श्रीरुद्रद्वादशनामस्तोत्रम्
प्रथमं तु महादेवं द्वितीयं तु महेश्वरम् ।
तृतीयं शङ्करं प्रोक्तं चतुर्थं वृषभध्वजम् ॥ १॥
पञ्चमं कृत्तिवासं च षष्ठं कामाङ्गनाशनम् ।
सप्तमं देवदेवेशं श्रीकण्ठं चाष्टमं तथा ॥ २॥
नवमं तु हरं देवं दशमं पार्वतीपतिम् ।
रुद्रमेकादशं प्रोक्तं द्वादशं शिवमुच्यते ॥ ३॥
एतद्वादशनामानि त्रिसन्ध्यं यः पठेन्नरः ।
गोघ्नश्चैव कृतघ्नश्च भ्रूणहा गुरुतल्पगः ॥ ४॥
स्त्रीबालघातकश्चैव सुरापो वृषलीपतिः ।
सर्वं नाशयते पापं शिवलोकं स गच्छति ॥ ५॥
शुद्धस्फटिकसङ्काशं त्रिनेत्रं चन्द्रशेखरम् ।
इन्दुमण्डलमध्यस्थं वन्दे देवं सदाशिवम् ॥ ६॥
॥ इति श्रीरुद्रद्वादशनामस्तोत्रं समाप्तम् ॥