षेण जपन्मन्त्रं पुण्य कोटिगुणं भवेत् ।
दशकोटिगुणं पुण्यं धारणाल्लभते नरः ॥ १०॥
शिवपुराणे -
तन्माहात्म्यं विशेषेण वक्तुमर्हसि तत्त्वतः ।
इत्येवं वचनं श्रुत्वा सूतो वचनमब्रवीत् ॥ ११॥
सम्यक् पृष्टमृषिश्रेष्ठाः कथयामि पुरातनम् । (??)
रुद्रसंख्याशतं धृत्वा रुद्ररूपो भवेन्नरः ॥ १२॥
पञ्चभिश्च शतैश्चैव शतार्धेन तथा पुनः । (??)
रचित्वा मुकुटं यो वै धारयेत्स शिवस्तथा ॥ १३॥ (??)
त्रिभिश्चैव शतैः प्रोक्तं षष्ट्या युक्तैर्मुनीश्वराः । (??)
उपवीतं त्रिरावृत्तं तथा तस्य तथा पुनः ॥ १४॥ (??)
शिखायां च तथा प्रोक्तं त्रयं वै ऋषिसत्तमाः।
कर्णयोः पञ्च षट् चैव दक्षिणोत्तरयोस्तथा ॥ १५॥
(variation):
शिखायां च त्रयं प्रोक्तं रुद्रक्षाणां महेश्वरि ।
कर्णयोः षट् च षट्चैव वामदक्षिणयोस्तथा ॥
शतमेकोत्तरं कण्ठे बाह्वोश्च (बाह्वोर्वै) रुद्रसङ्ख्यया ।
कर्णयोर्धारयेत्तत्र (कूर्परद्वारयोस्तत्र) मणिबन्धे तथा पुनः ॥ १६॥
उपवीते त्रयं धार्य्यं (धार्यं) मुक्तिकामी भवेन्नरः (शिवभक्तिरतैर्नरैः) ।
शेषाश्चोर्वरिताश्चैव पञ्चाशन्मुनिसत्तमाः ॥ १७॥ (??)
(शेषानुर्वरितान्पञ्च सम्मितान्धारयेत्कटौ) ॥
कटिसूत्रं तथा कृत्वा नाभौ च धारयेद्बुधः । (??)
एवं सङ्ख्या धृता येन स शिवो नात्र संशयः ॥ १८॥ (??)
देवीभागवते - (??)
these Śloka rather occur in ŚivaMahāPurāṇam
शताधिकसहस्रस्य विधिरेषः प्रकीर्तितः ।
तदभावे प्रकारोन्यः शुभः सम्प्रोच्यते मया ॥ १९॥
एकं शिखायां रुद्राक्षं चत्वारिंशत्तु मस्तके ।
द्वात्रिंशत्कण्ठदेशे तु वक्षस्यष्टोत्तरं शतम् ॥ २०॥
एकैकं कर्णयोः षट्षड्बाह्वोः षोडशषोडश ।
करयो रविमानेन द्विगुणेन मुनीश्वर ॥ २१॥
सङ्ख्या प्रीतिधृता येन सोऽपि शैवजनः परः ।
शिववत्पूजनीयो वै वंद्यस्सर्वैरभीक्ष्णशः ॥ २२॥
तत्सर्वं च मया ख्यातं (समाख्यातं) यत्पृष्टं हि मुनीश्वराः ।
भस्मरुद्राक्षमाहात्म्यं सर्वकामसमृद्धिदम् ॥ २३॥
धात्रीफलसमं यत्स्यात्सर्वारिष्टविनाशनम् ।
गुञ्जया सदृशं यत्स्यात्सर्वार्थफलदायकम् ॥ २४॥
शिवपुराणे -
यथा यथा लघुः स्याद्वै तथातथाऽधिकं फलम् ।
(यथा यथा लघुः स्याद्वै तथाधिकफलप्रदम् ।)
एकैकस्य (एकैकतः) फलं प्रोक्तं दशांशैरधिकं बुधैः ॥ २५॥
सर्वेष्वपि च बीजेषु दृश्यते विविधाङ्कुरः । (??)
रुद्राक्षबीजके सृष्टा दृश्यते भक्तिरुत्तमा ॥ २६॥ (??)
पराशरे गौतमोक्तम् -
शतं च शङ्खमणिभिः प्रवालैश्च सहस्रकम् ।
स्फाटिकैर्दशसाहस्रं मौक्तिकैर्लक्षमुच्यते ॥ २७॥
पद्माक्षैर्दशलक्षन्तु सौवर्णैः कोटिरुच्यते ।
कुशग्रन्थ्या च रुद्राक्षैरनन्तफलमश्नुते ॥ २८॥
शिवपुराणे -
चिह्नैरेतैः शुभा ज्ञेया प्रेक्षावद्भिर्मुनीश्वराः । (??)
एकमुखी च या स्याद्वै प्रतिपूरं व्रजेदिह ॥ २९॥ (??)
एकमुखी भवेद्या वै सर्वसिद्धिप्रदायिनी । (??)
सिद्धयोऽष्टौ च तत्रैव यत्र स्याच्छुभदा च सा ॥ ३०॥ (??)
अथर्ववेदे (रुद्राक्षजाबालोपनिषते) -
एकवक्त्रं तु रुद्राक्षं परतत्त्वस्वरूपकम् ।
तद्धारणात्परे तत्त्वे लीयते विजितेन्द्रिय ॥ ३१॥
द्विवक्त्रं तु मुनिश्रेष्ठ चार्द्धनारीश्वरात्मकम् ।
धारणादर्धनारीशः प्रीयते तस्य नित्यशः ॥ ३२॥
त्रिमुखञ्चैव रुद्राक्षं अग्नित्रयस्वरूपकम् ।
तद्धारणाच्च हुतभुक् तस्य तुष्यति नित्यशः ॥ ३३॥
चतुर्मुखं तु रुद्राक्षं चतुर्वक्त्रस्वरूपकम् ।
तद्धारणाच्चतुर्वक्त्रः प्रीयते तस्य नित्यदा ॥ ३४॥ (चतुर्वक्त्रं ?)
पञ्चमुखी (पञ्चवक्त्रं) तु रुद्राक्षं पञ्चब्रह्मस्वरूपकम् ।
पञ्चवक्त्रः स्वयं ब्रह्म पुरुहत्यां (पुंहत्यां) व्यपोहति ॥ ३५॥
षड्वक्त्रमपि रुद्राक्षं कार्तिकेयाधिदैवतम् ।
तद्धारणान्महाश्रीस्स्यान्महदारोग्यमुत्तमम् ॥ ३६॥
सप्तवक्त्रं तु रुद्राक्षं सप्तमात्राधिदैवतम् ।
तद्धारणान्महाश्रीस्स्यान्महदारोग्यमुत्तमम् ॥ ३७॥
अष्टवक्त्रं तु रुद्राक्षमष्टमात्राधिदैवतम् ।
वस्वष्टकप्रियं चैव गङ्गाप्रीतिकरं तथा ॥ ३८॥
नववक्त्रं तु रुद्राक्षं नवशक्त्यधिदैवतम् ।
तस्य धारणमात्रेण तुष्यन्ति नवशक्तयः ॥ ३९॥
दशवक्त्रं तु रुद्राक्षं यमदैवत्यमीरितम् ।
दर्शात्प्रशान्तिजनकं धारणान्नात्र संशयः ॥ ४०॥
एकादशमुखं त्वक्षं रुद्रैकादशदैवतम् ।
तदिदं दैवतं प्राहुस्सदा सौभाग्यवर्धनम् ॥ ४१॥
रुद्राक्षं द्वादशमुखं महाविष्णुस्वरूपकम् ।
द्वादशादित्यरूपं च बिभर्त्येव हि तत्परम् ॥ ४२॥
त्रयोदशमुखं त्वक्षं कामदं सिद्धिदं शुभम् ।
तस्य धारणम्रात्रेण कामदेवः प्रसीदति ॥ ४३॥
चतुर्दशमुखं चाक्षं सर्वदा सिद्धिदायकम् ।
(चतुर्दशमुखं चाक्षं रुद्रनेत्रसमुद्भवम् ।)
सर्वव्याधिहरं चैव सर्वदारोग्यमुत्तमम् ॥ ४४॥
(सर्वव्याधिहरं चैव सर्वदाऽऽरोग्यमाप्नुयात् ॥)
- -
चतुर्दशाख्यपर्यन्तं माहात्म्यं लिखितं मया । (??)
एकविंशमुखान्तञ्च पुराणे श्रूयतेऽखिलम् ॥ ४५॥ (??)
गौरीशङ्कररुद्राक्षं तदेव प्रियदैवतम् । (??)
धारणात्सुखसम्पत्तिर्महदारोग्यमुत्तमम् ॥ ४६॥ (??)
- -
देवीभागवते -
इत्युक्तं गिरिजाग्रे हि शिवेन परमात्मना । (line occurs in ŚivaMahāPurāṇam )
(lines hereafter seem to be composed by the author)
खलु रुद्राक्षभेदा हि प्रोक्ता वै मुखभेदतः॥ ४७॥
विष्णोरपि च भक्तश्च जपे कुर्यात्तथैव च ।
वस्तुतः सर्वेदेवानां जाप्ये मुख्या उदाहृता ॥ ४८॥
स्थूलाक्षदेशं जगति प्रसिद्धं नैपालनाम्ना भुवि मुख्यदेशम् ।
यत्रोद्भवा सर्वनराश्चनार्यः शिवप्रियाः शैवजनानुरक्ताः ॥ ४९॥
अगस्त्यसंसेवितदक्षिणां दिशं जावाप्रसिद्धं खलु जन्मधाम ।
रुद्राक्षदेशञ्चणकेन तुल्यं शिवप्रियं शैवजनानुगम्यम् ॥ ५०॥
एवं यः शृणुयान्नित्यं माहात्म्यं परमं शुभम् ।
लभेत्परत्र सम्मोक्षं शिवस्यातिप्रियो भवेत् ॥ ५१॥
समाप्ता चेयं वै निखिलविधरुद्राक्षमहिमा
इमां ज्ञात्वा सम्यक् बहुविधसुखं याति मनुजः ।
अतः स्वान्ते धार्या हरिहरसमाराधनपरैः
कृतं त्वेतत्सर्वं सकलजनप्रेमार्थपुरिणा ॥ ५२॥
इति श्रीप्रेमपुरीरचितरुद्राक्षमाहात्म्यं सम्पूर्णम् ॥
(??) is marked against the lines that could not be traced to; or were found to vary, wrt the Purāṇa cited in the source text. The original text from the Purāṇa has been added against some lines for convenience of readers.
Some Śloka-s that are attributed to DeviBhāgavatam in the source texts, were indeed found in śivaMahāPurāṇam (mostly in Vidyeśvara Saṁhitā Chapters 23 and 25). It was observed that much text wrt Rudrākśa that is mentioned in śivaMahāPurāṇam and DeviBhāgavatam is found in RudrākṣaJābālopaniṣat.
The mention of Atharvaveda (in the source text) implies that the text is from the Atharvadedīya Upaniṣat viz. RudrākṣaJābālopaniṣat.
Readers are advised to cross-check all lines and trace them to the Purāṇa and Upaniśhat source.
Encoded and proofread by Ruma Dewan